सदस्यसम्भाषणम्:2040482dhanushr/प्रयोगपृष्ठम्

                                                                               श्री शिक्षाष्टकं 
                                                                               चैतन्यमहोदयः

चेतो-दर्पण-मार्जनं भव-महा-दावाग्नि- निर्वापणं श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम्

आनन्दाम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं सर्वात्म-स्नपनं परं विजयते श्री-कृष्ण-सण्कीर्तनम् ॥ १ ॥

नाम्नामकारि बहुधा निज-सर्व-शक्तिस् तत्रार्पिता नियमितः स्मरणे न कालः

एतादृशी तव कृपा भगवन्ममापि दुर्दैवमीदृशमिहाजनि नानुरागः ॥२॥

तृणादऽपि सुनीचेन तरोरऽपि सहिष्णुना

अमानिना मानदेन कीर्तनीयः सदा हरिः ॥ ३॥

न धनं न जनं न सुन्दरीं कवितां वा जगदीश कामये

मम जन्मनि जन्मनीश्वरे भवताद् भक्तिर् अहैतुकी त्वयि ॥४॥

अयि नन्द-तनुज किङ्करं पतितं मां विषमे भवाम्बुधौ

कृपया तव पाद-पङ्कज स्थित-धूली-सदृशं विचिन्तय ॥ ५ ॥

नयनं गलदश्रु-धारया वदनं गद्गद-रुद्धया गिरा

पुलकैर्निचितं वपुः कदा तव-नाम-ग्रहणे भविष्यति ॥६॥

युगायितं निमेषेण चक्षुषा प्रावृषायितम्शू

न्यायितं जगत्सर्वं गोविन्द-विरहेण मे ॥ ७ ॥

आश्लिष्य वा पाद-रतां पिनष्टु माम् अदर्शनान्मर्म-हताम्-हतां करोतु वा

यथा तथा वा विद्धातु लम्पटो मत्प्राण-नाथस्तु स एव नापरः ॥८॥
पण्डितेः उक्तं यत् विद्याधनं सर्वेषु धनेषु प्रधानम्। विद्यायाः विषये संस्कृते बहूनि सुभाषितानि | रचितानि प्रत्येकसुभाषिते विद्यायाः महत्त्वम् दत्तम्।विद्या धनतुल्यः इति कथ्यते ।
 परम् एतत् विद्यधनं साधारण धनवत् नास्ति विद्यधनस्य व्ययेन तस्य |क्षयैः न. परं तस्य वर्धनम् एव भवति । इदं विद्यधनं हतु अपि न शक्यते। चौरेण वा राज्ञा वा तत् हर्तुं न शक्यते।
अस्य विद्याधनस्य भारोऽपि न अनुभूयते विद्यधनस्य भ्रातृषु विभाजनम् अपि न कर्तुं शक्यते । विद्या तु सत्यमेव सर्वधनप्रधानम्। प्रवासेषु विद्या मित्रवत् अस्ति ।
विद्यायाः कारणात् मनुष्यस्य तेजः वर्धते विद्या परमं भूषणम्। विद्यया एव मनुष्यस्य कार्यक्षमता वर्धते । सर्वेषु जीवेषु मनुष्यः विशेषः,
यतः तस्य समीपे विद्या वर्तते। अतः विद्यविहीनः जनः पशुवत् एव अस्ति । ज्ञानेन मनुष्यः जगति कीर्तिवान् भवति । तस्य ज्ञानसम्पत्तेः कारणात् सः सर्वत्र सम्मानितः ।

'विद्यायाः विषये, सत्यमेव उक्तम् 'विद्या परमं बलम्।' सुखम् प्राप्तुम् विद्यार्जनम् आवश्यकम् अस्ति। अतः कथ्यते

                 विद्या ददाति विनयं विनयात् याति पात्रताम् ।
                 पात्रत्वात् धनम् आप्नोति, धनाद्धर्मं ततः सुखम् ॥
सदस्य "2040482dhanushr/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ