सदस्यसम्भाषणम्:Gunadala Poorna Rama Chandra/प्रयोगपृष्ठम्

सञ्चिका:B.J.P. flag.jpg
B.J.P. flag

भारतीयजनतापक्षः(१९८०-) जनतादलस्य कार्यकर्तारः ये जनसङ्घे आसन् ते भारतीयजनतापक्षस्य (भा.ज.पा.) स्थापनां कृतवन्तः। अटलबिहारीवाजपेयी प्रथमः अध्यक्षरूपेण निर्वाचितोऽभूत्। सिखजनानां उपरि अन्यायस्य विरोधः भारतीयजनतापक्षेण कृतः। (सिखनेता-दारासिंहस्य मतेन )वाजपेयीमहोदयेन सिख-हिन्दुजातयोर्मध्ये सौहार्दभावः वर्धितः आसीत्। १९८४ तमे वर्षे साधारणनिर्वाचने भा.ज.पा. आसनद्वयमेव अविजीत। भा.ज.पा रामजन्मभूमौ (अयोध्यायां) बाबरीमस्जिद् स्थले राममन्दिरनिर्माणम् इति विषयः हिन्दुजनानां सन्मुखे समुपास्थितम् अकरोत्। अस्मिन् विषये विश्वहिन्दूपरिषदः राष्ट्रीयस्वयंसेवकसङ्घयोः समर्थनं पूर्णतया भारतीयजनतापक्षेण लब्धम् आसीत् । लालकृष्णाडवाणी आभारतं यात्रां कृत्वा हिन्दुजनानां समर्थनमपि लब्धवान्। १९९२ तमे वर्षे ६ दिसम्बरमासे, बाबरीमस्जिद विद्ध्वंसः जातः। आभारतं परवर्तीसमये हिन्दु-मुस्लिमजनगणयोर्मध्ये हिंसा प्रचलिता आसीत्। फलस्वरूपं सहस्रा़धिकजनानां मृत्युः अभवत्। एतदनन्तरं विश्वहिन्दूपरिषदः उपरि प्रतिबन्धं सर्वकारेण आरोपितासीत्। लालकृष्णाडवाणी तथा केचन भा.ज.पा. कार्यकर्तारः अपि कारागाराबद्धाः आसन्। सम्पूर्णदेशे हिंसायाः भर्त्सना अभवत्। परन्तु भा.ज.पा. हिन्दुजनानां समर्थनम् अलभत्।

लालकृष्णः आडवाणी १९९३ तमे वर्षे दिल्ली निर्वाचने भारतीयजनतापक्षः विजयी अभूत्। तथा १९९५ तमे वर्षे गुजरात-महाराष्ट्रः उभयत्राऽपि निर्वाचने भा.ज.प. विजयं अलभत्। १९९५ तमे वर्षे नवम्बर् मासे भा.ज.पा-महाअधिवेशने लालकृष्णाडवाणीमहोदयेन उत्घोषितासीत् यत् - परवर्तीनिर्वाचने भारतीयजनतापक्षः विजयं प्राप्ष्यति चेत् अटलबिहारीवाजपेयी प्रधानमन्त्री भविष्यति इति। १९९६ तमे वर्षे सामान्यनिर्वाचने भा.ज.प. विजयी अभूत्। अटलबिहारीवाजपेयी प्रथमवारं प्रधानमन्त्री अभूत्। परन्तु संख्यागरिष्ठताऽभावात् १३ दिनानि अनन्तरम् एव तेषां सर्वकारस्य पतनम् अभवत्। १९९८ तमे वर्षे लोकसभानिर्वाचने भारतीयजनतापक्षः इतरक्षेत्रीयपक्षैः सह मैत्रीकुटः (राष्ट्रियजनतान्त्रिकमैत्रीकुटः) अकरोत्। निर्वाचने मैत्रीकुटस्य विजयः अभूत्। पुनः अटलबिहारीवाजपेयी प्रधानमन्त्रीपदवीं लब्धवान् । परन्तु १९९९ तमे वर्षे मैत्रीकुटान्तर्वर्ती एकस्य पक्षस्य समर्थनप्रत्याहारकारणात् सर्वकारस्य पतनम् अभवत्। १९९९ तमे वर्षे लोकसभानिर्वाचने राष्ट्रियजनतान्त्रिकमैत्रीकुटं सम्पूर्णजनसमर्थनम् अलभत्। अटलबिहारीवाजपेयी प्रधानमन्त्री तृतीयवारम् अभवत् तथा च लालकृष्णाडवाणी उपप्रधानमन्त्री अभूत्। मैत्रीकुटः सर्वम् आहत्य ३०३ तथा भा.ज.प. १८३ स्थलेषु विजीता आसन्। इदनीम् अटलबिहारीवाजपेयी-नेतृत्वाधीनसर्वकारः पञ्चवर्षकार्यकालं सम्यकतया चालितासीत्। २००४ तमे वर्षे लोकसभानिर्वाचने राष्ट्रियजनतान्त्रिकमैत्रीकुटस्य अनपेक्षितपराजयः अभूत्। मई २००८ तमे वर्षे भा.ज.पक्षेण दक्षिणभारतीयराज्येषु तथा कर्नाटकविधानसभा प्रथमवारं विजीतः। २००९ तमे वर्षे सामान्यनिर्वाचने भा.ज.पक्षस्य पुनः पराजयः अभवत्। तथा पक्षस्य ११६ स्थलेषु एव विजयः अभूत् ।

सदस्य "Gunadala Poorna Rama Chandra/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ