सदस्यसम्भाषणम्:Kunapuli Venkata Sai Sandeep/प्रयोगपृष्ठम्

Portrait of Raja Ram Mohun Roy, 1833.jpg
Portrait of Raja Ram Mohun Roy, 1833

राजा राममोहन राय राजा राममोहन राय ( ( शृणु) /ˈrɑːdʒɑː rɑːməmoʊhənə rɑːj/) (हिन्दी: राजा राममोहन राय, आङ्ग्ल: Raja Ram Mohan Roy, वङ्ग: রাজা রাম মোহন রায়) इत्ययम् “आधुनिकभारतस्य जनकः” इति कथ्यते । सः समाजसेवकः आसीत् । राममोहन राय इत्यस्य वैचारिकदृष्टिकोणः आधुनिकः आसीत् । अतः तेन आधुनिकतया सह परम्परां सञ्योजितुं प्रयासाः कृताः । तेन धर्मनिरपेक्षता-आध्यात्मिकता इत्येतयोः समन्वयः प्रस्थापितः [१] । जन्म, परिवारश्च राममोहन राय इत्यस्य जन्म १७७२ तमस्य वर्षस्य मई-मासस्य २२ तमे दिनाङ्के पश्चिमबङ्गाल-राज्यस्य हुगलि-मण्डलस्य राधानगरे अभवत्[२] । तस्य माता तारिणीदेवी, पिता रमाकान्तः च आसीत् । राममोहनस्य माता ‘फूल ठकुरानी’ इति नाम्ना ख्याता आसीत् ।

रमाकान्तेन त्रिवारं विवाहः कृतः । तस्य प्रथमा पत्नी सुभद्रादेवी, द्वितीया तारिणीदेवी, तृतीया रमणीदेवी च आसीत् । १७७२ तमे वर्षे ‘ईस्ट् इण्डिया कम्पनी’ इत्यस्याः संस्थायाः भारतस्य बृहत्तमेषु भागेषु आधिपत्यम् आसीत् [३]। समाजे अपि कुरीतयः आसन् । शिक्षणस्य अभावः अपि आसीत् । यः कोऽपि जनः तासां कुरीतीनां विरोधं करोति, तस्मै दण्डः प्रदीयते स्म । तेन कारणेन कोऽपि जनः विरोधं न करोति स्म ।

रमाकान्तस्य पितुः नाम विनोदराय आसीत् । रमाकान्तस्य षड्भ्रातरः आसन् । अतः विनोदराय इत्यस्य मृत्योः अनन्तरं तस्य सम्पूर्णसम्पत्तिः सप्तभ्रातृसु विभक्ता जाता । रमाकान्तः स्वस्य भागं गृहीतवान् । रमाकान्तेन १७९२ तमे वर्षे लङ्गूरपारा-नामके ग्रामे नूतनगृहं निर्मापितम् [४]। तत्रैव कुटुम्बिजनैः सह निवसति स्म ।

राममोहनस्य अग्रजः जगमोहनः आसीत् । तयोः द्वयोः माता तारिणीदेवी आसीत् । किन्तु रामलोचन अपि एकः भ्राता आसीत् । तस्य माता रमणीदेवी आसीत् । त्रयाणां भ्रातॄणाम् एका एव भगिनी आसीत् ।

राममोहनस्य प्रपितामहस्य नाम कृष्णचन्द्रः बन्द्योपाध्यायः आसीत् । सः तत्रस्यस्य राज्ञः सेवां करोति स्म । राज्ञा तस्मै ‘राय’ इति उपाधिः प्रदत्तः आसीत्[५] । तावतैव सर्वेऽपि कौटुम्बिकाः 'राय’ इति उपाधिं तन्नाम्ना सह संयोज्य ते सम्बोधयन्ति स्म । सः मूर्शिदाबाद-मण्डलस्य शांफसा-ग्रामे निवसति स्म । सः अत्यन्तः मेधावी आसीत् । शांफसा-नगरं त्यक्त्वा सः राधानगरं निवासाय गतवान् आसीत् । कृष्णचन्द्रस्य त्रयः पुत्राः आसन् । अमरचन्द्र, हरिप्रसाद, ब्रजविनोद च । तेषु ब्रजविनोदः धनिकः, धार्मिकः, परोपकारी च आसीत् । सिराजुदौला-राज्ञा मुर्शिदाबाद-नगरे ब्रजविनोदाय उच्चपदं प्रदत्तम् । किन्तु ब्रजविनोदः तस्मिन् पदे सानुकूलं न अनुभवति स्म । तस्य प्रति सर्वेषां व्यवहारः अन्यायपूर्णः आसीत् । अतः सः वृत्तिम् अत्यजत्[६] ।

ब्रजविनोदस्य सप्त पुत्राः आसन् । तेषु पञ्चमः पुत्रः रमाकान्तः आसीत् । श्याम भट्टाचार्यस्य पुत्र्या तारिण्या सह रमाकान्तस्य विवाहः अभवत् । तयोः एका पुत्री, द्वौ पुत्रौ च आस्ताम् । पुत्र्याः नाम अज्ञातम् अस्ति[७] । प्रथमपुत्रः जगमोहनः, अपरः राममोहनः च आसीत् । पुत्र्याः विवाहः श्रीधरमुखोपध्यायनामकेन केनचित् विदुषा सह अभवत् ।

शिक्षणम् राममोहनः बाल्यकालादेव मेधावी आसीत् । तस्य प्रारम्भिकं शिक्षणं स्वगृहे एव अभवत् । ततः परं ग्रामस्य कस्याँञ्चित् शालायां राममोहनः अधीतवान् । पाठशालायां तस्य आदर्शं चरित्रम् आसीत् ।

नववर्षदेशीये लघुवयसि एव तेन बङ्गला-भाषा, फारसी-भाषा च अधीता [८]। ततः परं सः संस्कृत-भाषां, अरबी-भाषां च अपि अधीतवान् । तस्य पिता रमाकान्तः सैद्धान्तिकः आसीत् । राममोहनः पटना-नगरे अध्येतुम् इच्छति स्म । अतः तस्य पिता रमाकान्तः राममोहनम् उच्चशिक्षणार्थं पटना-नगरं प्रेषितवान् । पटना-नगरे राममोहनेन अरबी-फारसी-भाषयोः अध्ययनं कृतम् ।

राममोहनेन पटना-नगरे अरस्तू, यूक्लिड् इत्येतयोः विश्वविख्यातयोः दार्शनिकयोः पुस्तकानां गहनाध्ययनं कृतम् आसीत् । राममोहनः ताभ्यां प्रभावितः जातः । विवाहानन्तरं सः वाराणसी-नगरीं गतः । तत्र गत्वा राममोहनेन वेदस्य, उपनिषदाम् इत्यादीनां हिन्दुग्रन्थानाम् अध्ययनं कृतम् [९]।

विवाहः पटना-नगरात् राममोहनः पुनः स्वग्रामम् आगतवान् । तदा तस्य स्वभावः विकसितः जातः । राममोहनेन पटना-नगरे यदध्ययनं कृतम् आसीत्, तेन कारणेन सः मूर्तिपूजां न स्वीकरोति स्म । सः दृष्टवान् यत् – “भारतस्य जनाः मूर्तेः पूजां कुर्वन्तः सन्ति” । किन्तु राममोहनः तन्न स्वीकरोति स्म । तेन उक्तं यत् – “ईश्वरस्य न किमपि स्वरूपम् । स तु निराकारः एव” । सः मूर्तिपूजायां, धर्मानुष्ठानेषु विश्वासं न करोति स्म । तस्य पिता चिन्तामग्नः आसीत् यत् – “तस्य पुत्रस्य विचारधारा भिन्ना” इति नोचितम्[१०] । अतः रमाकान्तेन राममोहनस्य विवाहः कारितः । उमादेवी इत्याख्यया सह तस्य विवाहः जातः । रमाकान्तः विचारयति स्म यत् – “विवाहानन्तरं तस्य पुत्रः धर्मस्य विरोधं न करिष्यति । सः धर्माय कार्याणि करिष्यति” इति । किन्तु विवाहानन्तरम् अपि तस्य विचाराः न परिवर्तिताः । विवाहानन्तरं सः वाराणसीं गतः । तत्र तेन शास्त्राणां गहनतया अध्ययनं कृतम् [११]।

राममोहनस्य त्रिवारं विवाहः अभवत् । तस्य प्रथमा पत्नी लघुवयसि एव मृता । तस्मिन् समये राममोहनः नववर्षदेशीयः एव आसीत् । अनन्तरं पुनः तस्य द्वौ विवाहौ जातौ । तस्य लघुपत्न्याः नाम उमादेवी आसीत्[१२] । उमादेव्याः पितृगृहं कोलकाता-मण्डलस्य भवानीपुर-ग्रामे आसीत् । सा मदनमोहन चट्टोपध्याय इत्याख्यस्य अग्रजा भगिनी आसीत् ।

वृत्तिः ई. स. १८०३ तमे वर्षे राममोहनः ईस्ट् ईण्डिया कम्पनी इत्यस्यां संस्थायाम् एकम् अधिकारिपदम् अलङ्कृतवान् [१३]।

टॉमस् वुडफॉर्ड् इत्याख्यः ईस्ट् इण्डिया कम्पनी इत्यस्याः संस्थायाः एकः अधिकारी आसीत् । टॉमस् वुडफॉर्ड् इत्यस्मात् परिचयकारणादेव राममोहनः तत्र वृत्तिं प्रापत् । राममोहनः टॉमस् वुडफॉर्ड् इत्यस्य अधीनस्थः अधिकारी आसीत् । प्रथममेलने एव टॉमस् वुडफॉर्ड् इत्याख्यः राममोहनाय वृत्तिम् अददात् । किञ्चित् समयान्तरे एव राममोहनस्य पितुः मृत्युः अभवत्[१४] । तेन सः बहुसमयं यावत् दुःखी आसीत् । एकवर्षानन्तरं वुडफॉर्ड् इत्याख्यस्य कार्यस्थानं परिवर्तितं जातम् । सः मुर्शिदाबाद-नगरे पञ्जिकाधिकारीपदे कार्यं कुर्वन् आसीत् । राममोहनस्य अपि तेन सह एव कार्यस्थानं परिवर्तितं जातम् । मुर्शिदाबाद-नगरे अपि तेन एकवर्षं यावदेव कार्यं कृतम्[१५] ।

राममोहनः भारतस्य विभिन्नभाषाः ज्ञातुम् इच्छति स्म । सः आधुनिकभारतस्य निर्माणाय प्रयासरतः आसीत् । स्वस्य मातृभूम्यै उच्चस्थाने नेतुम् उपयुक्तानां विचारधाराणाम् आवश्यकता वर्तते । अतः राममोहनेन आङ्ग्लसंस्कृतौ प्रवेशः कृतः । यतः तस्मिन् समये आङ्ग्लसंस्कृतिः भारतीयसंस्कृतेः अपेक्षया उन्नतिशीला आसीत्[१६] ।

ई.स. १८०५ तमस्य वर्षस्य अगस्त-मासस्य वुडफॉर्ड् इत्ययं स्वस्य पदस्य त्यागपत्रम् अददात् । अतः राममोहनेन अपि त्यागपत्रं प्रदत्तम् । ताभ्यां द्वाभ्यां मुर्शिदाबाद-नगरं त्यक्तुं विचारः कृतः । तदैव सर्वकारेण राममोहनः सूचितः यत् – सर्वकारेण राममोहनाय लिपिकपदं दातुं निर्णयः कृतः[१७] ।

किञ्चित् दिवसानन्तरं राममोहनस्य स्थानान्तरणम् अभवत् । रामगढ-ग्रामे तस्य स्थानान्तरणं जातम् । राममोहनः स्वाभिमानी, न्यायप्रियः च आसीत् । जॉन् डिगबी-इत्याख्यः तस्य अधिकारी आसीत् । वृत्तेः निश्चित्यानन्तरं राममोहनः डिगबी-इत्यस्मात् एकं शपथम् अकारयत् । शपथे डिगबी-इत्यनेन लिखितं यत् – “यदि राममोहनः कस्मैचित् अपि कार्याय आमन्त्रितः भविष्यति, तर्हि तस्मै आसन्दाय निवेदनं कुर्यात् । एवं च राममोहनं प्रति अपमानजनकः व्यवहारः न भवेत्” इति[१८] । ततः परं सः निष्ठया स्वस्य कार्यं कुर्वन् आसीत् । डिगबी-इत्याख्यः राममोहनात् प्रभावितः जातः । केषुचित् दिनेषु एव डिगबी राममोहनस्य कार्यक्षमताम्, उत्साहं च ज्ञातवान् । समयान्तरे द्वयोः गाढमित्रता अपि अभवत्[१९] । आजीवनं तयोः मित्रता आसीत् ।

राममोहनः डिगबी इत्यस्य अधीनस्थे लिपिकपदे कार्यं कुर्वन् आसीत् । तदा सः आङ्ग्लभाषां ज्ञातुम् अवसरं प्रापत् । यतः तस्य कार्यालयस्य अधिकारिणः सम्यक्तया आङ्ग्लभाषां जानन्ति स्म ।

राममोहनस्य आङ्ग्लभाषायां प्रभुत्वम् ई.स. १८०९ तमे वर्षे डिगबी इत्ययं रङ्गपुर-ग्रामं गच्छन् आसीत् । तदा राममोहनः अपि तेन सह गन्तुं सज्जः अभवत् । सः डिगबी इत्यस्य लिपिकः आसीत् । वृत्त्या सह आङ्ग्लभाषायाः अध्ययनम् अपि करोति स्म । यदा डिगबी इत्यनेन राममोहनस्य आङ्ग्लभाषायाः शुद्धोच्चारणं श्रुतं, तदा डिगबी इत्याख्यः राममोहनात् प्रभावितः अभवत् । डिगबी इत्यस्य मनसि राममोहनाय सम्माननम् अपि वर्धितम्[२०] ।

डिगबी इत्याख्यः सार्वजनिकपत्राणि पठति स्म । राममोहनः अपि तानि सार्वजनिकपत्राणि पठति स्म । कस्याँञ्चित् सभायामपि राममोहनः आङ्ग्लभाषायाम् एव भाषणं करोति स्म[२१] । वैदेशिकान्, राजनैतिकान् च गतिविधीन् ज्ञातुं राममोहनः उत्सुकः आसीत् । अतः सः आङ्ग्लभाषायाः समाचारपत्राणि जिज्ञासया पठति स्म । यावत् पर्यन्तं सः सम्पूर्णानि समाचारपत्राणि न पठेत्, तावत्पर्यन्तम् अन्यानि कार्याणि न करोति स्म । समाचारपत्राणां माध्यमेन सः युरोपीयदेशानां राजनैतिकम्, आर्थिकं च विवरणं प्राप्नोति स्म[२२] ।

यदा राममोहनः आङ्ग्लभाषायां वदति स्म, तदा सर्वे जनाः तम् उत्साहेन शृण्वन्ति स्म । आङ्ग्लाधिकारिणः अपि तस्य प्रशंसां कुर्वन्ति स्म । तदा ‘जेरेमी बैन्थम्’ नामकः एकः दार्शनिकः आसीत् । अपरं च ‘सिल्फ् बकिङ्घम्’ कोलकाता-नगरस्य सम्पादकः आसीत् । जेरेमी बैन्थम्, सिल्फ् बकिङ्घम् इत्येतौ द्वौ अपि तस्य प्रशंसकौ आस्ताम्[२३] । बकिङ्घम् इत्यनेन लन्दन्-महानगरस्य एकस्याः पत्रिकायाः सम्पादकं प्रति लेखः प्रेषितः यत् – “अहम् आश्चर्यम् अनुभवामि यत् – राममोहनस्य भाषाशुद्धता अतिविशिष्टा वर्तते । एतादृशी आङ्ग्लभाषायाः शुद्धता मया कस्यापि भारतीयस्य भाषायां न दृष्टा । राममोहनः येषाम् आङ्ग्लशब्दानां प्रयोगं करोति, ते शब्दाः आङ्ग्लजनैः पठितव्याः । अहं निश्चयेन वदामि यत् – राममोहनः सुन्दरतया आङ्ग्लभाषायां भाषणं कर्तुं शक्नोति” [२४]।

अन्धश्रद्धायाः, रीतीनां च प्रभावः एकस्मिन् दिने राममोहनस्य गृहे एका दुःखदघटना अभवत् । तस्य भ्राता मृतः जातः । तेन कारणेन सम्पूर्णे गृहे जनाः विलापं कुर्वन्तः आसन् । तदा राममोहनस्य वयः लघुः आसीत् । स्वस्य भ्रातुः पार्थिवं शरीरं दृष्ट्वा तस्य मनसि विचाराः प्रस्फुटिताः जाताः । अतः सः पितरम् अपृच्छत् यत् – “किमर्थं भ्राता भूमौ सुप्तः” । तदा पिता अवदत् – “इदानीं भवतः भ्राता अस्माकं समीपे नास्ति । स अस्मद् दूरं गतवान् । पुनः कदापि न आगमिष्यति” इति । पितुः वचनं श्रुत्वा सः अपि रुदन् आसीत् । तेन प्रथमवारं शवः दृष्टः आसीत्[२५] । गृहस्य अन्ततः स्त्रियः भ्रातृपत्न्यै शृङ्गारं कुर्वन्त्यः आसन् । तद्दृष्ट्वा राममोहनः आश्चर्यचकितः जातः । कारणं बहिः भ्रातुः शवः आसीत् । गृहस्य अन्ततः भ्रातृपत्नी शृङ्गारैः सज्जा आसीत् । स न जानाति यत् – समाजः भ्रातुः शवेन सह भ्रातृपत्न्याः अपि दाहनं करिष्यति[२६] ।

गृहात् शवयात्रा निष्कासिता । शवयात्रायां पुरुषैः सह स्त्रियः अपि आसन् । पुरुषाः तस्य भ्रातुः शवं नयन्ति स्म । स्त्रियः तस्य भ्रातृपत्नीं दाहनार्थं नयन्ति स्म । तस्य भातृपत्नी चितायां दग्धुं नेच्छति स्म । तथापि कोऽपि तस्य इच्छां श्रोतुं नेच्छति स्म । अन्ते बलादेव समाजेन तस्य भ्रात्रा सह भ्रातृपत्न्याः अपि दाहसंस्कारः कृतः । अस्याः कुप्रथायाः प्रभावः राममोहनस्योपरि अभवत्[२७] ।

अन्यायस्य विरोधसङ्कल्पः उपर्युक्तां घटनां दृष्ट्वा राममोहनेन मनसि समाजस्य सतीप्रथाम् अपाकर्तुं सङ्कल्पः कृतः । यथा यथा तस्य वयः वर्धते स्म, तथैव तस्य सङ्कल्पः अपि दृढः भवति स्म । इतः परं सः समाजस्य सर्वाः अन्धश्रद्धाः अपाकर्तुं प्रतिबद्धः जातः । समाजेन जनेषु ये अत्याचाराः भवन्ति स्म, तेन ब्रिटिश्-सर्वकारः बलवान् भवति स्म । ब्रिटिश्-सर्वकारस्य मूलादेव नाशं कर्तुं राममोहनः तासां कुप्रथानां नाशम् इच्छति स्म[२८] ।

समाजस्य प्रारूपस्य परिवर्तनं कठिनम् आसीत् । तथापि सङ्कल्पानुसारं तेन कार्यस्य आरम्भः कृतः । सः समाजस्य बालविवाहप्रथायाः, बहुविवाहप्रथायाः, सतीप्रथायाः च विरोधं कृतवान् । अज्ञानता एव अन्धविश्वासस्य प्रमुखं कारणम् अस्ति इति मन्यते । “यदि समाजः शिक्षितः भवेत् तर्हि अन्धविश्वासस्य स्वयमेव नाशः भविष्यति” इति राममोहनेन उक्तम्[२९] ।

सर्वकारेण शिक्षणार्थं किमपि न कृतम् । पाठशालायां यज्ज्ञानं दीयते स्म, तज्ज्ञानं भविष्यत्संरक्षणाय पर्याप्तं नासीत् । अतः राममोहनेन एकां पाठशालां स्थापयितुं विचारः कृतः[३०] ।

राममोहनः सर्वधर्मान् समानदृष्ट्या एव पश्यति स्म । अतः तेन सर्वेषां धर्माणां शास्त्राणाम् अध्ययनं कृतम् आसीत् । तेन एकस्मिन् भाषणे उक्तम् आसीत् यत् – “भारतवासिभिः हिन्दीभाषा तु ज्ञातव्या किन्तु अन्याः भाषाः अपि ज्ञातव्याः इति आवश्यकम् अस्ति । तेन वयं देशविदेशयोः समाचारान् ज्ञातुं शक्नुमः । यदि वयम् इच्छेम तर्हि आङ्ग्लानां पुस्तकैः अपि पठितुं शक्नुमः । किन्तु यदा वयं निष्ठया पठामः, तदैव शक्यम् अस्ति[३१] ।

राममोहनस्य विज्ञाने अपि अभिरूचिः आसीत् । सः भारते वैज्ञानिकशिक्षणपद्धतिं स्थापयितुम् इच्छति स्म । अतः सः प्रयासरतः आसीत् । “भारतस्य शिक्षणक्षेत्रे प्रगतिः भवेत्” इति आङ्ग्लसर्वकारः नेच्छति स्म । बहवः आङ्ग्लाः राममोहनस्य विशिष्टविचारैः प्रभाविताः जाताः । तेषु डेविड् हेयर् इत्ययम् आसीत् । डेविड् इत्यनेन सह राममोहनः गोष्ठीं चकार । गोष्ठ्यां नूतनविद्यालयस्य स्थापनाय विचारविमर्शाः अभवन् । तदनन्तरं राममोहनेन कोलकाता-नगरे एकः विद्यालयः प्रस्थापितः[३२] ।

तस्मिन् विद्यालये छात्राः पठनार्थं गच्छन्ति स्म । विद्यालयस्य शिक्षणकार्यं श्रेष्ठतया प्रचलत् आसीत् । किञ्चित् समयान्तरे कैश्चित् विरोधिभिः तस्य विद्यालस्य विरोधः कृतः । किन्तु विरोधाय सर्वाः योजनाः विफलाः जाताः । अस्मात् विरोधात् बहव्यः समस्याः समुद्भूताः । महत्त्वपूर्णाः व्यक्तयः विद्यालयस्य समितेः निर्गतवन्तः । तदा राममोहनः स्वयमेव समितेः निर्गतवान् । तेन विरोधिनः शान्ताः जाताः । विद्यालस्य सञ्चालनम् अन्ये सदस्याः कुर्वन्तः आसन् । गुप्तरीत्या एव राममोहनः विद्यालयाय साहाय्यं कुर्वन् आसीत्[३३] ।

जनाः तस्य बहुविरोधं कुर्वन्तः आसन् । तथापि राममोहनः निर्धारिताय लक्ष्याय एव कार्यं कुर्वन् आसीत् । सः इच्छति स्म यत् – “भारतवासिभ्यः उच्चशिक्षायाः व्यवस्था भवेत्” । अतः तेन एकः अन्यः विद्यालयः प्रस्थापितः । तस्य नाम “एङ्ग्लो-हिन्दु-स्कूल” इति आसीत्[३४] ।

मूर्तिपूजायाः विरोधः राममोहनः मूर्तिपूजायां विश्वासं न करोति स्म । जनाः गृहे मूर्तिपूजां कुर्वन्ति स्म । किन्तु राममोहनः तस्य विरोधं करोति स्म । यतः सः विचारयति स्म यत् – “मूर्तिपूजायाः धर्मस्य च मध्ये कः सम्बन्धः”? अतः सः मूर्तिपूजां न मन्यते । राममोहनस्य एतादृशं व्यवहारं दृष्ट्वा तस्य पिता आश्चर्यचकितः जातः । सः दुःखी आसीत् । किञ्चिद्दिवसानन्तरं पितृपुत्रयोः मध्ये मतभेदाः समुदभवन् [३५]।

राममोहनस्य विचाराः आधुनिकाः आसन् । अतः तेन कारणेन सः मूर्तिपूजायाः विरोधं करोति स्म । तदा सर्वत्र राममोहनस्य प्रचारः अभवत् । जनानां दृष्ट्या सः एकः विवादकः आसीत् । यदा तेन सतीप्रथायाः, विधवासु अत्याचारस्य च विरोधः कृतः, तदा जनाः राममोहनस्य अधिकं विरोधं कुर्वन्तः आसन् [३६]।

रमाकान्तेन अपि राममोहनस्य विरोधः कृतः । किन्तु सः तस्य पिता आसीत् । अतः स्वस्य पितुः कर्त्तव्यं स्मृत्वा राममोहनाय आर्थिकं साहाय्यम् अकरोत् । रमाकान्तः राममोहनाय कुप्यति स्म । तथापि राममोहनस्य उपरि पितुः कोपस्य कोऽपि प्रभावः न जातः । सर्वे जनाः राममोहनस्य विरोधं कुर्वन्तः आसन् । तथापि राममोहनेन अन्यायं प्रति निरन्तरं सङ्घर्षः कृतः । राममोहनेन धर्मशास्त्रस्य, राजनीतेः, विज्ञानस्य, अर्थशास्त्रस्य इत्यादीनां महत्त्वपूर्णविषयाणाम् गहनाध्ययनं कृतम् आसीत् । सः प्रत्येकं विषयं जिज्ञासया पठति स्म । सः समाजस्य बहूनां क्षेत्राणां स्थितिं समीकर्तुं प्रयासान् अकरोत् [३७]।

ई. स. १८०० तमे वर्षे कोलकाता-महानगरे फॉर्ट् विलियम् महाविद्यालस्य स्थापना अभवत् । तदा सः हर्षम् अनुभवति स्म । विलियम् कैरी इत्याख्यः प्रसिद्धः शिक्षाशास्त्री आसीत् । विलियम् कैरी इत्याख्यः एव तस्य महाविद्यालस्य प्रधानाचार्यत्वेन कार्यरतः आसीत् [३८]।

तस्मिन् विद्यालये ‘ईस्ट् इण्डिया कम्पनी’ इति संस्थायाः कर्मचारिभ्यः प्रमुखाणां भाषाणां शिक्षा प्रदीयते स्म । समयान्तरे तत्र भारतीयविद्वांसः, युरोपीयविद्वांसः च संलग्नाः अभवन् । तत्र द्वयोः संस्कृत्योः समावेशः जातः [३९]।

राममोहनेन महाविद्यालयं गत्वा स्वस्य व्यवहारकुशलतायाः परिचयः प्रदत्तः । तस्य कुशाग्रमतेः अनुभवं कृत्वा सर्वे शिक्षकाः तस्मात् प्रभाविताः अभवन् । सर्वे राममोहनेन सह मित्रवत् आचरन्ति स्म । राममोहनेन एकेश्वरवादविषये ग्रन्थः रचितः [४०]।

राममोहनेन स्वस्य प्रथमः ग्रन्थः फारसी-भाषायां लिखितः । तस्य ग्रन्थस्य नाम – “तुह फातूल मुवाहिदीन” इति आसीत् । तस्य हिन्दीभाषायाम् अर्थः भवति यत् – “एकेश्वरवादियों के लिए उपहार” इति [४१]।

ये जनाः धर्मं गतानुगतिकतया आचरन्, ते सर्वे तस्य ग्रन्थस्य विरोधम् अकुर्वन् । किन्तु राममोहनः निश्चिन्तः आसीत् । जनानां विरोधेन क्रान्तिकारिकार्याणां प्रेरणा प्राप्यते[४२] ।

राममोहनः मूर्तिपूजायाः विरोधं कुर्वन् आसीत् । किन्तु कोऽपि धार्मिकपुरुषः तन्न स्वीकरोति स्म । राममोहनः कथयति स्म यत् – “मूर्तिपूजया विना अपि ईश्वरप्राप्तिः शक्या” [४३] ।

राममोहनः सतीप्रथायाः अपि विरोधं करोति स्म । सः कथयति स्म यत् – “पत्युः मृत्योः अनन्तरं पत्न्याः दाहः न करणीयः । यतः तदपि पापं कथ्यते । स्त्रीपुरुषाभ्यां समानाधिकाराणां प्राप्तिर्भवेत् । यतः स्त्री एव पुरुषाणां जननी अस्ति । अस्माभिः स्त्रीणां सन्मानः कर्त्तव्यः” इति[४४] ।

ये जनाः विरोधं कुर्वन्तः आसन्, तेषां समीपे राममोहनस्य प्रश्नानाम् उत्तराणि नासन् । तथापि ते विरोधं कुर्वन्ति स्म । राममोहनस्य कथनेषु तर्काः आसन्[४५] ।

एकदा राममोहनः स्वस्य मित्रेण काशीरामेण सह कुत्रचित् उपविष्टः आसीत् । तदा एकः जनः समीपम् आगतः । तस्य हस्ते एकः शङ्खः आसीत् । तयोः समीपं गत्वा सः जनः अवदत् – “अयम् एकः विशिष्टः शङ्खः वर्तते । अहम् इमं शङ्खं विक्रीणामि । अस्य मूल्यं ५०० रूप्यकाणि अस्ति । यः कोऽपि इमं शङ्खं स्वीकरिष्यति, तस्मै सर्वसुखानां प्राप्तिर्भविष्यति” [४६] ।

काशीरामः तस्मात् जनात् प्रभावितः अभवत् । अतः सः राममोहनं पृष्टवान् – “अहम् इमं शङ्खं क्रेतुम् इच्छामि । भवतः अभिप्रायः कः”?

राममोहनेन स्मितेन उक्तं यत् – “काशीराम ! इमं जनं पश्य । अयं जनः धनिकः नास्ति । यदि अयं शङ्खः इमं जनं धनिकं कर्तुं न शक्नोति, तर्हि भवते सर्वसुखानि कथं दातुं शक्ष्यति ? अयं जनः शङ्खं विक्रेतुं वाण्याः प्रयोगं कुर्वन् अस्ति । तथापि भवतः इच्छा अस्ति चेत् क्रेतुं शक्नोति । किन्तु अनेन शङ्खेन भवतः निर्धनतायाः नाशः न भविष्यति” [४७] ।

राममोहनस्य कथनं श्रुत्वा सः जनः ततः निर्गतवान् आसीत् । ततः परं द्वे मित्रे हसती आस्ताम् । अनेन प्रसङ्गेन ज्ञायते यत् – राममोहनः आडम्बरं विरुध्य कार्याणि करोति स्म । तेन जनाः जागृताः भवेयु इति राममोहनः इच्छति स्म [४८]।

एकेश्वरवादस्य प्रचारः हिन्दुसमाजे जनाः विभिन्नदेवतानां पूजां कुर्वन्ति स्म । साम्प्रतम् अपि हिन्दुसमाजे तादृशी स्थितिः एव अस्ति । हिन्दुजनः एकस्मिन् भगवति विश्वासं न करोति । अतः हिन्दुसमाजे बहवः सम्प्रदायाः सन्ति । सर्वे पृथक्-पृथक् देवतानां पूजां कुर्वन्ति । राममोहनः कथयति स्म यत् – “ईश्वरः एकः एव, तदा पृथक्-पृथक् देवतानां पूजा किमर्थम्” [४९] ?

राममोहनेन अयम् अन्धविश्वासः मन्यते । सः अन्धविश्वासः मूलतः एव निष्कासयितुम् इच्छति स्म । अतः सः जनेषु ज्ञानस्य प्रदानाय प्रयासान् करोति स्म[५०] ।

तस्मिन् समये आङ्ग्ल-भाषायाः महत्त्वम् आसीत् । सा भाषा आधुनिकभाषा इति कथ्यते स्म । अतः राममोहनेन आङ्ग्लभाषायाः अध्ययनं कृतम् आसीत् । सः आङ्ग्लभाषायाः समाचारपत्रम् अपि पठति स्म । यथा आङ्ग्लाः आङ्ग्लभाषायां वार्तालापं कर्तुं शक्नुवन्ति स्म, तथैव राममोहनः अपि व्यवहारं कर्तुं समर्थः आसीत् । समाचारपत्रस्य पठनेन राममोहनः विदेशस्य समाचारान् अपि प्राप्नोति स्म । आङ्लानाम् अपेक्षया भारतीयानां प्रगति मन्दा आसीत् इति राममोहनः अनुभवति स्म । भारतीयाः विदेशे प्रचलितानि कार्याणि ज्ञातुम् असमर्थाः आसन् । यतः अज्ञानतायाः कारणेन भारतीयाः पठितुं न शक्नुवन्ति स्म [५१]।

कुरीतीनां विरोधः राममोहनः देशस्य जनानां मनसि नूतनविचारधारां स्थापयितुम् इच्छति स्म । सः जानाति स्म यत् – “भारतीयाः अन्धविश्वासे मग्नाः, लीनाः च सन्ति” । ये जनाः कथयन्ति यत् – नदीषु स्नानेन सर्वाणि पापानि नश्यन्ति, ते सर्वे मूर्खाः सन्ति । नदीषु स्नानेन कदापि मुक्तिः न प्राप्यते । ते गतानुगतिकतया जीवन्ति । ते धार्मिकतायाः कारणेन स्वेषां हिताहितयोः अपि विचारं न कुर्वन्ति [५२]।

“यस्याः परम्परायाः कोऽपि वैज्ञानिकाधारः न स्यात् । सा परम्परा निकृष्टा कथ्यते” इति राममोहनः कथयति स्म । काश्चित् परम्पराः एतादृश्यः आसन्, याभिः मनुष्यजीवनम् अन्धकारमयं जायमानम् आसीत् । राममोहनः तादृशीनां परम्पराणां विरोधं करोति स्म । सः अन्येभ्यः जनेभ्यः अपि तासां परम्पराणां विरोधं कर्तुं प्रेरयति स्म[५३] ।

यदि कोऽपि जनः कस्मिंश्चित् धर्मे संलग्नः भवति, तर्हि तेन तस्य धर्मस्य परम्परायाः पालनम् आवश्यकं भवति । अस्याः प्रथायाः अपि राममोहनः विरोधं करोति स्म । ये जनाः आडम्बरं न मन्यन्ते, ते एव राममोहनस्य आधुनिकविचारधारां ज्ञातुं शक्नुवन्ति स्म [५४]।

सतीप्रथायाः विरोधः ई.स. १८१५ तमे वर्षे राममोहनः अन्यैः मित्रैः सह मिलित्वा कोलकाता-महानगरे “आत्मीय सभा” नामिकायाः संस्थायाः स्थापनां चकार । तस्यां सभायां सतीप्रथाम् अवरोद्धुं चर्चा क्रियते स्म । सतीप्रथायाः एकं निकृष्टं कर्म आसीत् यत् – “विधवाः स्वयमेव पत्युः शवेन सह दग्धुं नेच्छन्ति स्म । किन्तु समाजः बलात् ताः विधवाः दाहयति स्म” इति । याः विधवाः विरोधं कुर्वन्ति स्म, ताः ताडयन्ते स्म । मद्यपानं कारयित्वा पत्युः शवेन सह बद्ध्वा दाहयन्ते स्म । यतः काश्चिदपि विधवाः पत्युः सम्पत्तीनां विभागं न कुर्युः [५५]।

अतः राममोहनेन एतस्याः प्रथायाः विरोधाय आन्दोलनानि आरब्धानि । सः सतीप्रथायाः नाशं कृत्वा विधवाभ्यः स्वस्याः अधिकारान् प्रदातुम् इच्छति स्म । अस्मिन् सङ्कल्पे प्रगतिशीलजनाः राममोहनस्य साहाय्यं कर्तुं सज्जाः आसन् । तैः राममोहनस्य सम्पूर्णसाहाय्यं कृतम् । प्रारम्भे अल्पजनाः एव आसन् । किन्तु समयान्तरे जनानां सङ्ख्यायां वृद्धिः जाता [५६]।

बहवः जनाः गुप्तरीत्या अपि राममोहनस्य समर्थनं कुर्वन्ति स्म । तेषु केचन धार्मिकाः नेतारः अपि आसन् । ते नेतारः सम्पूर्णतया राममोहनस्य समर्थनं कुर्वन्ति स्म । केचन विचारयन्ति स्म यत् – “राममोहनः धर्मस्य विरोधं कुर्वन् अस्ति” । किन्तु ते न जानन्ति स्म यत् – “राममोहनः धर्मस्य न, अपि तु धर्मे निहितानाम् आडम्बराणां विरोधं करोति स्म” । सः धर्मस्य विरोधं कर्तुं नेच्छति स्म [५७]।

आत्मीय सभायां नियमितरूपेण वेदपाठः भवति स्म, तस्य व्याख्या अपि क्रियते स्म । सभायाः प्रमुखोद्देश्यम् आसीत् यत् – “जनेभ्यः उचितज्ञानस्य प्राप्तिर्भवेत् । राममोहनः कदापि कस्यापि सम्प्रदायस्य सहयोगं न करोति स्म । येषां धर्माणां नियमाः योग्याः आसन्, ते नियमाः एव स्वीकृताः । अतः बहूनां धर्माणाम् अनुयायिनः आत्मीय-सभायाः सदस्यतां प्राप्तवन्तः [५८]।

केचन जनाः धर्मात् भीताः आसन् । अतः धर्मभयादपि सभायां संलग्नाः भवितुं न शक्नुवन्ति स्म । अतः इमां स्थितिं दृष्ट्वा राममोहनेन नूतना परम्परा आरब्धा । तस्यां परम्परायां कोऽपि जनः सामाजिकस्य, धार्मिकस्य च विषयेषु स्वस्य प्रश्नान् लिखित्वा दातुं शक्नोति स्म । तेषां प्रश्नानाम् उत्तराणि राममोहनः स्वयमेव ददाति स्म । अनेन कारणेन सार्वजनिकवादविवादस्य स्थितिः उद्भूता । तथापि सः नूतनान् विचारान् जनेषु सम्प्रेषयति स्म[५९] ।

अस्यां पत्रपरम्परायां ‘उत्सवानन्द विद्या वागीश’ इत्याख्येन एव राममोहनाय पत्रम् अलिख्यत् । तस्मिन् पत्रे ‘उत्सवानन्द विद्या वागीश’ इत्यनेन बहवः गहनप्रश्नाः पृष्टाः । तदा राममोहनेन तेषां प्रश्नानां योग्यानि उत्तराणि प्रदत्तानि । तावदेव पत्रव्यवहारस्य व्यवस्था प्रचलिता जाता । बहुदिनानि यावत् इयं प्रथा प्रचलिता । तदा चतसॄणां लघुपुस्तिकानां प्रकाशनं कृतम् । तासु पुस्तिकासु उत्सवानन्दस्य प्रश्नाः, राममोहनस्य उत्तराणि च लिखितानि आसन् । सर्वप्रथमं येन लेखकेन राममोहनस्य जीवनचरित्रं लिखितम् । तेन लेखकेन तस्मिन् जीवनचरित्रे स्पष्टं लिखितम् आसीत् यत् – “राममोहनस्य उत्तराणि प्राप्य उत्सवानन्देन अद्वैतवादः स्वीकृतः आसीत्” [६०]।

ये राममोहनस्य विचारान् श्रुण्वन्ति, ते सर्वे तस्य प्रशंसां कुर्वन्ति स्म । उत्सवानन्दः अपि तस्य विचाराणां प्रशंसां करोति स्म । राममोहनस्य सङ्कल्पः जनान् प्रेरयति स्म [६१]।

ब्रह्मसमाजस्य स्थापना भारतीयसमाजे अनेकाः कुप्रथाः प्रचलिताः आसन् । तासां प्रथानां निवारणार्थम् बहूनि आन्दोलनानि जातानि । तैः आन्दोलनैः बह्वीनां संस्थानां स्थापना अभवत् । तासु “ब्रह्म समाज” नामिका अपि एका संस्था आसीत् । १८१८ तमे वर्षे राममोहनः तां संस्थां स्थापितवान् । ब्रह्मसमाजस्य अनुयायिनः वेदानाम्, उपनिषदां च प्रचारं कुर्वन्ति स्म [६२]।

ब्रह्मसमाजः बहुविवाह, बालविवाह, सतीप्रथादीनां विरोधं करोति स्म । अयं समाजः विधवाविवाहस्य, स्त्रीणां शिक्षणस्य च समर्थनं करोति स्म । धार्मिकपक्षपातस्य, अन्धविश्वासस्य च निवारणार्थं संकीर्तनसमूहानां रचना कृता । समूहस्य सदस्याः नगरे भ्रमन्तः ईश्वरस्य प्रार्थनां कुर्वन्ति स्म । ते जनाः ब्रह्मसमाजस्य प्रचारं कुर्वन्ति स्म । तैः पत्रिकाणां, पुस्तकानां च माध्यमेन प्रचारः कृतः[६३] ।

ई. स. १८२१ तमे वर्षे राममोहनस्य साहाय्येन “यूनिटेरियन्-संस्थाया” स्थापना जाता । एकदा राममोहनः सहयोगिभिः सह संस्थातः गृहं गच्छन् आसीत्, तदा मार्गे ‘चन्द्रशेखर देव’, ‘ताराचन्द चक्रवर्ती’ इत्याख्यौ अमिलिताम् । द्वाभ्याम् उक्तं यत् – अस्माभिः आङ्ग्लानां प्रार्थनाभवनं न गन्तव्यम् । अस्माकं पृथक् प्रार्थनाभवनं भवेत् इति आवश्यकम् [६४]।

राममोहनेन द्वे युक्ती स्वीकृते । राममोहनः गृहं गत्वा सहयोगिभिः सह चर्चा कृतवान् । तदा निश्चयं कृतवान् यत् – “भाटकेन एकं भवनं स्वीकुर्यात् । तस्मिन् भवने एव प्रार्थनासभा भवेत्” इति । त्रयोदशवर्षाणि यावत् तस्मिन् भवने एव प्रार्थनासभा प्रचलन्ती आसीत् । तस्मिन् भवने एव १८१८ तमे वर्षे ब्रह्मसमाजस्य नामकरणम् अभवत् । ब्रह्मसमाजस्य सदस्येभ्यः एकं पुस्तकं प्रकाशितम् । तस्य नाम “ब्रह्मोपासना” इति [६५]।

तस्मिन् काले “युनिटेरियन्-संस्थायाः” सञ्चालनम् एडम् नामकः अधिकारी करोति स्म । तस्यां संस्थायां भारतीयाः, आङ्ग्लाः च सम्मिलिताः आसन् । एडम् इत्ययं राममोहनस्य सहयोगी मन्यते स्म [६६]।

राममोहनः ब्रह्मसमाजस्य स्थापनां चकार । अत एव सः आधुनिकभारतस्य जनकः कथ्यते । ब्रह्मसमाजः भारतस्य सर्वासां कुप्रथानां विरोधाय आन्दोलनानि कुर्वन् आसीत् । तेन कारणेन एव ई. स. १८२९ तमे वर्षे सतीप्रथाम् अवरोद्धुं नियमाः निर्मिताः । ब्रह्मसमाजेन हिन्दुसमाजस्य स्पर्शास्पर्शस्य भावनां दूरीकर्तुं प्रयासाः कृताः [६७]।

“समाज-सुधार-आन्दोलनस्य” प्रमुखेण नेत्रा राजनारायण बोस् इत्याख्येन “राष्ट्रीय-भावना-उन्नति-समाजस्य” स्थापना कृता । तस्य समाजस्य उद्देश्यम् आसीत् यत् – “व्यायाममाध्यमेन भारतीययुवकानां स्वास्थ्यं समीचिनं भवेत्” इति [६८]।

वेदाः, उपनिषदः हिन्दुधर्मस्य मूलाधारः मन्यन्ते । वेदः केवलं भारतस्य न, अपितु सम्पूर्णविश्वस्य मानवजातेः प्रथमः ग्रन्थः अस्ति । हिन्दुधर्मस्य अपरः ग्रन्थः उपनिषद् अपि अस्ति[६९] ।

राममोहनेन वेदेषु अपि पुस्तकानि लिखितानि आसन् । तेषां पुस्तकानां प्रकाशनम् अपि अभवत् । तेषां पुस्तकानां माध्यमेन कुरीतीनां विरोधः कृतः । राममोहनेन वेदानां, शास्त्राणां च सरलभाषायाम् अनुवादः कृतः । राममोहनः पुस्तकमाध्यमेन वेदज्ञानं जनेभ्यः प्रेषितवान् । राममोहनः वेदानां बङ्ग्लाभाषायाम् अपि अनुवादं कृतवान् आसीत् । तेन जनेषु मह्त्वपूर्णः प्रभावः अभवत् । ब्राह्मणवर्गः तस्य विरोधं करोति स्म । यतः राममोहनः सर्वेभ्यः वर्गेभ्यः प्रचारं कुर्वन् आसीत् [७०]।

१८१८ तमे वर्षे राममोहनः वेदान्तस्य हिन्दीभाषायां, बङ्ग्लाभाषायां संक्षिप्तानुवादं कृतवान् । तत्पुस्तकं वेदान्तसारः इति नाम्ना प्रकाशितं जातम् । अस्य ग्रन्थस्य प्रकाशनेन पण्डिताः, ब्राह्मणाः राममोहनस्य विरोधं कुर्वन्तः आसन् [७१]।

वेदान्तसारस्य भाषा सरला आसीत् । अतः जनाः सरलतया ज्ञानं प्राप्तुं शक्नुवन्ति स्म । तेन कारणेन राममोहनस्य ख्यातिः अपि वर्धिता जाता । जनानां मनसि राममोहनाय सम्माननम् वर्धितम् [७२]।

युरोपीयजनाः वेदान् न जानन्ति स्म । अतः ते राममोहनस्य आलोचनां कुर्वन्ति स्म । पुनः राममोहनेन वेदस्य आङ्ग्लभाषायाम् अनुवादः कृतः । तदनन्तरं राममोहनः वेदानुवादस्य प्रकाशनं विदेशेषु अपि कृतवान् । अनुवादं पठित्वा युरोपीयजनाः अपि प्रभाविताः अभवन् । ये युरोपीयजनाः प्राचीनप्रथाः मन्यन्ते स्म । तेऽपि तासां कुरीतीनां विरोधं कृतवन्तः [७३]।

समाजे आडम्बरस्य विरोधे एका नूतना परम्परा उद्भभूता । तेन कारणेन पाषण्डाः ताः परम्पराः अवरोद्धुम् असमर्थाः अभवन् । ये जनाः धर्मपूजायाम् अन्धाः अभवन्, तेभ्यः राममोहनेन वेदान्तसारे लिखितम् आसीत् यत् – “ अहं वेदान्तसारस्य आङ्ग्लभाषायाम् अनुवादं कृतवान् । अहं मे युरोपीयमित्राणि बोधयितुम् इच्छामि यत् याभिः कुप्रथाभिः हिन्दुधर्मः विकृतः अभवत्, ताभिः कुप्रथाभिः सह वेदान्तसारस्य कोऽपि सम्बन्धः नास्ति । अहं ब्राह्मणोऽस्मि । अतः सर्वे ब्राह्मणाः मम विरोधं कुर्वन्तः सन्ति । मे ईष्टजनाः अपि विरोधं कुर्वन्त सन्ति । ये जनाः मम विरोधं कुर्वन्ति, ते मम विचाराणाम् अनर्थं कुर्वन्ति । ते इच्छन्ति यत् मम इतोऽपि अधिकः विरोधः भवेत् । मम विरोधिभिः मयि आक्रमाणि अपि कृताणि । समाजे अन्धविश्वासस्य महत्त्वं न्यूनीकर्तुम् एव मया वेदान्तसारस्य महत्त्वम् आङ्ग्लभाषायां परिवर्तितम् । तेन समाज-सुधार-आन्दोलनस्य महत्त्वं वर्धिष्यति” [७४]।

राममोहनः नास्तिकः अस्ति इति विरोधिनः वदन्ति स्म । तदा राममोहनेन एकम् एव उत्तरम् उक्तं यत् – “मया केवलम् अन्धविश्वासस्य, धर्मान्धतायाः एव विरोधः कृतः, न तु हिन्दुधर्मस्य । अतः ये जनाः मम विरोधं कुर्वन्ति, ते प्रमाणानि यच्छन्तु” [७५]।

जनाः विरोधं कुर्वन्तः आसन् । तथापि राममोहनः समाज-सुधार-आन्दोलनं न त्यक्तवान् । तस्य विचारेभ्यः देशविदेशानां विद्वज्जनाः प्रभाविताः अभवन् । वेदान्तसारं पठित्वा जनानां भावनाः परिवर्तिताः जाताः ।

१८१६ तमस्य वर्षस्य फरवरी-मासस्य १ दिनाङ्के एकं वार्तापत्रस्य प्रकाशनम् अभवत् । तस्मिन् पत्रे लिखितम् आसीत् यत् – “वेदान्तसारनामकं पुस्तकम् अत्यन्तं रोचकं वर्तते । इदं केनचित् निर्भीकजनेन लिखितम् अस्ति इति निष्कर्षः भवति” [७६]।

वेदान्तसारस्य प्रकाशनेन युरोपीयजनाः राममोहनाय विश्वासं कृतवन्तः । राममोहनस्य मौलिकविचारैः अमेरिकादेशस्य निवासिनः अपि प्रभाविताः अभवन् । बहवः विद्वांसः वेदान्तसारे विचारविमर्शं कृतवन्तः । अन्ते निष्कर्षः जातः यत् – “विशुद्धाद्वैतवादः ब्रह्मवादे निहितः अस्ति” । अमेरिका-देशस्य थोरो, इमर्सन् च इत्येतौ विद्वांसौ अपि वेदान्तसारस्य प्रशंसां चक्रतुः [७७]।

वेदान्तसारस्य माध्यमेन पाश्चात्त्यदेशेभ्यः ज्ञानस्य सन्देशः प्रेषितः आसीत् । तस्मिन् सन्देशे भारतस्य वास्तविकतायाः वर्णनं कृतम् । तत्पूर्वं वैदेशिकाः भारतं सर्पाणां, सर्पविदां च देशः इति मन्यन्ते स्म । किन्तु वेदान्तसारं पठित्वा तेषां विचाराः अपि परिवर्तिताः [७८]।

मुद्रणालयाय (Press) याचना समाचारपत्राणां माध्यमेन राममोहनः जनेषु ज्ञानस्य प्रचारं कर्तुं प्रयासाः करोति स्म । राममोहनः “संवाद कौमुदी” इत्याख्यं साप्ताहिकं समाचारपत्रं प्रकाशितं करोति स्म । तत्पत्रं बङ्ग्ला-भाषायां प्रकाशितं भवति स्म । किन्तु “मिरातुल अखबार” फारसी-भाषायां प्रकाशितं भवति स्म[७९] ।

एकदा राममोहनेन समाचारपत्रे इङ्ग्लैण्ड्-देशस्य आलोचनां चकार । यदा राममोहनः आयरलैण्ड्-देशस्य अकालात् पीडितेभ्यः साहाय्यधनराशिं प्रेषितवान्, तदा आङ्ग्लसर्वकारः तस्मात् खिन्नः जातः ।

१८२३ तमे वर्षे राममोहनेन एकं मुद्रणालयं सर्वकारं ययाच । तस्मिन् समये केवलं शासनस्य निष्ठावद्भ्यः जनेभ्यः एव मुद्रणालयाय अधिकारः प्राप्तः आसीत् । राममोहनस्य मुख्योद्देश्यम् आसीत् यत् – “समाचारपत्रं समाजस्य प्रत्येकस्मिन् स्थाने प्रेषणीयम् । तेन समाजाय देशविदेशाणां ज्ञानं भवेत्” [८०]।

महाविद्यालयस्य स्थापना राममोहनः भारतस्य प्रगतिम् इच्छति स्म । तस्मै प्रयासाय जनानां साहाय्यम् आवश्यकम् आसीत् । शिक्षणमाध्यमेन राममोहनः जनानां विचारधाराः परिवर्तयितुम् इच्छति स्म । तस्मिन् समये हिन्दुजनानां कृते पठन-पाठनाय संस्कृतपाठशालाः आसन् । तासु पाठशालासु प्राचीनपरम्पराणाम् आधारेण शिक्षणं प्रदीयते स्म[८१] ।

इदं शिक्षणं संस्कृतभाषायै एव परिमितम् आसीत् । अतः देशस्य प्रगतिः भवितुं न शक्नोति स्म । तासु पाठशालासु संस्कृतभाषायाः एव अध्ययनं भवति स्म । केचित् जनाः विज्ञानस्य पठन-पाठनं पापं मन्यते स्म । किन्तु विज्ञानेन देशस्य प्रगतिः भवितुं शक्नोति स्म ।

राममोहनेन निर्णयः कृतः यत् – “येन विषयेण समाजस्य कल्याणं भवेत्, तस्य विषयस्य एव शिक्षणं दातव्यम् । अस्मिन् कार्ये अपि जनाः राममोहनस्य विरोधं कुर्वन्तः आसन् । तेन कारणेन राममोहनः आङ्ग्लविदुषः, हिन्दुविदुषः च आकृष्टवान्[८२] ।

तेषां साहाय्येन राममोहनः कोलकाता-नगरे एकं सङ्घटनं स्थापितवान् । अनेन सङ्घटनेन तत्र एकस्य महाविद्यालस्य स्थापना कृता । तस्मिन् विद्यालये विज्ञानस्य, गणितस्य, राजनीतेः च शिक्षणं प्रदीयते स्म ।

मातृभूमेः गरिमाणं मनसि निधाय एव राममोहनः प्रत्येकं कार्यं करोति स्म । तस्मिन् विद्यालये आङ्ग्लभाषायाः, संस्कृतभाषायाः, बङ्ग्लाभाषायाः च अपि शिक्षणं प्रदीयते स्म । यः कोऽपि जनः शिक्षणविषये तर्कं करोति स्म । तदा राममोहनः उत्तरं ददाति स्म यत् – “युरोपीयजनाः ग्रीक-भाषया, लैटिन-भाषया च सह गणित-विज्ञानयोः अपि सन्मानं कुर्वन्ति स्म । यदि गणित-विज्ञानयोः शिक्षणं तेभ्यः आवश्यकं भवेत्, तर्हि अस्मभ्यं किमर्थम् आवश्यकं नास्ति” [८३] ?

राममोहनस्य प्रश्नानाम् उत्तराणि कोऽपि दातुं न शक्नोति स्म । राममोहनस्य अगाधज्ञानेन विद्वांसः प्रभाविताः भवन्ति स्म । राममोहनस्य हिन्दुधर्मः आसीत् । तथापि मुस्लिम-धर्मस्य, ईसाई-धर्मस्य च अपि ज्ञानम् आसीत् । तस्य अनेकासु भाषासु प्रभुत्वम् आसीत् । धर्मविषयिणीनां शङ्कानां शीघ्रतया समाधानं करोति स्म[८४] ।

राममोहनस्य ईसाई-धर्मेण सह सम्पर्कः राममोहनेन बाइबिल-इत्यस्य सम्यक्तया अध्ययनं कृतम् आसीत् । सः ज्ञातुम् इच्छति यत् – “बाइबिल-इत्यस्मिन् ये नियमाः लिखिताः अस्ति, तेषां नियमाणां पालनम् ईसाई-धर्मानुयायिनः कुर्वन्ति वा न ? इति” । अनेन विचारेण राममोहनः ईसाई-धर्मस्य सम्पर्कं कृतवान् । तेन सः ईसाई-धर्मस्य विचारान् निकटतया ज्ञातुम् अवसरं प्राप्तवान् । श्रीरामपुर-नगरं गत्वा राममोहनेन ईसाई-धर्मानुयायिभिः चर्चा कृता । तदा तयोः घनिष्ठसम्बन्धः अभवत् । सः सम्बन्धः द्वाभ्यां लाभकरः अभवत् [८५]।

तत्रत्यानाम् ईसाई-जनानां सामूहिकप्रार्थनायां राममोहनः अधिकतरः सम्मिलितः भवति स्म । प्रार्थनासभायां भगवतः ईसामसीह इत्याख्यस्य उपदेशानां व्याख्या क्रियते स्म । तया व्याख्यया राममोहनः मुग्धः भवति स्म । अतः ईसामसीह इत्याख्यस्य उपदेशानाम् आधारेण राममोहनः “दि परसेप्ट्स् ऑफ् जीसस्” इति नामकं पुस्तकं रचितवान्[८६] ।

ईसाई-धर्माय राममोहनस्य गहनरूचिं दृष्ट्वा ईसाई-जनाः प्रसन्ना अभवन् । अतः ईसाई-जनाः राममोहनाय ईसाई-धर्मं स्वीकर्तुम् उक्तवन्तः । ईसाई-जनाः मन्यन्ते यत् – “राममोहनः सरलतया ईसाई-धर्मं स्वीकरिष्यति” इति । किन्तु ते न जानन्ति यत् – “राममोहनस्य हिन्दुधर्मे सम्पूर्णनिष्ठा आसीत्” । राममोहनः उक्तवान् – “अहं हिन्दुः अस्मि । भवन्तः कथं वक्तुं शक्नुवन्ति यत् अहं हिन्दुधर्मं त्यक्त्वा ईसाई-धर्मं स्वीकरिष्यामि ? ईसाई-धर्माय मे मनसि सम्माननं वर्तते । किन्तु तं स्वीकर्तुं न शक्नोमि । अतः क्षमां याचे । श्रेष्ठधर्मे ये गुणाः भवन्ति, ते गुणाः मे धर्मे अपि सन्ति” इति [८७]।

राममोहनस्य उत्तरं श्रुत्वा ईसाई-जनाः कुपिताः अभवन् । अतः ते राममोहनस्य विरोधं कृतवन्तः । तदा राममोहनेन उक्तं यत् – भवन्तः मे विरोधं मा कुरुत । यदि इच्छन्ति, चेत् समाजस्य अन्धश्रद्धानां, कुरीतीनां विरोधं कुर्वन्तु । तेन विरोधेन जनानां हितं भवति । यदि ईसाई-धर्मे अपि कुप्रथा भवेत्, तर्हि तस्याः प्रथायाः अपि अहं विरोधं करिष्यामि । अहं कदापि कस्यापि धर्मस्य विरोधं न करिष्यामि । धर्मे निहितानाम् अन्धश्रद्धानाम् एव विरोधं करिष्यामि” इति [८८]।

राममोहनस्य विचारान् ईसाई-जनाः ज्ञातुम् असमर्थाः आसन् । अतः ते अपि राममोहनस्य विरोधं कृतवन्तः । किन्तु राममोहनः विरोधस्य चिन्तां न करोति स्म । ईसाई-जनाः राममोहनस्य विचारैः सन्तुष्टाः नासन् । यदि हिन्दु-जनाः एव राममोहनं ज्ञातुम् असमर्थाः आसन्, तर्हि ईसाई-जनाः कथं ज्ञातुं शक्नुवन्ति स्म । तदा ईसाई-जनैः ‘फ्रेण्ड् ऑफ् इण्डिया’ नामकं साप्ताहिकं पत्रं प्रकाशितम् । तस्मिन् पत्रे ईसाई-जनैः राममोहनं ‘लक्ष्य का दुश्मन’ इति नाम्ना सम्बोधितः आसीत् । तैः राममोहनाय नास्तिकतायाः दोषः प्रस्थापितः[८९] ।

अस्य दोषस्य आरोपणानन्तरं राममोहनेन पुनः “एन् अपील् टू द क्रिश्चियन् पब्लिक्” इति नामकम् एकं पुस्तकं प्रकाशितम् । तस्मिन् पुस्तके राममोहनेन आरोपितनां दोषाणां प्रत्युत्तराणि प्रदत्तानि आसन् । तेन ईसाई-जनाः मौनम् अभजन् [९०]।

तदनन्तरं राममोहनः ईसाई-धर्माधन्तायाः अपि विरोधं कुर्वन् आसीत् । डॉ. लैण्ट् कारपेण्टर् इत्याख्यः राममोहनेन रचितम् ईसाई-धर्मस्य पुस्तकद्वयं पठितवान् । पुस्तके पठित्वा डॉ. लैण्ट् इत्यनेन उक्तम् – “राममोहनेन गभीरतया ग्रन्थानाम् अध्ययनं कृत्वैव तयोः पुस्तकयोः रचना कृता अस्ति । तेन कुशाग्रबुद्ध्या धर्मांधजनानाम् आलोचना कृता अस्ति । राममोहनेन एतयोः पुस्तकयोः माध्यमेन विरोधिनां स्थितिः शिथिला कृता” [९१] । राममोहनः प्रायः सर्वान् विषयान् जानाति स्म । अतः कस्मिँश्चित् अपि विषये सः वक्तुं लेखितुं वा सक्षमः आसीत् ।

राममोहनेन पुस्तकमाध्यमेन यः विरोधः कृतः, ईसाई-जनैः तस्य पुनर्विरोधः कृतः । किन्तु ईसाई-धर्मे ये विद्वांसः आसन्, तैः राममोहनस्य विचाराणां समर्थनं कृतम् आसीत् । तेन कारणेन राममोहनस्य उत्साहः वर्धितः जातः[९२] ।

प्रभावितैः ईसाई-जनैः राममोहनाय पत्राणि प्रेषितानि । तेषु पत्रेषु सर्वैः समर्थनं कृतम् । १८२१ तमस्य वर्षस्य जुलाई-मासे राममोहनः एकं पत्रं प्राप्तवान् । तत्पत्रं ‘कोलकाता जनरल’ इत्यस्मिन् समाचारपत्रे प्रकाशितम् । तस्मिन् पत्रे लिखितम् आसीत् यत् – “राममोहनेन ‘दी सेकण्ड् अपील् टू क्रिश्चियन् पब्लिक्’ इति नामकं यत् द्वितीयं पुस्तकं रचितं, तस्य यावती प्रशंसा भवेत्, तावती अल्पा एव । राममोहनस्य विषये वयं यावदधिकं ज्ञास्यामः, तावदधिकम् अस्माकं मनसि राममोहनाय सम्माननं वर्धिष्यते । राममोहनस्य विचाराः सत्याधारिताः भवन्ति । अतः जनाः तस्मै श्रद्धां प्रकटयन्ति । राममोहनस्य कस्मिँश्चिदपि कथने दम्भः न दृश्यते । तस्य व्यक्तित्त्वं दर्पणः इव स्वच्छम् अस्ति” इति[९३] ।

यूनिटेरियन्-मुद्रणालयस्य स्थापना राममोहनः यदा हिन्दु-धर्मस्य कुरीतीनां विरोधार्थं लेखाः लिखति स्म, तदा सः मिशन्-मुद्रणालये पुस्तकानां मुद्रणं कारयति स्म । किन्तु यावत् सः ईसाई-धर्मस्य कुरीतीनां विरोधं कुर्वन् आसीत्, तावत् मिशन्-मुद्रणालयस्य अधिकारिणा राममोहनस्य साहाय्यं न कृतम् । यतः मिशन्-मुद्रणालयः ईसाई-जनानाम् आसीत् । तदनन्तरं राममोहनेन स्वस्य मुद्रणालयाय योजना कृता[९४] ।

पुरा राममोहनः मिशन्-मुद्रणालयस्य सम्पूर्णसाहाय्यं प्राप्तवान् आसीत् । मिशन्-मुद्रणालयस्य साहाय्यं विना राममोहनः अल्पे समये एव स्वस्य विचारान् प्रसारयितुं न शक्नोति स्म । ईसाई-जनानां व्यवहारे अपि परिवर्तनं जातम् । किन्तु राममोहनः तेभ्यः याचनां न कृतवान् । तस्य निर्णयः दृढः आसीत् । ई. स. १८२३ तमे वर्षे राममोहनेन ‘यूनिटेरियन्-मुद्रणालयस्य’ स्थापना कृता । प्रारम्भे तेन स्वस्य पुस्तकस्य प्रकाशनं कृतम् । तेन राममोहनस्य आत्मविश्वासः वर्धते स्म । यदा ईसाई-जनाः यूनिटेरियन्-मुद्रणालस्य सन्देशं प्राप्तवन्तः, तदा ते अधिकाः कुपिताः जाताः[९५] ।

ईसाई-धर्मस्य एकः युवा अधिवक्ता राममोहनस्य विचारैः प्रभावितः अभवत् । प्रभावितेन अधिवक्त्रा धर्मः परिवर्तितः । सः अद्वैतवादस्य धर्मं स्वीकृतवान् । तेन प्रसङ्गेन राममोहनस्य सार्थकता दृश्यते स्म । राममोहनः ईसाई-धर्मानुयायिनाम् अपेक्षया बाइबिल्-इत्यस्य माहात्म्यम् अधिकं जानाति स्म । अतः एव ईसाई-जनानां मनसि राममोहनाय ईर्ष्या आसीत्[९६] ।

ईसाई-जनाः राममोहनस्य विरोधे अविवेकिनः अभवन् । ते हिन्दुधर्मः असत्यः इति जल्पन्ति स्म । किन्तु राममोहनः तैः आरोपितानां दोषाणां खण्डनं कृतवान् । राममोहनेन ‘फाईनल् अपील्’ नामकस्य पुस्तकस्य भूमिकायां लिखितं यत् – “वयं तेभ्यः रक्षिताः भवेम, ये अस्मासु दोषाणाम् आरोपणं कुर्वन्तः सन्ति । तेषां विषये अस्माभिः सत्यम् अनाच्छादितं करणीयम् एव” [९७] ।

यासां परम्पराणां कोऽपि आधारः नास्ति, यासु परम्परासु धर्मान्धता एव अस्ति, तासां परम्पराणां राममोहनः विरोधं करोति स्म । सः एकः निर्भीकः सामाजिककार्यकर्ता आसीत् ।

राममोहनेन यथा हिन्दुधर्मे निहितायाः मूर्तिपूजायाः विरोधः कृतः, तथैव मुसलिम्-धर्मे निहितानां धर्मजाड्यस्य अपि विरोधः कृतः आसीत्[९८] ।

वेदान्त-महाविद्यालस्य स्थापना तस्मिन् समये हिन्दुधर्मे बहवः मतभेदाः आसन् । तावन्तः मतभेदाः अन्येषु केषुचिदपि धर्मेषु नासन् । हिन्दुधर्मे प्रत्येकं जनः पृथक्-पृथक् देवतानाम् उपासकः आसीत् । ते सर्वे देवतानां शक्तयः अपि भिन्नाः एव इति मन्यन्ते । राममोहनः हिन्दुधर्मे अद्वैतवादस्य प्रचारं कर्तुम् इच्छति स्म । निर्णितं लक्ष्यं प्राप्तुं राममोहनेन १८२५ तमे वर्षे वेदान्त-महाविद्यालस्य स्थापना कृता । महाविद्यालस्य स्थापनाविषयकं सन्देशं प्राप्य राममोहनस्य मित्रम् एडम् इत्याख्यः प्रसन्नः अभवत् । एडम् इत्याख्येन राममोहनस्य प्रशंसा कृता[९९] ।

राममोहनेन निष्ठापूर्वकम् अस्य अद्वैतवादिनः संस्थानस्य साहाय्यं कृतम् । राममोहनः इच्छति यत् – “तस्मिन् महाविद्यालये यूरोपीयविज्ञानस्य, ईसाई-अद्वैतवादस्य च अपि शिक्षणं दद्यात्” इति [१००]।

राममोहनस्य साहाय्येन संस्थायाः प्रतिदिनं विकासः जायमानः आसीत् । समयान्तरे अस्याः संस्थायाः आधारेण एव ‘ब्रह्मसमाजस्य’ स्थापना जाता । ब्रह्मसमाजस्य प्रमुखम् उद्देश्यम् आसीत् यत् – “ईश्वरः एकः एव अस्ति” ।

ब्रह्मसमाजस्य उत्कृष्टविचारेभ्यः बहवः नूतनाः जनाः आकृष्टाः अभवन् । नूतनैः जनैः ब्रह्मसमाजस्य सदस्यता अपि प्राप्ता । १८२८ तमे वर्षे राममोहनेन एकं नूतनं गृहं क्रीतम् । तस्मिन् गृहे अद्वैतवादिनः उपासनां कुर्वन्ति स्म । तद्गृहं धर्मकार्यार्थमेव समर्पितम् आसीत् [१०१]।

किञ्चिद्दिवसानन्तरं हिन्दुधर्मस्य नेतृभिः “धर्मसभा” नामिका एका संस्था स्थापिता । राममोहनस्य विरोधः एव तस्याः संस्थायाः मुख्योद्देश्यम् आसीत् । धर्मसभायां धार्मिककार्याणि अल्पानि भवन्ति स्म । किन्तु दोषाणाम् आरोपणम् अधिकं भवति स्म । तस्याः सभायाः सदस्यान् दृष्ट्वा राममोहनः दुःखी अभवत् । यतः ते सदस्याः धर्मस्य अपप्रचारं कुर्वन्तः आसन् ।

विश्वस्य बहूनां देशानां विद्वांसः राममोहनस्य विचारधाराणां समर्थनं कुर्वन्ति स्म । किन्तु भारतीयाः राममोहनस्य विचाराणां विरोधं कुर्वन्ति स्म । सः जनान् बोधयति स्म यत् – “ईश्वरः एकः अस्ति, अतः ईश्वरस्य विभागाः न कर्त्तव्याः । एकस्य ईश्वरस्य एव उपासनां कुर्युः” [१०२]।

ब्रह्मसमाजेन भारतीयसमाजस्य परिवर्तने साहाय्यं कृतम् आसीत् । अनेन समाजेन बालविवाहस्य विरोधः, विधवा-विवाहस्य समर्थनं च कृतम् । यदा ब्रह्मसमाजस्य स्थापना अभवत्, तदा कन्यानां विक्रयणं भवति स्म । केचन जनाः कन्यानां हननम् अपि कुर्वन्ति स्म । एतादृशीनां कुरीतीनां विरोधे ब्रह्मसमाजेन एकम् आन्दोलनं प्रचालितम् [१०३]।

ब्रह्मसमाजः जनान् उद्बोधयति स्म । सः कथयति यत् – “आत्मा एकः अस्ति । अतः केनापि सह भेदभावः न करणीयः” । अन्येषां धर्माणां स्वस्य प्रार्थनागृहं भवति किन्तु हिन्दु धर्मस्य प्रार्थना-गृहम् एव नास्ति । ईसाईधर्मस्य प्रार्थनागृहं दृष्ट्वा राममोहनस्य मनसि विचारः आगतः यत् – “हिन्दुधर्मस्य जनाः अपि एकस्मिन् प्रार्थनागृहे प्रार्थनां कुर्युः” [१०४]।

स्वतन्त्रतायाः पाक्षिकः स्वतन्त्रता सर्वेषां जीवानां मौलिकः अधिकारः वर्तते इति राममोहनः मन्यते स्म । यः स्वतन्त्रः भवेत्, सः एव सन्तुष्टः भवति । यदि कस्यापि जनस्य स्वतन्त्रताम् उपलभते, तर्हि अत्याचारः कथ्यते ।

आङ्ग्लशासनेन भारतदेशस्य स्वतन्त्रता नाशिता । तस्मिन् समये राममोहनः किशोरः आसीत् । तावदेव तस्य मनसि देशाय प्रेम आसीत् । राममोहनः गहनाध्ययनानन्तरम् अन्वभवत् यत् – “आङ्ग्लाः स्वस्य उच्चशैलिभिः भारतस्य विकासं कर्तुं शक्नुवन्ति । अतः भारतस्य हिताय राममोहनेन आङ्ग्लानां विचारधाराः ज्ञातुं प्रयासाः कृताः [१०५]।

राममोहनेन यूरोप-देशस्य, अमेरिका-देशस्य च राजनैतिकघटनानाम् अपि अध्ययनं कृतम् आसीत् । अतः सः ज्ञातवान् यत् – “ब्रिटिश्-शासनेन भारते आधुनिकविश्वसंस्कृतेः विकासः भवितुं शक्यते” [१०६]।

राममोहनः इच्छति स्म यत् – “आङ्ग्लानां साहाय्येन भारते आधुनिकता भवेत् । किन्तु स कदापि नेच्छति स्म यत् – “आङ्ग्लाः भारते अधिकं कालं यावत् न स्युः । भारतीयविषयिक्यः आलोचनाः राममोहनः कदापि न स्वीकरोति स्म [१०७]।

‘राजा’ इति उपाधिः बहव्यः परम्पराः मनुष्याणां प्रगतिषु बाधायै कल्पन्ते स्म । तादृशीनां परम्पराणां राममोहनः विरोधं कृतवान् । तस्मिन् समये धार्मिकग्रन्थानुसारं समुद्रः ब्राह्मणः इति मन्यते स्म । अतः जनाः समुद्रस्य पूजां कुर्वन्ति स्म । यदि कोऽपि जनः समुद्रम् उल्लङ्घ्य विदेशं गच्छति स्म, तर्हि सः पापी इति कथ्यते स्म[१०८] ।

१५० वर्षपूर्वं यदि कोऽपि हिन्दुजनः समुद्रम् उल्लङ्घयति, तर्हि तस्मै दण्डः दीयते स्म । यतः समुद्रोल्लङ्घनं समुद्रदेवस्य अपमानः मन्यते स्म । किन्तु राममोहनेन तादृशानाम् अन्धविश्वासानां खण्डनं कृतम् । राममोहनः समुद्रम् उल्लङ्घ्य इङ्ग्लैण्ड्-देशं गतवान्[१०९] ।

राममोहनः इङ्ग्लैण्ड्-देशस्य राजानं मेलितुं गतवान् आसीत् । सः राज्ञे एकं पत्रं दातुम् इच्छति स्म । तस्य पत्रस्य माध्यमेन राममोहनः आङ्ग्लात् मुगल-शासकाय धनवृद्ध्यर्थं याचनां चकार । यतः इङ्ग्लैण्ड्-देशस्य राजा मुगलशासकाय अल्पधनं ददाति स्म ।

मुगल-शासकेन एव राममोहनः इङ्ग्लैण्ड्-देशं प्रेषितः । तदैव मुगल-शासकेन राममोहनाय ‘राजा’ इति उपाधिः प्रदत्तः[११०] ।

सतीप्रथायै प्रतिबन्धः यदा राममोहनस्य इङ्ग्लैण्ड्-देशे गमनस्य प्रयोजनद्वयम् आसीत् । प्रथमं तु मुगलशासकाय धनवृद्धिः, अपरं सतीप्रथायाः प्रतिबन्धः च ।

यदा राममोहनः इङ्ग्लैण्ड्-देशं प्राप्तवान्, तदा तत्रत्यैः जनैः तस्य विरोधः कृतः । सः लिवरपुल्-महानगरं प्राप्तवान् । तत्र कैश्चित् मुख्यजनैः राममोहनस्य स्वागतं कृतम् । तत्र ‘विलियम् राथबोन्’ इत्याख्यः एकः इतिहासकारः आसीत् । ‘विलियम् राथबोन्’ इत्याख्यः राममोहनं दृष्ट्वा प्रसन्नः जातः । राममोहनस्य विश्रामः विलियम् राथबोन्-इत्याख्यस्य गृहे एव आसीत्[१११] ।

राममोहनेन बह्वीनां समस्यानां साक्षात्कारः कृतः । तत्र तस्य उच्चविचाराणाम् अपि स्वागतम् अभवत् । इङ्ग्लैण्ड्-देशस्य निवासिनः राममोहनस्य भाषणं श्रुत्वा आश्चर्यचकिताः जाताः । यतः राममोहनेन स्वस्य भाषणे इङ्ग्लैण्ड्-देशस्य संस्कृतेः, सभ्यतायाः च वर्णनं कृतम् आसीत् । यद्यपि राममोहनः भारतीयः आसीत् । तथापि राममोहनः तेषां संस्कृतिविषये यावत् उक्तवान्, तावत् तत्रत्याः निवासिनः अपि न जानन्ति स्म [११२]।

तत्पश्चात् राममोहनः इङ्ग्लैण्ड्-देशतः फ्रान्स्-देशं गतः । यदा राममोहनः “प्रिवी-मन्त्रणालये (Counsel)” सतीप्रथायाः प्रतिबन्धाय प्रस्तावं प्रस्थापितवान्, तदैव अधिकारिणा राममोहनाय स्वीकृतिः प्रदत्ता । यतः सतीप्रथायाः विरोधे राममोहनेन ये तर्काः प्रस्तुताः, तेषां कोऽपि प्रत्युत्तरं दातुं न समर्थः [११३]।

धर्मस्य उद्धाराय प्रयासाः राममोहनः धर्मस्य विश्लेषणं, संशोधनं च कर्तुम् इच्छति स्म । “धर्मस्य क्षेत्रे आधुनिकतायाः उपयोगः भवेत्” इति तस्य अभिप्रायः आसीत् । सामाजिकमान्यतानां, व्यवहाराणां परिवर्तनेन एव देशस्य सामाजिकः, राजनैतिकः च विकासः भवितुं शक्यते । सः हिन्दुधर्मस्य कुरीतिभिः सह विश्वस्य अन्येषां धर्माणां कुरीतीनाम् अपि नाशं कर्तुम् इच्छति स्म । तेन विभिन्नधर्माणां गहनतया तुलनात्मकमध्ययनं कृतम् आसीत् । तदा एव तेन ज्ञातं यत् – “सर्वेषां धर्माणाम् ईश्वरः एकः एव वर्तते । सः जनेषु भेदभावान् निष्कासयितुम् इच्छति स्म[११४] ।

धर्मं ज्ञातुं पथनिर्माणम् राममोहनः बङ्ग्लाभाषां, संस्कृतभाषां च जानाति स्म । तदनन्तरं सः विश्वस्य अन्याः सप्तदश भाषाः पठितवान् । तेन इस्लाम्-धर्मस्य गहनतया अध्ययनं कृतम् आसीत् । अरबी-साहित्यस्य एकरूपतायाः सः प्रभावितः अभवत् । सः सूफी-रचनाः अपि पठितवान् । कुरान्-ग्रन्थे तौहीद् इत्यस्य अवधारणया प्रभावितः जातः ।

तदनन्तरं यदा राममोहनेन हिन्दुधर्मस्य धार्मिकग्रन्थानां, अनुष्ठानानां च अध्ययनं कृतं, तदा सः विचलितो जातः । तेन दृष्टं यत् – “हिन्दुधर्मे मूर्तिपूजा, सतीप्रथा, अन्धविश्वासः इत्यादयः कुरीतयः प्रचलिताः सन्ति । तेन जनाः धर्मान्धतायां लीनाः सन्ति” इति । अतः सः धार्मिककुरीतीनां नाशार्थं सङ्कल्पं कृतवान् [११५]।

राममोहनेन संस्कृतस्य अध्येतृत्वेन हिन्दुधर्मस्य ग्रन्थानाम् अध्ययनं कृतम् आसीत् । तेन बौद्धधर्मस्य अपि अध्ययनं कृतम् । बौद्धधर्मस्य विषये ज्ञातुं सः तिब्बत-देशं गतवान् । तत्र तेन बौद्धधर्मस्य मूलसिद्धान्तानाम् अध्ययनं कृतम् । बौद्धधर्मे मूर्तिपूजायाः निषेधः अस्ति । तथापि तत्रत्याः केचित् जनाः मूर्तिपूजां कुर्वन्ति स्म । अतः राममोहनः तस्यापि विरोधं कृतवान् ।

यथा राममोहनः वेदान्तस्य, कुरान्-इत्यस्य सम्मानः करोति स्म, तथैव बाइबिल्-इत्यस्य अपि करोति स्म । यैः राममोहनस्य जीवनचरित्रं लिखितम् आसीत्, ते वदन्ति स्म यत् – “राममोहनः मूर्तिपूजायाः विरोधाय, सामूहिकप्रार्थनायै च प्रेरणाम् ईसाई-धर्मग्रन्थेभ्यः प्राप्तवान्” । ये ईसाई-धर्मानुयायिनः धर्मान्तरणं कारयन्ति स्म, राममोहनः तेषाम् अपि विरोधं करोति स्म[११६] ।

हिन्दुधर्मस्य व्याख्याता राममोहनेन हिन्दुधर्मे निहितानां कुरीतीनां, सतीप्रथायाः, मूर्तिपूजायाः च नाशयितुं निरन्तरं प्रयासाः कृताः आसन् । सः अद्वैतदर्शनस्य समर्थकः आसीत् । सः अन्यस्मिन् कस्मिंश्चिदपि पाषण्डे विश्वासं न करोति स्म ।

राममोहनः जानाति स्म यत् – “यावत् पर्यन्तं हिन्दुधर्मे, समाजे च परिवर्तनं न भविष्यति, तावत् पर्यन्तं भारतदेशस्य राजनैतिकप्रगतिः न शक्या । सः मन्यते यत् – “ हिन्दुसमाजस्य कुरीतीनां कारणेन एव हिन्दुजनानां राजनैतिकदृष्ट्या प्रगतिः न भवन्ती आसीत् । अतः सः हिन्दुधर्मस्य सर्वेषां कुरीतीनाम्, अन्धविश्वासानां च तीव्रतया विरोधं करोति स्म । धर्मस्य कुरीतिभिः सह कोऽपि सम्बन्धः नास्ति इति राममोहनः जानाति स्म[११७] ।

हिन्दुधर्मे अन्धविश्वासानां, कुप्रथानां, पाषण्डानां च स्थानमेव नास्ति । अतः राममोहनेन उपनिषदाम् आङ्ग्ल-भाषायां, बङ्ग्ला-भाषायां च अनुवादकार्यम् आरब्धम् । तेषु पुस्तकेषु राममोहनेन व्याख्यासहितं, टीकासहितं च अनुवादकार्यं कृतम् आसीत् । पुस्तकस्य प्रकाशनानन्तरं राममोहनः तानि पुस्तकानि जनेभ्यः निशुल्कं वितीर्णवान् ।

षोडशवर्षणां लघुवयसि एव राममोहनः एकं पुस्तकं लिखितवान् । तस्मिन् पुस्तके सः मूर्तिपूजायाः विरोधम् अपि कृतवान् । मूर्तिपूजा एव धार्मिककुरीतीनां मूलम् अस्ति इति राममोहनः मन्यते स्म । समाजे अपि बह्व्यः जातयः, बहवश्च समूहाः च निर्मिताः, ते सर्वे पृथक्-पृथक् देवतानाम् उपासनां कुर्वन्ति स्म [११८]।

तेन कारणेन समाजस्य विभाजनं जायमानम् आसीत् । राममोहनः एकेश्वरवादस्य समर्थनं करोति स्म । अतः ब्रह्मसमाजस्य माध्यमेन राममोहनः प्रचारं कुर्वन् आसीत् । एकस्य ईश्वरस्य एव उपासनां कुर्यात् इति सः उक्तवान् ।

राममोहनः यत्किमपि जनान् उपदिशति स्म, तस्य आचरणं स्वयमपि करोति स्म । समुद्रोल्लघनं पापं मन्यते स्म । किन्तु राममोहनः हिन्दुजनेषु प्रथमः आसीत्, यः समुद्रम् उल्लङ्घ्य इङ्ग्लैण्ड्-देशं गतवान् । तेन कारणेन समाजः प्रभावितः अभवत्[११९] ।

जातिप्रथायाः विरोधः राममोहनः जातिप्रथायाः तीव्रविरोधं करोति स्म । यतः जातिप्रथायाः कारणेन समाजः अनेकेषु भागेषु विभक्तः भवति । जातिप्रथायाः कारणेन सामाजिकसौहार्द्रतायाः अपि नाशः अभवत् । सामूहिकतायाः भावना अपि नष्टा ।

अतः समाजः राजनैतिकदृष्ट्या शिथिलः अभवत् । ये जनाः पक्षपातं कुर्वन्ति स्म, तेषाम् अपि विरोधं करोति स्म । तेन समाजस्य उच्चनीचपरम्परायाः विरोधः कृतः । सः कथयति स्म यत् – “व्यक्तेः वैशिष्ट्यं तस्य प्रतिभायाः आधारेण ज्ञातव्यं, न तु वंशाधारेण” [१२०] ।

सः अन्तर्जातीयस्य विवाहस्य अपि समर्थनं करोति स्म । अनेन प्रकारेण जातिभेदं नाशयितुं शक्यते[१२१] ।

नारीणाम् अधिकाराणां समर्थनम् नारीणाम् अधिकारेभ्यः राममोहनेन सङ्घर्षः कृतः आसीत् । राममोहनः सङ्घर्षे अग्रेसरः आसीत् । सः नारीणां स्वतन्त्रताम् इच्छति स्म । अतः तेन नारीणां स्वतन्त्रतायै आन्दोलनानि कृतानि । तस्मिन् समये समाजे नारीणां दशा चिन्तनीया आसीत् । नारीभिः सह अन्यायपूर्णः, अमानवीयः च व्यवहारः क्रियते स्म । पैतृकसम्पत्तौ नारीणाम् अधिकारः न भवति स्म । अतः पत्युः मृत्योः अनन्तरं सतीप्रथानुसारं पत्नीं दह्यते स्म ।

१८२२ तमे वर्षे राममोहनः स्त्र्यधिकारविषये एकं पुस्तकम् अलिखत् । तस्य शीर्षकम् अस्ति – “ब्रीफ् रिमार्क्स् रिगार्डिङ्ग् मॉडर्न् इनक्रोचमेण्ट्स् ऑन् दि एनसिएण्ट् राइट् ऑफ् फीमेल्स्” इति । प्राचीनकाले हिन्दुस्त्रीणां स्थितिः कीदृशी आसीत् ? इति राममोहनेन तस्मिन् पुस्तके वर्णितम् असीत् [१२२]।

हिन्दुसमाजे स्त्रियः सम्पत्तेः अधिकारात् वञ्चिताः भवन्ति स्म । हिन्दुसमाजस्य मुख्यजनाः प्राचीनकालस्य ऋषीणाम् अपमानं कुर्वन्तः आसन् ।

सम्पत्तेः अधिकारात् वञ्चितानां स्त्रीणां स्वतन्त्रता नष्टा अभवत् । समाजे ताभिः सह दासी इव व्यवहारः क्रियते स्म । पुरुषाणां तुलनायां ताः अज्ञानिन्यः मन्यन्ते स्म । तस्मिन् समये स्त्रियः भोगस्य साधनानि एव आसन् ।

पुरुषाः अनेकाभिः स्त्रीभिः सह विवाहं कर्तुं समर्थाः आसन् । किन्तु नार्यः द्वितीयं विवाहम् अपि कर्तुं न शक्नुवन्ति स्म । राममोहनः तत्पक्षपातं नाशयितुम् इच्छति स्म । सः मन्यते यत् – “केषुचित् विषयेषु नार्यः पुरुषाणां तुलनायां श्रेष्ठाः भवन्ति” [१२३] ।

राममोहनः बहुविवाहस्य अपि विरोधं कृतवान् । राममोहनेन एकस्य नूतनस्य नियमस्य याचना कृता । तस्मिन् नियमे कोऽपि हिन्दुपुरुषः न्यायाधीशस्य अनुमतिं विना द्वितीयं विवाहं कर्तुं न शक्नुयात् । अपरे पक्षे राममोहनः नारीणां पुनर्विवाहस्य समर्थकः आसीत् । राममोहनेन ब्रह्मसमाजस्य स्थापनां कृत्वा स्त्रीणां शिक्षणार्थं महत्प्रयासाः अनुष्ठिताः [१२४]।

सतीप्रथायाः अन्तः सामाजिकपरिवर्तनक्षेत्रे राममोहनस्य महती उपलब्धिः आसीत् – “सतीप्रथायाः अन्तः” । अनया उपलब्ध्या राममोहनस्य नाम्नः इतिहासे स्मरणं क्रियते । राममोहनेन अस्याः प्रथायाः नाशाय बहवः प्रयासाः कृताः आसन् ।

१८१८ तमे वर्षे राममोहनेन सतीप्रथायाः विषये प्रथमः निबन्धः लिखितः । तस्मिन् निबन्धे सः लिखितवान् यत् – “नारीणां स्वस्याः पृथक् अस्तित्त्वं वर्तते । अतः सतीप्रथा निष्कारणम् अस्ति । नारीणां जीवने समाजस्य कोऽपि अधिकारः नास्ति । स्त्रीपुरुषेभ्यः जीवितुम् अधिकाराः प्राप्ताः सन्ति । सतीप्रथा अस्माकं समाजस्य पुरातनी दुष्टा परम्परा अस्ति इति उक्त्वा अस्याः प्रथायाः समर्थनं मा भवेत् । हननस्य अपरं नाम सतीप्रथा इति राममोहनस्य विचारः आसीत् । अतः दोषिणः सन्ति, तेभ्यः दण्डः दातव्यः[१२५] ।

राममोहनेन सतीप्रथायाः विरोधे त्रीणि आन्दोलनानि प्रचालितानि आसन् । सर्वप्रथमस्य आन्दोलनस्य उद्देश्यम् अस्ति – “ कुरीतीनां विरोधनिमित्तं जनानां साहाय्यं प्राप्येत” । राममोहनेन स्वस्य लेखनानां, भाषणानां, विरोधानां, तर्काणां च माध्यमेन जनानां मानसं परिवर्तितम्” । राममोहनः जनान् अवाबोधयत् यत् – “धर्मग्रन्थेषु अपि सतीप्रथायाः समर्थनं न कृतम् । अतः यदि सर्वकारः इमां प्रथां समापयेत् चेत् इमं विषयं कश्चित् धार्मिकः न जानीयात् इति” [१२६] ।

तदनन्तरं राममोहनेन ब्रिटिश्-शासकेभ्यः आग्रहः कृतं यत् – “यदि ते सभ्यशासकाः सन्ति चेत् इमां प्रथां समापयन्तु” इति ।

ततः परं कैः कारणैः विधवाः अनुगृहीताः भवन्ति ? राममोहनेन तानि कारणानि अन्विष्टानि । तानि कारणानि दूरीकर्तुं सः प्रयासरतः आसीत् । तस्मिन् समये सतीप्रथायाः माध्यमेन विधवानां हत्या जानमाना आसीत् । अतः राममोहनेन नारीणां शिक्षणार्थं, सम्पत्तौ अधिकारार्थं च प्रचारः कृतः[१२७] ।

राजनैतिकस्य स्वतन्त्रतायाः समर्थनम् राममोहनः राजनैतिकस्वतन्त्रतावादस्य अग्रेसरः आसीत् । सः एव स्वतन्त्रतायै आन्दोलनस्य आधारः आसीत् । १९ तमायाः शताब्द्याः श्रेष्ठचिन्तकैः राममोहनस्य विचारः स्वीकृतः । भारतस्य धार्मिकस्य, सामाजिकस्य च परिवर्तनस्य प्रथमचरणे अस्याः विचारधारायाः प्रभावः आसीत् । व्यक्तीनां मर्यादाभिः सह स्वतन्त्रतावादस्य सम्बन्धः वर्तते ।

स्वाभाविकतया स्वतन्त्रवादेन व्यक्तेः अधिकाराणां चिन्तनं क्रियते । तेन विना समाजस्य विकासः भवितुं न शक्नोति । यथा शासनं स्वस्य इच्छानुसारं कार्यं करोति । अतः स्वतन्त्रतावादः तस्य विरोधं करोति[१२८] ।

राममोहनेन सर्वत्र स्वतन्त्रतावादं स्वीकारयितुं प्रचारः कृतः । सः सर्वदा असाम्प्रदायिकव्यवहाराय कथयति स्म । सः इच्छति स्म यत् “मनुष्यः स्वचेतनायाः अनुसारं कार्यं कुर्यात्” । राममोहनः न्यायप्रियः आसीत् । अतः तस्य व्यवहारः अपि न्यायपूर्णः भवति स्म । राममोहनेन उक्तं यत् – “संवैधानिकसर्वकारस्य अस्तित्त्वं मानवीयस्वतन्त्रतायै आवश्यकं भवति । यतः मानवीयसुरक्षायै संवैधानिकसाधनानि आवश्यकानि भवन्ति” । सः इच्छति स्म यत् – “ देशस्य उन्नतिः क्रमशः भवेत् । तेन परिवर्तनस्य प्रभावः भविष्यति” [१२९] ।

तदनन्तरं राममोहनेन आर्थिकक्षेत्रे अपि स्वतन्त्रतायाः चिन्तनं कृतम् आसीत् । अतः तेन सम्पत्तेः अधिकाराय चर्चा कृता । ये भूमिपतयः आसन्, ते कृषकाणां शोषणं कुर्वन्ति स्म । सः भारतीयग्रामीणपरम्परायाः संरक्षणं कर्तुम् इच्छति स्म ।

स्वतन्त्रतायाः विचारः राममोहनः स्वतन्त्रतायै निरन्तरं संघर्षं कुर्वन् आसीत् । मूर्तिपूजायाः, सतीप्रथायाः च विरोधेन, आधुनिकपाश्चात्यशिक्षणस्य समर्थनेन, मुद्रणालस्य स्वतन्त्रतायाः विचारेण, नारीणाम् अधिकाराणां समर्थनेन च स्पष्टं भवति यत् राममोहनः स्वतन्त्रतायैः सततं प्रयासान् कुर्वन् आसीत् । राममोहनस्य कथनानुसारं स्वतन्त्रता मनुष्याणां सम्पत्तिः वर्तते ।

राममोहनेन एव भारतस्य राजनैतिकस्वतन्त्रतायै प्रथमवारं चर्चा कृता आसीत् । ब्रिटिश्-शासकेभ्यः भारताय लाभः भवितुं शक्यते इति सः जानाति स्म । किन्तु सः दीर्घकालपर्यन्तं ब्रिटिश्-शासनं नेच्छति स्म । सामाजिकपरिवर्तनाय ब्रिटिश्-शासनम् उपयोगाय कल्पते स्म ।

स्वतन्त्रतायाः विचारः कस्मैचित् एकस्मै देशाय एव नास्ति । अपितु सः निखिलविश्वाय स्वतन्त्रतायाः विचारं करोति स्म । यत्र कुत्रापि मानवानां स्वतन्त्रायै सङ्घर्षः भवति स्म । राममोहनः तस्मै सङ्घर्षाय समर्थनं ददाति स्म । यदा पुर्तगाल्-देशे, स्पेन्-देशे च संवैधानिकसर्वकारस्य सङ्घटनम् अभवत्, तदा सः प्रसन्नः अभवत् । किन्तु यदा १८२१ तमे वर्षे नेपल्स्-देशे संवैधानिकसर्वकारस्य पतनम् अभवत्, तदा सः दुःखी जातः[१३०] ।

व्यक्तिगतस्वतन्त्रतायाः पाक्षिकः राममोहनः सर्वप्रथमं राममोहनेन भारतीयजनेषु नागरीकाधिकारविषयिणी चर्चा कृता आसीत् । ये अधिकाराः ब्रिटेन्-देशस्य नागरिकेभ्यः प्रदत्ताः आसन्, ते सर्वे अधिकाराः भारतदेशे अपि प्रदत्ताः । यद्यपि आङ्ग्लैः प्रदत्तानाम् अधिकाराणां सूचिका न निर्मिता आसीत्, तथापि तेषु अधिकारेषु स्वतन्त्रतायाः अधिकारः, अभिव्यक्तेः स्वतन्त्रतायाः अधिकारः, सम्पत्तेः अधिकारः, धर्मस्य अधिकारः इत्यादयः अधिकाराः आसन् [१३१]।

राममोहनेन विचारस्य, अभिव्यक्तेः च स्वतन्त्रतायै अधिकं महत्त्वं प्रदत्तम् आसीत् । तस्य आशयः आसीत् यत् – “ जनाः मुक्तकण्ठेन विचारान् वक्तुं शक्नुयुः” ।

शासननियमेषु, न्यायिकप्रशासने च परिवर्तनस्य समर्थकः राममोहनः जानाति स्म यत् – “वास्तविकतायाः ज्ञानं विना एव नियमाः रच्यन्ते स्म । ईस्ट्-इण्डिया कम्पनी इत्यस्याः सर्वोच्चाधिकारी अपि भारतस्य शासननियमेषु परिवर्तनं कर्तुं न शक्नोति स्म ।

परिवर्तनविषये राममोहनस्य तर्कः आसीत् यत् – “भारतीयशासननियमेषु परिवर्तनात् पूर्वं भारतस्य अर्थशास्त्रिणां, विदुषां च विचाराः पृष्टव्याः” इति[१३२] ।

राजस्वसम्बन्धिभ्यः नियमेभ्यः राममोहनः उक्तवान् यत् – “ ये नियमाः राजस्वसम्बन्धिनः सन्ति, ते शासकाय, जनेभ्यः च हितकराः भवेयुः” इति । येषु नियमेषु समाजस्य सर्वेषां वर्गाणां, समूहानां च समर्थनं भवेत्, ते नियमाः एव निर्मातव्याः । यदा नियमानां रचना भवेत्, तदा देशस्य प्रचलितानां परम्पराणाम् आधारेण नियमाः निर्मातव्याः [१३३]।

राममोहनेन “एन् एक्सपोजीशन् ऑफ् रेवेन्यू एण्ड् ज्यूडिशियल् सिस्टम् इन् इण्डिया” नामकं पुस्तकं रचितम् । तस्मिन् पुस्तके राममोहनेन प्रशासनिकविषयेषु, न्यायिकविषयेषु च परिवर्तनाय स्वस्य विचाराः लिखिताः आसन् [१३४]।

यावत् अधिकारिणः सामान्यजनः इव व्यवहारं न करिष्यन्ति, तावत् प्रशासनं प्रभावकं भवितुं न शक्ष्यति । इतः परं प्रशासनं, सामान्यजनः इत्येतयोः मध्ये सामञ्जस्य आवश्यकता वर्तते ।

न्यायिकक्षेत्रे परिवर्तनाय राममोहनेन बहवः विचाराः प्रदत्ताः आसन् । यः दक्षः, निष्पक्षः, स्वतन्त्रः भवति, सः एव स्वतन्त्रतायाः रक्षणं कर्तुं शक्नोति । सः कथयति स्म यत् – “न्यायप्रशासने भारतीयाधिकारिणां नियुक्तिः भवेत्” । तेन पञ्चायतप्रणाल्याः अपि समर्थनं कृतम् आसीत् ।

शिक्षणसम्बन्धिनः विचाराः राममोहनः जानाति स्म यत् – यावत् पर्यन्तं देशस्य शिक्षणव्यवस्थायां विशिष्टपरिवर्तनं न भविष्यति, तावत्पर्यन्तं देशः अज्ञानतायाः मुक्तं न प्राप्स्यति । सः शिक्षणव्यवस्थां सम्पूर्णतया परिवर्तयितुम् इच्छति स्म । तस्य अभिप्रायः आसीत् यत् – “ आधुनिकविज्ञानशिक्षणेन एव भारतस्य निवासिनः सक्षमाः भविष्यन्ति” । शिक्षणं विना समाजे परिवर्तनं न भविष्यति । भारतदेशः अपि अविकसितः, अशिक्षितः एव प्रभवति[१३५] ।

राममोहनः स्वयम् अपि संस्कृतस्य प्रकाण्डविद्वान् आसीत् । किन्तु सः मन्यते यत् – “आधुनिकभारते संस्कृतशिक्षणम् अप्रासङ्गिकं वर्तते । सः सर्वदा रसायणशास्त्रस्य, गणितशास्त्रस्य इत्यादीनाम् आधुनिकानां शास्त्राणां समर्थनं करोति स्म ।

सर्वप्रथमं राममोहनेन एव भारते आधुनिकशिक्षणस्य अग्रेसरत्वेन कार्यं कृतम् आसीत् । स्त्रीभिः स्त्रीशिक्षणस्य व्यवस्थायै राममोहनेन एव याचना कृता आसीत् ।

धार्मिककर्मकाण्डस्य विरोधः यदा पटना-नगरे फारसीभाषायाः, अरबी-भाषायाः शिक्षणं समाप्तम् अभवत्, तदा तस्य पिता संस्कृतभाषायाः अध्ययनेन राममोहनं वाराणसी-नगरं प्रेषितवान् । तत्र गत्वा राममोहनः अल्पे काले एव संस्कृतसाहित्यम् अधीतवान् । अध्ययनं समाप्य सः पुनः गृहं प्राप्तवान् ।

सर्वप्रथमं सः इसलाम-धर्मस्य एकेश्वरवादेन प्रभावितः अभवत् । ततः परं हिन्दुधर्मस्य ब्रहमज्ञानेन प्रभावितः अभवत् । तेन कारणेन धर्मं प्रति तस्य विचारधारा परिवर्तिता जाता । तदनन्तरं पित्रा सह मतभेदाः भवन्ति स्म । तयोः मध्ये विवादाः अपि भवन्तः आसन् ।

ततः परं षोडशवर्षाणां लघुवयसि राममोहनेन धार्मिककर्मकाण्डस्य विरोधे बङ्ग्ला-भाषायाम् एकं पुस्तकं रचितम् । तस्य नाम “हिन्दु दिगेर पौत्तलिक” इति आसीत् । तस्मिन् समये भारतदेशः कर्मकाण्डात्मकधर्मान्धतायां निमग्नः आसीत् । तदा एकस्यापि आङ्ग्लविद्यालस्य स्थापना न अभवत्[१३६] ।

तस्मिन् समये पुस्तकस्य मुद्रणार्थं काऽपि व्यवस्था नासीत् । किन्तु तस्य पुस्तकस्य कारणेन पिता कुपितः अभवत् । अतः तयोः मध्ये संवादहीनता अपि वर्धमाना आसीत् । राममोहनः गृहत्यागस्य अपि विचारं कृतवान् आसीत् ।

यदा राममोहनेन गृहत्यागः कृतः, तदा सः षोडशवर्षदेशीयः एव आसीत् । गृहत्यागनन्तरं सः भारतस्य विभिन्नप्रदेशेषु भ्रमणं कुर्वन् आसीत् । भ्रमणे सति तेन विभिन्नक्षेत्राणां धर्मग्रन्थानाम् अध्ययनं कर्तुं बह्व्यः भाषाः पठिताः । अन्ते सः बौद्धधर्मं ज्ञातुं तिब्बत-देशम् अपि गतवान् आसीत् [१३७]।

नारीषु श्रद्धा तिब्बत-देशस्य यात्रायां सत्यां बौद्धधर्मे प्रचलितेन अवतारवादेन सह राममोहनस्य परिचयः अभवत् । तत्रत्याः जनाः ‘लामा’ इति उपाधिधारिणीं जीवितव्यक्तिम् एव ब्रह्माण्डस्य सर्जकत्वेन मन्यते स्म । यदा लामा इत्यस्य मृत्युः भवेत्, तदा विशिष्टलक्षणयुतं बालकं ‘लामा’ इति चिन्वन्ति स्म । बौद्धाः मन्यन्ते स्म यत् – “ ‘लामा’ इत्यस्य आत्मा केवल शरीरं परिवर्तते” [१३८]।

तादृशीं स्थितिं दृष्ट्वा राममोहनः कष्टम् अन्वभवत् । बौद्धधर्मे अपि पाषण्डः प्रचलति स्म । ततः परं सः तत्रैव बौद्धधर्मस्य पाषण्डानां विरोधं कुर्वन् आसीत् । राममोहनात् बौद्धजनाः खिन्नाः अभवन् । खिन्ने सति बौद्धजनाः राममोहनाय दण्डं दातुं निर्णयं कृतवन्तः । तस्मिन् समये तिब्बत-देशस्य स्त्रीभिः राममोहनस्य रक्षणं कृतम् ।

अनेन प्रसङ्गेन तावदेव राममोहनस्य मनसि महिलाभ्यः श्रद्धा आसीत् । स्वस्य पुस्तकेषु, भाषणेषु च तेन नारीणां महत्त्वम् एव प्रदर्शितम् आसीत् । कॉर्पेट्-नामिकया लेखिकया राममोहनस्य जीवनचरित्रं लिखितम् आसीत् । कॉर्पेट्-इत्याख्यया जीवनचरित्रे लिखितं यत् – “यदा राममोहनः चतुर्विंशतिवर्षदेशीयः आसीत्, तदा अपि तिब्बत्-देशस्य नारीणां स्मरणं कृतज्ञतया अकरोत् । इतः परं सः ताभ्यः नारीभ्यः प्रभावितः जातः । अतः आजीवनं राममोहनस्य मनसि नारीभ्यः श्रद्धा आसीत्” [१३९] ।

रङ्गपुरे ब्रह्मज्ञानस्य प्रचारः राममोहनः रामगढ-ग्रामे, भागलपुर-ग्रामे, रङ्गपुर-ग्रामे च वृत्तिम् अकरोत् । तदा तस्य अधिकारी डिगबी इत्याख्यः आसीत् । डिगबी-इत्याख्यः रामगढ-ग्रामे १८०५ तः १८०८ पर्यन्तं, भागलपुर-ग्रामे १८०८ तः १८०९ पर्यन्तं, रङ्गपुरग्रामे १८०९ तः १८१४ पर्यन्तं कार्यरतः आसीत् [१४०]।

रङ्गपुरे वृत्तौ सत्यां राममोहनः जीवनस्य मुख्यलक्ष्यं साधयितुं प्रयासरतः आसीत् । सांयकाले स्वस्य निवासस्थले धर्मस्य चर्चां कर्तुं गोष्ठीनाम् आयोजनं करोति स्म । तासु गोष्ठीसु सः जनेभ्यः कर्मकाण्डस्य निरर्थकतायाः, ब्रह्मज्ञानस्य आवश्यकतायाः च विषये ज्ञानं प्रददाति स्म [१४१]।

बहवः मारवाडी-व्यवसायिनः नियमितरूपेण गोष्ठ्यां सम्मिलिताः भवन्ति स्म । मारवाडी-व्यवसायिनां सम्पर्केण राममोहनः जैनधर्मस्य ‘कल्पसूत्र’ इत्यादयः बहवः ग्रन्थान् अधीतवान् [१४२]।

बहवः जनाः राममोहनात् ईर्ष्यन्ति स्म । तथैव ‘गौरीकान्त भट्टाचार्य’ नामकः व्यक्तिः अपि राममोहनात् ईर्ष्यति स्म । अतः तेन राममोहनस्य विरोधे बङ्ग्ला-भाषायां “ज्ञानाञ्जन” नामकं पुस्तकं रचितम् आसीत् । अनेन पुस्तकेन ज्ञायते यत् – “राममोहनेन रङ्गपुरे वृत्तौ सत्यां फारसी-भाषायां बहूनि लघुपुस्तकानि लिखितानि आसन् । राममोहनेन वेदान्तस्य केचित् अंशानाम् अपि अनुवादः कृतः आसीत् । अतः अनेन ज्ञायते यत् – “राममोहनः एकेश्वरवादस्य, ब्रह्मज्ञानस्य आजीवनं प्रचारम् करोति स्म [१४३]।

मातुः कोपः, मातुः गृहस्य त्यागः च यदा राममोहनस्य ज्येष्ठपुत्रः राधाप्रसाद इत्याख्यः विवाहः योग्यः अभवत्, तदा तस्य विवाहम् अकारयत् । किन्तु विवाहे हिन्दुसमाजस्य केचन जनाः बाधां कर्तुं प्रयत्नरताः आसन् । तथापि सः विवाहम् अवरोद्धम् असमर्थाः । राधाप्रसादस्य विवाहः हुगडी-मण्डलस्य इडपाडा-ग्रामे अभवत् [१४४]।

विवाहानन्तरं राममोहनस्य विरोधिनः वर्धन्तः आसन् । तदा कृष्णनगरस्य समीपस्थे रामनगरे रामजय बटवाल इत्याख्यः नेता आसीत् । तस्य समूहे पञ्चसहस्रः ग्रामीणाः सम्मिलिताः आसन् ।

राममोहनः कर्मकाण्डस्य विरोधं, ब्रह्मज्ञानस्य प्रचारं च कुर्वन् आसीत् । अतः तेन कारणेन रामजय इत्याख्यः राममोहनं पीडयति स्म । रामजयस्य समूहस्य सदस्याः राममोहनस्य गृहे पशूनाम् अस्थीनि क्षिपन्ति स्म । तेन कारणेन राममोहनस्य कौटुम्बिकाः त्रस्ताः अभवन् । तथापि राममोहनः प्रतिक्रियां न कृतवान् । राममोहनस्य धैर्यं दृष्ट्वा रामजयः अधिकं पीडयति स्म । किन्तु किञ्चिद्दिवसानन्तरं सर्वः उपद्रवः स्वतः शान्तः जातः [१४५]।

बाह्यजनानाम् उपद्रवः अल्पः अभवत् । किन्तु गृहे मातुः कोपः प्रतिदिनं वर्धमानः आसीत् । राममोहनः जनेषु कर्मकाण्डस्य, मूर्तिपूजायाः विरोधं, ब्रह्मज्ञानस्य प्रचारं करोति स्म । अतः राममोहनस्य मात्रा एकः निर्णयः कृतः । माता राममोहनं परिवारेण सह अन्यत्र निवासाय गन्तुम् उक्तवती आसीत् ।

राममोहनेन मातुः गृहस्य समीपस्थे गृहे एव निवसितुं निर्णयः कृतः आसीत् । किन्तु कृष्णनगरे प्रतिष्ठायाः कारणेन माता तस्य निर्णयं न स्वीकृतवती । अन्ततो गत्वा राममोहनेन लांगुलपाडा-ग्रामस्य समीपस्थे रघुनाथपुरे श्मशानभूमौ एकं गृहं निर्मापितम् । गृहस्य बहिः राममोहनेन एकः मञ्चकः (Stage) निर्मापितः । अयं मञ्चकः (Stage) एव तस्य साधनास्थलम् आसीत् । यदा राममोहनः कोलकाता-नगरं गच्छति स्म, आगच्छति स्म च, तदा तस्य मञ्चकस्य प्रदक्षिणां करोति स्म[१४६] ।

कोलकाता-नगरे निवासः ई. स. १८१४ तमे वर्षे राममोहनः द्विचत्वारिंशद्वर्षदेशीयः आसीत् । तस्मिन् वर्षे सः कोलकाता-नगरे निवासार्थं गतः । कोलकाता-नगरे एव तस्य जीवनस्य वास्तविकं कार्यं प्रारब्धम् । राममोहनः सङ्कल्पं कृतवान् आसीत् यत् – “यावज्जीवनम् अस्ति, तत् सम्पूर्णं जीवनं समाजाय समर्पयिष्यामि” [१४७]।

धर्मे परिवर्तनं, समाजे परिवर्तनं, राजनैतिकक्षेत्रे परिवर्तनं, साहित्यसर्जनम् इत्यादिषु क्षेत्रेषु सः प्रयासरतः आसीत् ।

तत्कालीनः हिन्दुसमाजः यदा राममोहनः कोलकाता-नगरम् आगतवान्, तस्मिन् समये हिन्दुसमाजस्य स्थितिः गभीरा आसीत् । अतः राममोहनस्य शिष्येण “तत्त्वबोधिनी पत्रिकायां” लिखितम् आसीत् यत् – “यदा राजा राममोहन राय इत्याख्यः कोलकाता-नगरम् आगतवान्, तस्मिन् समये सम्पूर्णस्य बङ्गालराज्यस्य निवासिनः अज्ञाने मग्नाः आसन्” [१४८]।

सर्वत्र धार्मिककर्मकाण्डस्य प्रभुत्वम् आसीत् । वेदे, उपनिषदि यद् ब्रह्मज्ञानम् अस्ति, तस्मिन् विषये कस्यापि जनस्य आसक्तिः नासीत् । गङ्गास्नानेन, ब्राह्मणाय दानेन, तीर्थयात्राभिः, उपवासैः इत्यादिभिः प्रयोगैः एव पापानां निवारणं भवितुं शक्यते इति सर्वेषां जनानां धारणा आसीत् [१४९]।

राममोहनस्य वैशिष्ट्यम् राममोहनस्य व्यक्तित्वं सम्मोहकम् आसीत् । तस्य व्यक्तित्वेन जनाः राममोहनं प्रति आकुष्टाः भवन्ति स्म । तस्य व्यक्तित्वे सद्गुणाः दृश्यन्ते स्म । राममोहनस्य वैशिष्ट्यस्य विषये तस्य शिष्येण लिखितम् आसीत् यत् – “राममोहनस्य शरीरं बलशालि आसीत् । तदैव मनसि अपि अपरिमिता शक्तिः आसीत् । स्वप्रतिभया तेन यज्ज्ञानं प्राप्तं, तज्ज्ञानं जनेषु काव्यमाध्यमेन उद्बोधितम् ।

तस्य गाम्भीर्यं, विद्वत्तां च दृष्ट्वा जनाः सन्मानं कुर्वन्ति स्म । स्वस्य शालीनतायाः, विनम्रतायाः प्रभावेण जनाः आकृष्टाः भवन्ति । तस्य व्यक्तित्वे शक्तेः, ज्ञानस्य, विनयस्य इत्यादीनां गुणानां समन्वयः आसीत् । सः एकेश्वरवादस्य प्रचारं कुर्वन् आसीत् । तथैव सः परोपकारम् अपि करोति स्म” [१५०] ।

राममोहनस्य सहयोगिनः, अनुयायिनः च राममोहनस्य प्रतिभया, ज्ञानेन, मधुरव्यवहारेण च बहवः जनाः प्रभाविताः अभवन् । तेषु केषाञ्चित् जनानां नामानि अधोलिखितनि सन्ति [१५१]।

गोपीमोहन ठाकुर – अयं दर्पनारायणस्य पुत्रः, प्रसन्नकुमार ठाकुर इत्याख्यस्य पिता, यतीन्द्रमोहन ठाकुर इत्याख्यस्य पितामहश्चासीत् । वैद्यनाथ मुखोपाध्याय – अयम् अनुकूल मुखोपाध्याय इत्याख्यस्य पिता आसीत् । अनुकूल मुखोपाध्यायः न्यायाधीशः आसीत् । वैद्यनाथः हिन्दु-महाविद्यालस्य संस्थापकेषु अन्यतमः संस्थापकः, सचिवः च आसीत् । स्वस्य भाषणे वैद्यनाथेन उक्तं यत् – “यथा एकः लघुबीजः समयान्तरे बृहद्वृक्षः भवति, तथैव हिन्दु-महाविद्यालयः अपि विशालं शैक्षणिकं संस्थानं भविष्यति” इति । जयकृष्ण सिंहः – अयं कोलकाता-महानगरस्य राजार-उद्यानस्य स्वामी आसीत् । काशीनाथ मल्लिक – अयं मल्लिक-वंशस्य प्रतिष्ठितपुरुषः आसीत् । वृन्दावन मित्र – अयं राज्ञः पिताम्बर मित्र इत्याख्यस्य पुत्रः, डॉ. राजेन्द्रलाल मिश्र इत्याख्यस्य पितामहश्च आसीत् । गोपीनाथ मुन्शी – समाजस्य प्रतिष्ठितव्यक्तिः आसीत् । राजा वदनचन्द्र राय – अयं राज्ञः नरसिंहस्य सम्बन्धी आसीत् । रघुराम शिरोमणि – समाजस्य प्रतिष्ठितव्यक्तिः आसीत् । हरनाथ तर्कभूषन – समाजस्य प्रतिष्ठितव्यक्तिः आसीत् । द्वारकानाथ मुन्शी – समाजस्य प्रतिष्ठितव्यक्तिः आसीत् । प्रचारे उद्भविताः समस्याः कोलकाता-महानगरे गते सति १८१५ तमे वर्षे राममोहनेन स्वस्मिन् निवासे “आत्मीय सभा” नामिकायाः संस्थायाः स्थापना कृता आसीत् । अग्रिमे वर्षे सभायाः स्थलपरिवर्तनं कृतम् । किन्तु समयान्तरे सभा पुनः स्वनिवासे परिवर्तिता । प्रतिसप्ताहं सभायाः गोष्ठी भवन्ती आसीत् [१५२]।

शिवप्रसाद मिश्र इत्याख्यः सभायां वेदपाठं करोति स्म । गोविन्द इत्याख्यः ब्रह्मसङ्गीतं प्रस्तौति स्म । किन्तु किञ्चिद्दिवसानन्तरे जनानां विरोधेन सभायाः सदस्याः त्रस्ताः अभवन् । जनाः सभायाः सदस्यानां तिरस्कारं, निन्दां च कुर्वन्ति स्म । अतः कैश्चित् सदस्यैः सभा त्यक्ता आसीत् [१५३]।

जयकृष्णसिंह इत्याख्यः मूर्तिपूजायाः समर्थनं कुर्वन् आसीत् । जयकृष्णसिंहः सर्वत्र सभायाः दुष्प्रचारं कुर्वन् आसीत् यत् – “आत्मीय-सभायां गवां हननं भवति” इति । तथापि राममोहनः विचलितः न अभवत् ।

द्वारकानाथ ठाकुर, ब्रजमोहन मजमूदार, हलधर बसु, नन्दकिशोर बसु, राजनारायण सेन, हरिहरानन्द तीर्थ स्वामी इत्यादयः नियमितरूपेण आत्मीय सभायाः गोष्ठ्याम् उपस्थिताः भवन्ति स्म । अन्ये अपि बहवः सदस्याः राममोहनस्य समर्थनं कुर्वन्ति स्म । किन्तु बहवः जनाः राममोहनं ‘नास्तिकः’ इति कथयन्ति स्म ।

राममोहनस्य गृहे आत्मीय-सभायाः कार्यक्रमाः आयोज्यन्ते स्म । किन्तु राममोहनस्य भ्रात्रा पैतृकसम्पत्तये अभियोगः कृतः । अतः सभायाः कार्यक्रमाः कदाचित् वृन्दावन मित्र इत्याख्यस्य गृहे भवन्ति स्म ।

महासभायाः आयोजनम् १८१९ तमस्य वर्षस्य दिसम्बर-मासे बिहारीलाल चौबे इत्याख्यस्य गृहे एकस्याः महासभायाः आयोजनं कृतम् आसीत् । तस्यां सभायां कोलकाता-महानगरस्य पण्डिताः, धनिकाः, सम्भ्रान्ताः जनाः सम्मिलिताः अभवन् ।

राजा राधाकान्त देव इत्याख्यः कोलकाता-महानगरस्य प्रधानसमाजपतिः आसीत् । सः अपि तस्यां गोष्ठ्याम् गतवान् आसीत् । तेन सह बहवः पण्डिताः अपि शास्त्रार्थं कर्तुं गतवन्तः आसन् । सर्वे पण्डिताः राममोहनं पराजेतुं गताः आसन् । किन्तु राममोहनस्य तर्काणां प्रत्युत्तराणि कोऽपि दातुं न समर्थः । किन्तु पण्डितेषु सुब्रह्मण्य शास्त्री इत्याख्यस्य तर्का महत्त्वपूर्णाः आसन् [१५४]।

राममोहनस्य गभीरैः विचारैः सर्वे पण्डिताः परास्ताः । किन्तु अनेन पराजयेन पण्डिताः तिरस्कारम् अन्वभवन् । अतः पुनः राममोहनस्य विरोधं कुर्वन्तः आसन् ।

सभायाः स्थापना एडम् इत्याख्यः बुद्धिमान्, सरलव्यवहारिकश्चासीत् । राममोहनस्य विचारान् ज्ञात्वा सः एकेश्वरवादस्य हृदयपूर्वकं प्रचारं कुर्वन् आसीत् । तदनन्तरं राममोहनेन “हरा-फरा” नामकस्य समाचार-पत्रस्य कार्यालयस्य समीपे “यूनिटेरियन् संस्था” नामिकायाः संस्थायाः स्थापना कृता । तस्यां संस्थायाम् एकेश्वरवादिनाम् ईसाई-धर्मानुयायिनां मतानुसारम् ईश्वरस्य उपासना क्रियते स्म [१५५]।

तस्यां सभायां राममोहनस्य पुत्राः, सम्बन्धिनः च सदस्याः आसन् । ततः परं ताराचन्द चक्रवर्ती, चन्द्रशेखर देव इत्याख्यौ अपि सदस्यौ आस्ताम् ।

एकस्मिन् दिवसे सभायाः समाप्तौ सत्यां सर्वे गृहं गच्छन्तः आसन् । तदा मार्गे हिन्दुधर्माय पृथक् उपासनास्थलाय चर्चा अभवत् । तदनन्तरं निर्णयः जातः यत् – “हिन्दुधर्मस्य अपि पृथक् उपासनास्थलं भवेत्” इति ।

अन्ते कमललोचन बसु इत्याख्यस्य गृहं भाटके स्वीकृतम् । १८२८ तमे वर्षे उपासना-सभायाः स्थापनां चकार । प्रत्येकं शनिवासरे सांयकाले सप्तवादनतः नववादनपर्यन्तं सभा प्रचलति स्म । तत्र द्वौ ब्राह्मणौ वेदपाठं कुरुतः स्म । उत्सवानन्द विद्यावागीश इत्याख्यः उपनिषदः पाठं करोति स्म [१५६]।

विद्यावागीशः येषां श्लोकानां पाठं करोति स्म, राममोहनः तेषां श्लोकानां व्याख्यां करोति स्म । अन्ते सङ्गीतेन कार्यक्रमस्य समापनं क्रियते स्म । ताराचन्द चक्रवर्ती इत्याख्याय तस्याः सभायाः सचिवपदं प्रदत्तम् आसीत् । कोलकाता-महानगरस्य बहवः हिन्दुजनाः तस्यां सभायां भागं गृह्णन्ति स्म [१५७]।

सभायाः स्थापनानन्तरं धनसञ्चयं कृत्वा कुत्रचित् सभागृहस्य निर्माणं कृतम् । अतः १८२९ तमे वर्षे नूतने भवने सभायाः कार्याणि कृतानि ।

मोण्टगुमरी मार्टिन् इत्याख्यः ब्रह्मसमाजस्य स्थापनायाः कार्यक्रमे सम्मिलितः आसीत् । तेन “हिस्टरी ऑफ् दि ब्रिटिश् कॉलोनीज्” नामके पुस्तके ब्रह्मसमाजस्य स्थापनायाः विषये लिखितम् आसीत् यत् – “ राममोहन राय इत्याख्येन १८३० तमे वर्षे ब्रह्मसमाजस्य स्थापना कृता । तस्मिन् कार्यक्रमे अहम् एकः एव यूरोपीयः आसम् । तत्र प्रायः पञ्चविंशतिः हिन्दुजनाः सम्मिलिताः आसन् । तत्र ब्राह्मणेभ्यः पर्याप्तं धनं प्रदत्तम् आसीत् [१५८]।

राममोहनः ईसाईधर्मस्य एकेश्वरवादस्य प्रचारं करोति स्म । किन्तु समयान्तरे सः त्यक्त्वा ब्रह्मसमाजस्य स्थापनां चकार । तेन ईसाई-धर्मानुयायिनः खिन्नाः जाताः ।

राममोहनस्य आलोचनायाः विरोधे एडम् इत्याख्येन लिखितं यत् – “ राममोहनः वेदस्य भ्रामकविषयेषु विश्वासं न करोति । मूर्तिपूजाम् अवरोद्धुम् एव राममोहनेन ब्रह्मसमाजः स्थापितः [१५९]।

ब्रह्मसमाजस्य उद्देश्यम् यः ब्रह्माण्डस्य सर्जकः अस्ति, यः अनादी-अनन्तः च अस्ति, यः अगम्यः, अपरिवर्तनीयः च अस्ति, सः एव पूजनीयः । अतः राममोहनः तस्य एव आराधनां करोति स्म । ये श्रद्धया उपासनां कर्तुम् इच्छन्ति, ते उपासनास्थलं गन्तुं शक्नुवन्ति । केनापि सह जातिः, सम्प्रदायः, धर्मः इत्यादीनाम् आधारेण पक्षपातः न भविष्यति [१६०]।

राममोहनस्य विरोधे धर्मसभायाः स्थापना तस्मिन् समये केवलं ब्रह्मज्ञानस्य, मूर्तिपूजायाः च एव विरोधः नासीत् । अपितु सतीप्रथायाः विरोधे अपि विवादाः अभवन् । यथा राममोहनः मूर्तिपूजां, सतीप्रथां च दूरीकर्तुं सङ्कल्पं कृतवान्, तद्दृष्ट्वा धर्माधिकारिणः चिन्तिताः अभवन् ।

तदा धर्माधिकारिभिः “धर्मसभा” नामिका संस्था स्थापिता । तस्मिन् समये एव राममोहनेन स्वस्य विचारान् प्रसारयितुं बङ्ग्ला-भाषायां “संवाद कौमुदी” नामिकस्य साप्ताहिकस्य, फारसी-भाषायाम् एकस्य समाचार-पत्रस्य च प्रकाशनं कृतम् । राममोहनस्य विरोधे धर्मसभया चन्द्रिका-नामकं पत्रं प्रकाशितम्[१६१] ।

ब्रह्मसमाजः, धर्मसभा च धर्मसभायाः सदस्याः विभिन्नप्रकारैः ब्रह्मसमाजं पीडितुं प्रयासरताः आसन् । ब्रह्मसमाजः सतीप्रथायाः विरोधं करोति स्म । किन्तु धर्मसभा सतीप्रथायाः समर्थनं करोति स्म । राजा राधाकान्त देव इत्याख्यः धर्मसभायः अध्यक्षत्वेन आसीत् । कोलकाता-महानगरस्य बहवः धनिकाः धर्मसभायाः सदस्यतां प्राप्तवन्तः ।

राममोहनः ब्रह्मसमाजस्य सदस्यैः सह मिलित्वा भविष्यत्कालस्य कार्यक्रमाणाम् आयोजनं करोति स्म । समाजः ब्रह्मसमाजस्य सदस्यान् नास्तिकाः इति कथयति स्म । किन्तु राममोहनस्य श्रेष्ठव्यक्तित्वेन एव धर्मसभायाः धनबलस्य, जनबलस्य च प्रभावः अल्पः अभवत् [१६२]।

ब्रह्मसमाजः, धर्मसभा इत्येतयोः विषये राममोहनस्य एकः शिष्यः अलिखत् यत् – “ भवानीचरण बन्द्योपाध्याय इत्ययं राजा राधाकान्त देव इत्याख्यस्य अनुचरः आसीत् । सः धर्मसभायाः सचिवः आसीत् ।

सः प्रतिगृहं गच्छन् राममोहनस्य, ब्रह्मसमाजस्य च निन्दां कुर्वन् आसीत् । ये जनाः ब्रह्मसमाजे गच्छन्ति स्म, सः तान् जातेः बहिः निष्कासयति स्म ।

ये ब्रह्मसमाजस्य निन्दां कुर्वन्ति स्म, ते कथयन्ति स्म यत् – “ब्रह्मसमाजे नृत्यानि, गीतानि इत्यादीनि कार्याणि भवन्ति । तत्र सर्वे मिलित्वा एव भोजनं कुर्वन्ति” इति । समाजस्य भागद्वयम् अभवत् । किन्तु अन्ते राममोहनस्य विजयः अभवत् । तदा जनैः राममोहनस्य, ब्रह्मसमाजस्य च भर्त्सना कृता आसीत् । तथापि राममोहनः कदापि चिन्तां न करोति स्म[१६३] ।

राममोहनस्य इङ्ग्लैण्ड्-देशाय प्रवासः १८३० तमस्य वर्षस्य नवम्बर-मासस्य १५ तमे दिनाङ्के राममोहनः इङ्ग्लैण्ड्-देशाय अलबियन्-नामकेन जलयानेन निर्गतः । तेन सह राजाराम, रामरतन मुखोपाध्याय, रामहरिदास च अपि गतवन्तः आसन् । हुगली-महाविद्यालस्य पूर्वप्राचार्येण सदरलैण्ड् इत्याख्येन जलयाने राममोहनस्य दिनचर्यायाः वर्णन कृतं यत् –“ जलयाने राममोहनः स्वस्मै व्यक्तिगतं भोजनं पचति स्म । जलयाने व्यक्तिगतभोजनालस्य व्यवस्था नासीत् । अतः ते प्रारम्भे कष्टम् अनुभवन्ति स्म” [१६४] ।

राममोहनः तत्रापि संस्कृतग्रन्थानां, हिन्दीग्रन्थानां च अध्ययनं कुर्वन् आसीत् । अतिरिक्तसमये सः सहयात्रिभिः सह उत्साहपूर्वकं वार्तालापम् अपि करोति स्म । जलयानस्य सर्वे यात्रिणः तस्य सम्मानं कुर्वन्ति स्म । सर्वे तस्य सेवां कर्तुम् इच्छन्ति स्म । राममोहनः मुग्धतापूर्वकं समुद्रं पश्यति स्म । सः द्वे गावौ अपि नीतवान् आसीत् [१६५]।

तस्य स्वभावः शान्तः आसीत् । जलयाने सर्वेषां वैयक्तिकः प्रकोष्ठः भवति । तत्र राममोहनस्य प्रकोष्ठे तस्य वस्तूनि अपि आसन् । यात्रायां जलप्रवाहेण जलयानं क्षुनति स्म । तेन तस्य वस्तूनि पतन्ति स्म । तथापि सः धैर्येण यात्रां कुर्वन् आसीत् ।

तस्य मनसि एका एव चिन्ता आसीत् यत् – “ जलयानं निश्चितसमये इङ्ग्लैण्ड्-देशं प्राप्नुयात् । स ईस्ट् इण्डिया कम्पनी इत्यास्याः निर्णयात् पूर्वम् इङ्ग्लैण्ड्-देशं प्राप्तुम् इच्छति स्म[१६६] ।

यदा जलयानम् एकस्मिन् पुलिने समातिष्ठत्, तदा कश्चित्कालं राममोहनः जलयानात् बहिः गत्वा पुलिने भ्रमणं कुर्वन् आसीत् । यदा भ्रमणानन्तरं राममोहनः पुनः जलयाने आरोपणं कुर्वन् आसीत् तदा आरोपणे सति सः अधः पतितवान् । तेन कारणेन तस्य पादे क्षतिः जाता [१६७]।

शारीरिकपीडया अपि तस्य सङ्कल्पः अचलः आसीत् । तस्मिन् समये द्वे फ्रान्सीसी-जलयाने स्वतन्त्रतायाः ध्वजेन सह तत्र आगते । सः फ्रान्सीसी-जलयानेन इङ्ग्लैण्ड्-देशं गन्तुम् ऐच्छत् [१६८]।

फ्रान्सीसी-जनैः तस्य विशिष्टस्वागतं कृतम् । स्वतन्त्रतायाः ध्वजं दृष्ट्वा सः बहु प्रसन्नः अभवत् [१६९]।

सदरलैण्ड् इत्याख्येन लिखितं यत् – “ यदा जलयानम् इङ्ग्लैण्ड्-देशस्य समीपं गच्छत् आसीत्, तदा राममोहनस्य मनसि इङ्ग्लैण्ड्-देशस्य ‘प्रिवी काउन्सिल्’ इत्यस्मिन् विषये चिन्ता आसीत् । राममोहनेन इङ्ग्लैण्ड्-देशस्य वर्तमानस्थितिं ज्ञातुं जलयानस्य चालकः उक्तः यत् – “यत् किमपि जलयानम् इङ्ग्लैण्ड्-देशतः आगच्छेत्, तस्य जलयानस्य यात्रिणम् इङ्ग्लैण्ड्-देशस्य मन्त्रणालस्य कार्यस्थितिविषये पृच्छतु” इति [१७०]।

किञ्चित्कालानन्तरम् एकं जलयानम् आगच्छत् । तदा राममोहनः तस्य जलयानस्य यात्रिभिः समाचारपत्राणि प्राप्तवान् । तेन राममोहनः ज्ञानवान् यत् – “इङ्ग्लैण्ड्-देशस्य राजमन्त्री परिवर्तितः” । अर्थात् १८३० तमस्य वर्षस्य नवम्बर-मासे लॉर्ड् ग्रे इत्याख्यः इङ्ग्लैण्ड्-देशस्य प्रधानमन्त्री अभवत् । अनेन सन्देशेन राममोहनः अत्यन्तः प्रसन्नः जातः । लॉर्ड् ग्रे इत्ययं भारताय हितकरः भविष्यति इति राममोहनः जानाति स्म ।

किञ्चिद्दिवसानन्तरं पुनः एकं जलयानं प्राप्तम् । तस्य जलयानस्य जलयात्रिभिः अपि राममोहनः इङ्ग्लैण्ड्-देशस्य सन्देशान् प्राप्तवान् यत् – “ प्रिवी मन्त्रणालये द्वितीयवारं परिवर्तनाय प्रस्तावः प्रस्थापितः । सन्देशं प्राप्य राममोहनः प्रसन्नः अभवत् [१७१]।

लिवरपुल-नगरे गमनम् अलबियन-जलयानेन १८३१ तमस्य वर्षस्य अप्रैल-मासस्य ८ दिनाङ्के लिवरपुल्-नगरं प्राप्तम् । भारततः इङ्ग्लैण्ड्-देशं प्राप्तुं चत्वारः मासाः त्रयोविंशतिः दिवसाश्च अतिक्रान्त्ताः[१७२] । राममोहनस्य आगमनसन्देशं प्राप्य ‘विलियम् बेथवोन्’ इत्याख्येन राममोहनः स्वगृहे निवासाय आवाहितः । किन्तु राममोहनः स्वतन्त्ररीत्या निवसितुम् इच्छति स्म ।

सः लिवरपुल्-नगरस्य प्रसिद्धे पथिकावासे आतिष्ठत् । तत्र बहवः जनाः राममोहनं मेलितुं गतवन्तः आसन् । तत्रत्यः जलयानकर्मचारी अपि राममोहनाय मेलितुं गतवान् आसीत् । यतः सः यदा कस्मैचित् कार्याय कोलकाता-महानगरं गतवान्, तदा राममोहनस्य ख्यातिं ज्ञात्वा राममोहनस्य निवासस्थानं दृष्टुं गतवान् आसीत् । अतः राममोहनस्य आगमनस्य सन्देशं प्राप्य मेलितुं पथिकावासं गतवान् आसीत् [१७३]।

विलियम् रोस्को इत्याख्येन सह मेलनम् लिवरपुल्-नगरे विलियम् रोस्को-नामकः प्रसिद्धः इतिहासकारः आसीत् । तेन सह राममोहनस्य मेलनम् अभवत् । विलियम् रोस्को इत्ययं लघुवयसि एव ईसामसीह इत्यस्य उपदेशानाम् सङ्ग्रहं कृतवान् [१७४]। यदा विलियम् रोस्को इत्यनेन राममोहनस्य “द परसेप्ट्स् ऑफ् जीसस्” इति पुस्तकं पठितं, तदा स्वस्य पुस्तकस्य स्मरणम् अभवत् ।

विलियम् रोस्को इत्याख्यः राममोहनस्य कार्येभ्यः प्रभावितः अभवत् । तस्य मनसि राममोहनाय सन्मानः आसीत् । राममोहनेन स्वस्य मेधया ज्ञानस्य, दर्शनस्य च क्षेत्रे बहूनि कार्याणि कृतानि आसन् । तानि कार्याणि विकसितदेशानां विद्वांसः अपि कर्तुम् असमर्थाः आसन् ।

लिवरपुल्-नगरे यः कोऽपि राममोहनं प्राप्यते, सः तस्य विद्वत्तायाः प्रभावितः भवति स्म । यदा विलियम् रोस्को इत्याख्येन सह राममोहनस्य मेलनम् अभवत्, तदा विलियम् रोस्को इत्ययम् अष्टसप्ततिवर्षदेशीयः (७८) आसीत् । तस्मिन्नेव वर्षे विलियम् रोस्को इत्याख्यस्य मृत्युः अभवत् [१७५]।

संसदि परिवर्तनस्य प्रस्तावं, भारतविषयकं विवादं च श्रुत्वा राममोहनः लिवरपुल्-नगरतः लण्डन्-नगरं गतवान् । तत्र मन्त्रणालये राममोहनाय विशिष्टासन्द्ः प्रदत्तः ।

उपासनागृहं गमनम् राममोहनः प्रतिदिनं प्रायः षड्जनान् मेलितुं बहिर्गच्छति स्म । सः जनैः सह मिलित्वा राजनीतेः, धर्मस्य च चर्चां करोति स्म । सः लिवरपुल्-नगरस्य यूनिटेरियन्-उपासनागृहं गतवान् । तत्र एकः जनः विभिन्नधर्माणां मान्यताविषयकं भाषणं कुर्वन् आसीत् । तस्य उपदेशं श्रुत्वा राममोहनः प्रभावितः जातः [१७६]।

कोलकाता-महानगरे टेट्-नामकेन आङ्ग्लजनेन सह राममोहनस्य मित्रता अभवत् । उपासनागृहस्य बहिः टेट् इत्याख्यस्य समाधिः आसीत् । समाधिं दृष्ट्वा राममोहनः दुःखितः जातः । अनन्तरं सः उपासनागृहे उपस्थितैः जनैः सह वार्तालापं कुर्वन् आसीत् ।

राममोहनः धाराप्रवाहेण आङ्ग्लभाषां वदति स्म । अतः राममोहनं दृष्ट्वा सर्वे चकिताः अभवन् । एकहोरानन्तरं राममोहनः ततः गतवान् । सांयकाले राममोहनः त्रितत्त्ववादिनाम् उपासनागृहं गतवान् । रेवरेण्ड् स्कॉरसबी उपासनागृहस्य धर्माचार्यः आसीत् । रेवरेण्ड् स्कॉरसबी इत्याख्यः पुरा जलयाने कर्माचारी आसीत् । अनन्तरं विद्यार्जनेन सः प्रसिद्धः वैज्ञानिकः, धर्माधिकारी च अभवत् । रेवरेण्ड् स्कॉरसबी इत्याख्यस्य भाषणं श्रुत्वा राममोहनः प्रभावितः अभवत् ।

लिवरपुल्-नगरस्य धनिककुटुम्बस्य सम्भ्रान्ताः जनाः एकाग्रतया राममोहनस्य भाषणं श्रुण्वन्ति स्म । लिवरपुल्-नगरस्य जनाः स्वाभाविकतया राममोहनस्य व्यक्तित्वेन प्रभाविताः अभवन् । राममोहनः ईसाई-धर्मम् अपि जानाति स्म । अतः तज्ज्ञानेन अपि जनाः अत्यन्तं प्रभाविताः जाताः [१७७]।

लण्डन्-नगरभ्रमणम् अप्रैल-मासस्य अन्ते राममोहनः लिवरपुल्-नगरात् लण्डन्-नगरं गन्तुं निर्गतः । सः रेलयानेन गतवान् आसीत् । यात्रायां सः इङ्ग्लैण्ड्-देशं पश्यन् आसीत् । इङ्ग्लैण्ड्-देशस्य समृद्धिं, व्यवसायं, सभ्यतां च दृष्ट्वा राममोहनः आश्चर्यचकितः अभवत् [१७८]। तत्र उच्चभवनानि, विशिष्टमार्गाः, कुल्याः, सेतवः (Bridge) इत्यादयः आसन् । इङ्ग्लैण्ड्-देशं दृष्ट्वा सः भारतस्य दुर्दशां चिन्तयति स्म ।

मानचेस्टर्-नगरभ्रमणम् लण्डन्-नगरं गमनसमये राममोहनेन मानचेस्टर्-नगरस्य भ्रमणं कृतम् आसीत् । तत्र बहवः यन्त्रागाराः आसन् । यन्त्रागारान् दृष्ट्वा सः आश्चर्यचकितः जातः । यन्त्रागारेषु कार्यकर्तारः अपि राममोहनस्य आगमनसन्देशं प्राप्तवन्तः ।

“भारतदेशस्य राजा आगतवान्” इति ज्ञात्वा सर्वे कार्यकर्तारः राममोहनं मेलितुं समागताः । राममोहनः अपि कार्यकर्तॄन् मिलितवान् । राममोहनेन कार्यकर्तारः उक्ताः यत् – “भवद्भिः अपि परिवर्तनप्रस्तावस्य समर्थनं करणीयम्” इति [१७९]।

लण्डन्-नगरे राममोहनः रात्रिसमये राममोहनः लण्डन्-नगरं प्राप्तवान् । तत्र एकस्मिन् पथिकावासम् आतिष्ठत् । तस्मिन् पथिकावासे मालिन्यम् आसीत् । अतः तस्मिन् समये एव तेन पथिकावासः त्यक्तः । अनन्तरम् एडेल्फी-नामके पथिकावासे आतिष्ठत् [१८०]।

जेटेमी बेनथम् इत्याख्येन सह मेलनम् यदा रात्रौ राममोहनः सुप्तः, तदा जेटेमी बेनथम् इत्याख्यः राममोहनं मेलितुं तत्र गतः । जेटेमी बेनथम् इत्याख्यः एकः प्रसिद्धः दार्शनिकः आसीत् । बहुवर्षाणि यावत् सः गृहात् बहिः अपि न गतवान् आसीत् । केवलं गृहस्य उद्याने एव भ्रमणं करोति स्म । किन्तु राममोहनस्य आगमनसन्देशं प्राप्य एव जेटेमी बेनथम् इत्याख्यः पथिकावासं गतः ।

रात्रौ पथिकावासे राममोहनेन सह मेलनं न अभवत् । अतः एकस्मिन् पत्रे स्वस्य नाम लिखित्वा ततः गतवान् आसीत् । तदनन्तरं जेटेमी बेनथम् इत्याख्यस्य राममोहनेन सह मेलनं जातम् [१८१]।

पथिकावासे अव्यवस्था आसीत् । अतः राममोहनः अव्यवस्थायाः कारणेन संसदं न प्राप्तवान् । तथापि परिवर्तनप्रस्तावस्य निर्णयः विधेयात्मकः आसीत् । तेन निर्णयेन राममोहनः प्रसन्नः अभवत् [१८२]।

प्रसन्ने सति राममोहनः विलियम् बोथबोन् इत्यस्मै एकं पत्रम् अलिखत् । तस्मिन् पत्रे लिखितम् आसीत् यत् – “मया सङ्कल्पः कृतः यत् – यदि अयं प्रस्तावः विधेयात्मकः न भवेत् चेत् अहम् इङ्ग्लैण्ड्-देशात् निर्गमिष्यामि । अनेन प्रस्तावेन इङ्ग्लैण्ड्-देशाय, इङ्ग्लैण्ड्-देशस्य अधीन्ये स्थितेभ्यः देशेभ्यः च लाभः भविष्यति” इति ।

मुख्यैः व्यक्तिभिः सह मेलनम् राममोहनः काँश्चन मासान् यावत् लण्डन्-नगरे एव निवासम् अकरोत् । राममोहनस्य आगमनस्य सन्देशं प्राप्य अनेकाः मुख्याः जनाः राममोहनं मेलितुं गतवन्तः । मध्याह्ने ११ वादनतः सांयकाले ४ वादनपर्यन्तं तस्य निवासस्थाने जनानां सम्मर्दः भवति स्म [१८३]।

राममोहनस्य उचितव्यवहारेण जनाः आकृष्टाः अभवन् । तस्य ख्यातिः सर्वत्र विस्तृता जाता । किन्तु व्यस्ततायाः कारणेन राममोहनस्य स्वास्थयं प्रभावितं जातम् । चिकित्सकेन अपि उक्तं यत् – “ राममोहनस्य समीपे जनसम्मर्दः मा भवेत् ।

राममोहनस्य राज्ञा सह मेलनम् देहली-राज्यस्य राज्ञा राममोहनाय “राजा” इति उपाधिः प्रदत्तः आसीत् । सः उपाधिः इङ्ग्लैण्ड्-सर्वकारेण स्वीकृतः । यदा इङ्ग्लैण्ड्-देशस्य राज्ञः पदाभिषेकनिमित्तं समारोहस्य आयोजनम् अभवत्, तदा अन्यदेशानां दूतैः सह राममोहनः अपि आमन्त्रितः आसीत् [१८४]।

यदा लण्डन्-नगरस्य सेतुनिर्माणस्य कार्ये पूर्णे सति इङ्ग्लैण्ड्-देशस्य राज्ञा भोजनसमारोहः कारितः । तस्मिन् भोजनसमारोहे अपि राममोहनः आमन्त्रितः आसीत् ।

ईस्ट् इण्डिया कम्पनी इत्यनया संस्थया राममोहनस्य “राजा” उपाधिः न स्वीकृतः । तथापि तया संस्थया राममोहनाय सम्माननं प्रदर्शितम् । सर् जे. सी हरहाउस् इत्ययं बोर्ड् ऑफ् कण्ट्रोलर् इत्यस्य अध्यक्षः आसीत् । जे. सी हरहाउस् इत्याख्येन एव राममोहनस्य इङ्ग्लैण्ड्-देशस्य राज्ञा सह मेलनं कारितम् आसीत् [१८५]।

राममोहनस्य सम्माने भोजनस्य आयोजनम् १८३१ तमस्य वर्षस्य जुलाई-मासस्य ६ दिनाङ्के ईस्ट् इण्डिया कम्पनी इत्यनया संस्थया राममोहनं सभाजयितुम् एकः भोजनसमारोहः आयोजितः । तस्याः संस्थायाः अध्यक्षः, उपाध्यक्षश्च समारोहस्य यजमानौ आस्ताम् । विभिन्नक्षेत्राणां मुख्याः जनाः समारोहे आमन्त्रिताः आसन् [१८६]।

संस्थायाः अध्यक्षेन स्वस्य भाषणे राममोहनस्य प्रशंसा कृता । भाषणान्ते सः उक्तवान् यत् – “यथा इङ्ग्लैण्ड्-देशे राममोहनस्य स्वागतम् अभवत्, तेन कारणेन अन्ये भारतीयाः अपि इङ्ग्लैण्ड्-देशस्य यात्रायै उत्साहिताः भवेयुः” इति ।

राममोहनः उक्तवान् यत् – “अहं तस्य दिवसस्य प्रतीक्षां करिष्यामि, यदा भारतीयाः इङ्ग्लैण्ड्-देशस्य यात्रां करिष्यन्ति ।

१८३३ तमस्य वर्षस्य नवम्बर-मासे प्रकाशितायाम् एशियाटिक-नामिकायां पत्रिकायाम् उल्लेखः आसीत् यत् – “इङ्ग्लैण्ड्-देशस्य शासकस्य मन्त्रिभिः राममोहनस्य “राजा” इत्युपाधये मान्यता प्रदत्ता आसीत् । अनन्तरं राममोहनः दिल्ली-राज्यस्य राज्ञः प्रतिनिधित्वेन स्वीकृतः [१८७]।

सदरलैण्ड् इत्याख्येन लिखितं यत् – “यथा इङ्ग्लैण्ड्-देशे जनैः राममोहनस्य स्वागतं कृतम्, तस्य प्रभावः एङ्ग्लो-इण्डियन्-जनेषु अभवत् । ये जनाः भारत-देशे राममोहनस्य विरोधं कुर्वन्ति स्म, ते अपि राममोहनं मेलितुं व्याकुलाः आसन्” [१८८]।

डेविड् हेयर्-राममोहनयोः मित्रता डेविड् हेयर्-इत्याख्येन सह राममोहनस्य मित्रता गहना आसीत् । लण्डन्-नगरस्य ‘बेडफोर्ड् स्क्वायर्’ इति क्षेत्रे हेयर् इत्याख्यस्य भ्राता निवसति स्म । डेविड् हेयर्-इत्याख्यस्य सर्वे भ्रातरः राममोहनस्य सेवायां संलग्नाः आसन् । यदा राममोहनः फ्रांस्-देशं गतवान् आसीत्, तदा हेयर् इत्याख्यस्य एकः भ्राता राममोहनस्य सहायकत्वेन सहैव गतः [१८९]।

स्वागतसमारोहः १८३१ तमस्य वर्षस्य लण्डन्-नगरस्य यूनिटेरियन्-ईसाइजनैः राममोहनस्य सम्माने स्वागतसमारोहस्य आयोजनं कृतम् आसीत् । १८३१ तमस्य वर्षस्य जूनमासे “मन्थली रिपोजिटरी” नामिकायां पत्रिकायां स्वागतसमारोहस्य लेखः प्रकाशितः ।

समारोहस्य अध्यक्षेन उक्तं यत् – “राममोहनस्य व्यक्तित्वेन सम्पूर्णस्य भारतदेशस्य स्थितिः दृश्यते [१९०]।

“वेस्ट् मिंस्टर् रिव्यू” इत्यस्य समाचारपत्रस्य सम्पादकः सर् जॉन् बाउटिङ्ग् आसीत् । तेन तस्य समारोहस्य वर्णनं कृतं यत् – “राममोहनेन इङ्ग्लैण्ड्-देशस्य यात्रां कृत्वा साहसं प्रदर्शितम् । यथा रूस्-देशस्य पीटर् नामकः राजा शिक्षणार्थं दक्षिण-यूरोप्-खण्डं गतवान् आसीत्, तथैव राममोहनेन अपि इङ्ग्लैण्ड् आगत्य महत्त्वपूर्णं कार्यं कृतम्” [१९१]।

राममोहनेन भारतवासिनां पीडायाः मुक्त्यर्थं, तेषाम् उन्नत्यै च स्वस्य जीवनं समर्पितम् । अमेरिका-देशस्य जनाः अपि राममोहनस्य कार्याणि ज्ञातवन्तः । अमेरिका-वासिनः अपि व्याकुलतया राममोहनस्य आगमनस्य प्रतीक्षां कुर्वन्तः आसन ।

रॉबर्ट् वेन् इत्यनेन सह विवादः इङ्ग्लैण्ड्-प्रवासे राममोहनस्य बहुभिः विद्वद्भिः सह चर्चा अभवत् । सर्वे तस्य विचारधारया, मेधयाः च प्रभाविताः अभवन् । एकस्मिन् दिवसे अनैट् इत्याख्येन स्वगृहे भोजनसमारोहस्य आयोजनं कृतम् । तस्मिन् समारोहे अनैट् इत्याख्यः राममोहनं, रॉबर्ट् इत्ययं च आमन्त्रितवान् । रॉबर्ट् इत्याख्यः साम्यवादस्य विचारकः आसीत् । रॉबर्ट् इत्ययम् इङ्ग्लैण्ड्-देशे साम्यवादस्य प्रथमः विचारकः मन्यते स्म ।

रॉबर्ट् इत्याख्यः स्वस्य दर्शनविषये राममोहनम् उद्बोधयितुं प्रयासान् कुर्वन् आसीत् । राममोहनेन शान्तस्वरेण तस्य विचारधारायाः दोषाः उक्ताः । पराजयेण रॉबर्ट् वेन् इत्याख्यः उत्तेजितः अभवत् । किन्तु राममोहनः शान्तः एव आसीत् । अनेन प्रकारेण तयोः विवादः जातः [१९२]।

फ्रान्स्-देशस्य यात्रा १८३२ तमस्य वर्षस्य शीतर्तौ राममोहनः फ्रांस्-देशस्य यात्रायै गतवान् । हेयर् इत्याख्यस्य भ्राता राममोहनस्य सहायकत्वेन सहैव आसीत् । फ्रान्स्-देशस्य निवासिभिः राममोहनस्य हार्दिकं स्वागतं कृतम् ।

तदा फ्रान्स्-देशस्य राजा लुई फिलिप् इत्याख्यः आसीत् । लुई फिलिप् इत्याख्येन राममोहनः भोजनाय आमन्त्रितः । राममोहनेन भोजने फलानि एव भुक्तानि ।

फ्रान्स्-देशस्य विद्वद्भिः अपि राममोहनस्य विशिष्टं स्वागतं कृतम् । एकस्मिन् पथिकावासे सर् टॉमस् मूर् इत्याख्येन सह राममोहनस्य मेलनम् अभवत् । सर् टॉमस् मूर् फ्रान्स्-देशस्य प्रसिद्धः कविः आसीत् । अतः तेन स्वस्य दैनन्दिन्यां राममोहनस्य मेलनप्रसङ्गस्य विवरणं लिखितम् [१९३]।

फ्रान्स्-देशे राममोहनः फ्रान्सीसी-भाषां ज्ञातुं प्रयतमानः आसीत् [१९४]।

राममोहनः, इङ्ग्लैण्ड्-देशस्य समाजः च १८३३ तमस्य प्रारम्भे राममोहनः इङ्ग्लैण्ड्-देशतः पुनरागतवान्, तदा हेयर् इत्याख्यस्य भ्रातुः गृहे निवसन् आसीत् । राममोहनः इङ्ग्लैण्ड्-देशस्य सम्भ्रान्तजनानं प्रियव्यक्तिः आसीत् । सः सर्वेभ्यः मधुरं व्यवहारं करोति स्म । अतः जनाः तं प्रति आकर्षिताः भवन्ति स्म[१९५] ।

कुमारी लूसी इत्यनया पत्रे राममोहनस्य गुणानां प्रशन्सा कृता आसीत् यत् – “सर्वैः राममोहनः असाधारणः, प्रतिभासम्पन्नः च मन्यते । तस्य विनम्रव्यवहारः मनोहरः वर्तते । आङ्ग्ल-भाषायाः अपि विशिष्टं ज्ञानं वर्तते । राममोहनः यूरोप्-खण्डस्य राजनैतिकस्थितिम् अपि सम्पूर्णतया जानाति । सः सर्वत्र स्वतन्त्रतायाः, विकासस्य च समर्थनं करोति” इति [१९६]।

राममोहनः इङ्ग्लैण्ड्-देशस्य मध्यमवर्गीयेषु जनेषु निवसन् आसीत् । यावत् लण्डन्-नगरे निवसन् आसीत्, तावत् पर्यन्तं सः हेयर् इत्याख्यस्य भ्रातुः गृहे एव निवासं कृतवान् । तस्य एकम् अश्ववाहनम् अपि आसीत् । तस्य सेवायै कर्मचारिद्वयम् आसीत् । राममोहनः मध्यमवर्गीयः इव निवसति स्म । किन्तु तं मेलितुं प्रथमश्रेण्याः जनाः गच्छन्ति स्म ।

राममोहनं मेलितुं ये केचन गच्छन्ति स्म । तेभ्यः राममोहनः उपहारनिमित्तं पुस्तकानि ददाति स्म । एकदा राममोहनेन हिन्दुशास्त्रस्य अनुवादं कृत्वा श्रीमती डब्ल्यू. इत्यस्यै प्रेषितम् । तस्मिन् अनुवादे वेदस्य, उपनिषदः वा केचित् अंशाः आसन् ।

परिवर्तनप्रस्तावस्य विधेयात्मकनिर्णये सति इङ्ग्लैण्ड्-देशस्य विभिन्नाः राजनैतिकसमूहाः राममोहनस्य विरोधं कुर्वन्तः आसन् । अतः राममोहनेन एकस्मिन् पत्रे लिखितं यत् – “अयं विरोधः केवल परिवर्तनसमर्थकस्य नास्ति, अयं तु सम्पूर्णपृथिव्याः जनानां विरोधः वर्तते । अयं न्यायान्याययोः, उचितानुचितयोः च विरोधः वर्तते”[१९७] ।

ब्रिस्टल्-नगरगमनम् तस्मिन् काले इङ्ग्लैण्ड्-देशस्य संसदि भारतस्य राजनीतिविषये चर्चा भवन्ती आसीत् । राममोहनः अपि संसदं गन्तुम् ऐच्छत् । अतः सः १८३३ तमस्य वर्षस्य सितम्बर-मासे ब्रिस्टल्-नगरं प्राप्तवान् आसीत् [१९८]। राममोहनेन सह डेविड् हेयर् इत्याख्यस्य भगिनी अपि गतवती आसीत् । तस्याः नाम कुमारी हेयर् इति ।

अन्ये अपि बहवः सहयोगिनः राममोहनेन सह गतवन्तः आसन् । रामहरिदास, रामरतन मुखोपाध्याय इत्यादयः ।

ब्रिस्टल्-नगरं प्राप्य राममोहनः शान्तिम् अन्वभवत् । यतो हि लण्डन्-नगरे कोलाहलः, जनसम्मर्दस्य आधिक्यं च आसीत् । अतः शान्तवातावरणं प्राप्य सः आनन्दम् अनुभवन् आसीत् । तत्र डॉक्टर् कार्पेण्टर् इत्याख्यः आसीत् । सः उपासनागृहे उपदेशं ददाति स्म । सः राममोहनस्य व्यक्तित्वात् प्रभावितः जातः । राममोहनः अपि प्रतिदिनं कुमारी कार्पेण्टर् इत्याख्यया सह वार्तालापं करोति स्म [१९९]।

कुमारी कार्पेण्टर् इत्यनया लिखितं यत् – “ब्रिस्टल्-नगरजनाः राममोहनम् अष्टवर्षेभ्यः प्राक् एव जानन्ति स्म । अष्टवर्षपूर्वं राममोहनः कोलकाता-नगरे एकस्य युनिटेरियन्-उपासनागृहस्य स्थापनां कर्तुं ब्रिस्टल्-नगरस्य उपासनागृहस्य सदस्येभ्यः साहाय्यम् अयाचत । तस्मिन् समये राममोहनस्य सामाजिककार्याणि अपि ब्रिस्टल्-जनाः अजानन् । अतः यदा राममोहनः उपासनागृहं प्राप्तवान् आसीत्, तदा तत्रत्यैः जनैः राममोहनः विशिष्टं स्वागतं कृतम् आसीत् ।

सः कदापि साम्प्रदायिकं बन्धनं न स्वीकरोति स्म । अतः सः अन्येषां चर्चासु अपि गन्तुम् इच्छति स्म ।

तत्र प्रसिद्धः निबन्धलेखकः रेवरेण्ड् जॉन् फोस्टर् आसीत् । सः स्टेपलटन् ग्रोव् इत्यस्य भवनस्य समीपे एव निवसति स्म । राममोहनः अपि स्टेपलटन् ग्रोव् इत्यस्मिन् भवने एव निवसति स्म । पूर्वं फोस्टर् इत्याख्यस्य मनसि राममोहनाय प्रीतिः वा गौरवभावः नासीत् । किन्तु सः अपि राममोहनस्य व्यक्तित्वात् प्रभावितः अभवत् । तदनन्तरं राममोहनं मेलितुं तं भवनं गतवान् ।

सभायाः आयोजनम् सितम्बर-मासस्य ११ दिनाङ्के स्टेपलटन् ग्रोव् भवने एकस्याः सभायाः आयोजनं कृतम् आसीत् । तत्र सभायां बहवः विशिष्टाः महानुभावाः सम्मिलिताः अभवन् । सभायां सर्वे राममोहनेन सह वार्तालापं कर्तुं गतवन्तः आसन् । भारतस्य धार्मिकराजनैतिकस्थितीनां, भविष्यत्कालस्य उन्नतेः, भारतीयदर्शनस्य च विषये चर्चा अभवत् । सर्वे विशिष्टमहानुभावाः राममोहनस्य तर्कशक्त्या प्रभाविताः अभवन् । घण्टात्रयं यावत् राममोहनेन जनानां प्रश्नानाम् उत्तराणि प्रदत्तानि आसन् ।

मृत्युः १८३३ तमस्य वर्षस्य सितम्बर-मासस्य १९ तमे दिनाङ्के राममोहनः ज्वरेण पीडितः जातः [२००]। समयान्तरे ज्वरः वर्धमानः आसीत् । बहुभिः चिकित्सकैः राममोहनस्य चिकित्सा कृता आसीत् । कुमारी हेयर् इत्याख्यया अहोरात्रं तस्य सेवा कृता । तथापि राममोहनस्य स्वास्थ्ये परिवर्तनं नासीत् ।

१८३३ तमस्य वर्षस्य सितम्बर-मासस्य १९ तमे दिनाङ्के रात्रौ सार्ध-द्विवादने राममोहनस्य मृत्युः अभवत् [२०१]।

मृत्योः अनन्तरं १९३३ तमस्य वर्षस्य सितम्बर-मासस्य २८ तमे दिनाङ्के स्टेपलटन् ग्रोव् भवनस्य समीपे एकस्मिन् उद्याने राममोहनस्य अन्त्येष्टिकर्म अभवत् । यतः राममोहनेन उक्तम् आसीत् यत् – “मृत्योः अनन्तरम् ईसाईधर्मानुसारम् अन्तिमसंस्कारः न भवेत्” इति । तस्य पुत्राः पैतृकसम्पत्तेः वञ्चिताः न भवेयुः राजा राममोहन राय ( ( शृणु) /ˈrɑːdʒɑː rɑːməmoʊhənə rɑːj/) (हिन्दी: राजा राममोहन राय, आङ्ग्ल: Raja Ram Mohan Roy, वङ्ग: রাজা রাম মোহন রায়) इत्ययम् “आधुनिकभारतस्य जनकः” इति कथ्यते । सः समाजसेवकः आसीत् । राममोहन राय इत्यस्य वैचारिकदृष्टिकोणः आधुनिकः आसीत् । अतः तेन आधुनिकतया सह परम्परां सञ्योजितुं प्रयासाः कृताः । तेन धर्मनिरपेक्षता-आध्यात्मिकता इत्येतयोः समन्वयः प्रस्थापितः [१] । इति राममोहनस्य इच्छा आसीत् ।

तदनन्तरं राममोहनस्य मित्रं द्वारकानाथ ठाकुर इत्याख्यः यदा इङ्ग्लैण्ड्-देशं गतवान् आसीत्, तदा द्वारकानाथेन आरनोस् वेल् इत्यस्मिन् स्थाने राममोहनस्य समाधिः निर्मापितः आसीत्[२०२] ।

डॉक्टर् एसलिन् इत्यस्य दैनन्दिनी डॉक्टर् एसलिन् इत्याख्यः दैनन्दिनीं लिखति स्म । अतः राममोहनस्य विषये अपि तस्य दैनन्दिन्यां वर्णनम् आसीत् ।

डॉक्टर् एसलिन् इत्याख्येन स्वस्य दैनन्दिन्यां वर्णिताः विषयाः दिनाङ्कानुसारम् अधः लिखिताः सन्ति[२०३] ।

९ सितम्बर स्टेपलटन् ग्रोप्-भवने अहं राममोहनं मिलितवान् । तेन सह वार्तालापं कृतवान् । राममोहनेन स्पष्टतया उक्तं यत् - “ईश्वरेण निर्धारितानि उद्देश्यानि ईसा इत्याख्यस्य जीवने निहितानि आसन्” । राममोहनः ईसा-इत्याख्यस्य दैवत्वं न स्वीकरोति स्म । किन्तु ईसा इत्याख्यस्य जीवनस्य उद्देश्यानि स्वीकरोति स्म ।

११ सितम्बर स्टेपलटन्-भवने डॉक्टर् कार्पेण्टर् इत्यनेन सह भोजनं कर्तुं गतवान् आसम् । तत्रैव डॉक्टर् जरार्ड् सिमोन्स्, फोस्टर्, बुस्, पेसवी, स्पेण्ड्ज् इत्यादयः मिलितवन्तः । भोजनसमये राममोहनेन स्वस्य धर्मस्य विषये सर्वे अवबोधिताः ।

१९ सितम्बर यदा अहं मम मातरं मेलितुं स्टेपलटन् ग्रोव् भवनं गतवान् आसम्, तदा “राममोहनः ज्वरेण पीडितः आसीत्” इति मया दृष्टम् । तदा मया राममोहनाय ओषधीनां व्यवस्था अपि कृता । तत्र जॉन् हेयर्, कुमारी हेयर् इत्येतौ राममोहनस्य सेवां कुर्वन्तौ आस्ताम् ।

२६ सितम्बर कुमारी हेयर् राममोहनस्य सेवायां निरन्तरम् आसीत् । सा रात्रौ त्रिवादने मह्यम् एकं सन्देशं प्रेषितवती आसीत् यत् – “ राममोहनस्य नाडेः गतिः न्यूना भवन्ती अस्ति” इति । अतः सा माम् आवाहितवती | यदा अहं (एसलिन्) भवनं प्राप्तवान्, तदा राममोहनः पक्षाघातेन त्रस्तः आसीत् । तस्य मुखं वक्रं जातम् आसीत् । किञ्चित् समयं यावत् तादृशी स्थितिः एव आसीत् । मध्याह्ने तस्य शरीरम् उष्णम् अभवत् । राममोहनः किमपि खादितुं न शक्नोति स्म । कुमारी, हेयर्, जॉन् हेयर् इत्यादयः अपि राममोहनस्य समीपे एव आसन् [२०४]।

२७ सितम्बर राममोहनस्य स्थितिः दिनप्रतिदिनं निर्वीर्या भवन्ती आसीत् । राममोहनः श्वासोच्छ्वासे अपि कष्टम् अनुभवन् आसीत् । नाडिगतेः अनुमानम् अपि शक्यं नासीत् । कुमारी हेयर् इत्याख्या दुःखसागरे पतिता आसीत् । राममोहनः तस्याः पितातुल्यः आसीत् । अतः राममोहनस्य स्थितिं दृष्ट्वा सा रुदती आसीत् । रात्रौ सार्धद्विवादने राजा राममोहन राय इत्याख्यः पञ्चत्वम् अवाप[२०५] ।

Start a discussion about सदस्यः:Kunapuli Venkata Sai Sandeep/प्रयोगपृष्ठम्

Start a discussion
सदस्य "Kunapuli Venkata Sai Sandeep/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ