सदस्यसम्भाषणम्:Nikhil1830709/प्रयोगपृष्ठम्

==भारतीय सर्वोच्चन्यायलयः==     
  भारतस्य मुख्यं न्यायमन्दिरम् अस्ति । भारतदेशे न्यायं प्राप्तुं भारतीयसर्वोच्चन्यायलयः सर्वोन्नतस्थानमस्ति । 
सञ्चिका:Court of india.jpg
 एषः राज्यानां, केन्द्रशासितप्रदेशानाम्, उच्चन्यायलयानां कृते न्यायं करोति । राज्ययोः मध्ये उद्भूतविवादानां, 
मानवीयमूलभूताधिकाराणाम्, अन्यमुख्यविषयाणाञ्च न्याययाचिका अत्र भवति । १९५० तमे वर्षे ‘जनवरी’-मासस्य षड्विंशतितमे 
 (२६) दिनाङ्के सर्वोच्चन्यायालयस्यास्य स्थापना अभूत् । देहली-नगरस्य तिलकमार्गे स्थितमस्ति एतन्न्यायमन्दिरम् । “यतो धर्मस्ततो
  जयः” इति संस्कृतग्रन्थस्य महाभारतस्य नीतिवाक्यं न्यायमन्दिरस्य ध्येयसूत्रमस्ति । सर्वोच्चन्यायलयस्य भवनं यदा निर्माणाधीनमासीत्, तदा 
 न्यायप्रकिया संसदि चलति स्म । ततः न्यायालयस्य नवभवने स्थानान्तरम् अभवत् ।
=भवनम्=
               १९५७ तमे वर्षे संसदः नूतनभवने स्थानान्तरितः सर्वोच्चन्यायालयः । भवननिर्माणस्य कल्पना मुख्यवास्तुशिल्पिना 
  ‘गणेश भीखाजी देवलालीकर’ इत्येतन्महानुभावेन कल्पितासीत् । सः स्वतन्त्रभारतस्य प्रप्रथमः केन्द्रियलोकनिर्माणविभागस्य    
   प्रमुखः आसीत् । न्यायभवनं स्थापत्यकलायाः उत्तमोदाहरणमस्ति । 
  भवननिर्माणे प्राचीनाधुनिकशैल्योः उपयोगः कृतोऽस्ति । भवनदर्शनेन भारतीयमूलसंस्कृतेः दर्शनं भवति । यथा सर्वोच्चन्यायालयस्य स्तूपः 
   मौर्यकालीनकलायाः प्रतिकः अस्ति । द्वाविंशतिः (२२) एकर्  विस्तृतत्रिकोणाकारभूमौ  न्यायमन्दिरभवनं निर्मितम् अस्ति । 
  भवनस्याकारः न्यायदेव्याः प्रतिकृतिः अस्ति । न्यायदेव्याः कल्पनाचित्रं यदा वयं पश्यामः, तदा तस्याः हस्ते तोलनं, तोलनस्य पात्रे च पश्यामः । तोलनस्य यत् 
   केन्द्रं भवति, तस्य मध्यबिन्दुः विशालस्तूपरूपेण निर्मितोऽस्ति । तस्य स्तूपस्य साक्षादधः मुख्यन्यायमूर्तिः विराजते । अस्य भावः अस्ति यत्, न्यायप्रक्रिया तटस्था ।
   तोलनपात्रवत् ययोः प्रकोष्ठयोः रचना कृतास्ति, तयोः प्रकोष्ठयोः अपि न्यायप्रक्रिया चलति । प्रप्रथमराष्ट्रपतिना ‘डा. राजेन्द्र प्रसाद’-वर्येण १९५४ तमस्य वर्षस्य ‘अक्टोबर्’-मासस्य 
    एकोनत्रिंशत् (२९) तमे दिनाङ्के सर्वोच्चन्यायालयस्य शिलान्यासः कृतः आसीत् । सर्वोच्चन्यायालयः नवदेहलीमहानगरस्य तिलकमार्गे स्थितः अस्ति । सर्वोच्चन्यायालयस्य पूर्वे
       मथुरामार्गः, पश्चिमे तिलकमार्गः, उत्तरे तिलकसेतुः, दक्षिणे भगवानदासमार्गः च अस्ति ।

इतिहासः= सम्पादयतु

सञ्चिका:Supreme court of india.jpg
     http://www.yourarticlelibrary.com/essay/judicial-review-in-india-meaning-features-and-other-details/40369
               न्यायतन्त्रस्य विकासस्तु वेदकालात् प्रचलितः अस्ति । न्यायस्य (धर्मस्य) विचारः वेदेभ्यः गृहीतः अस्ति ।
    वेदेषूल्लिखितनियमानां धर्मसूत्रत्वेन सरलतया प्रतिपादनमभूत् । तेषु धर्मसूत्रेषूपयुक्तः धर्मशब्दः नियम-दायित्व-कर्तव्यादीनां बोधं कारयति । 
  तेषु वेदेषु, धर्मसूत्रेषु च चर्चितनियमेषु मनुष्यजीवनस्य भिन्नेषु स्तरेषु कर्तव्याकर्तव्ययोः, यमनियमयोः, प्रवृत्त्यप्रवृत्त्योः च मार्गः कः भवेत् इत्येतस्य मार्गदर्शनमस्ति । 
  तेषु वेदेषु, धर्मसूत्रेषु च राज्ञः, न्यायकर्तॄणां च कृतेऽपि कर्तव्याकर्तव्ययोः, यमनियमयोः, प्रवृत्त्यप्रवृत्त्योः सुमार्गः चिह्नितः अस्ति । समये व्यतीते सति न्याय इत्येनं विषयं
विस्तारेण प्रतिपादयितुं भिन्नग्रन्थानां रचना अभूत् । तेषु अर्थशास्त्रस्य रचनां कौटिल्‍य: अकरोत् । विदुषां मतमस्ति यत् ३०० b.c  पूर्वम् अस्य ग्रन्थस्य रचना अभूत् इति । 
  अर्थशास्त्रस्य तृतीयेऽध्याये द्वयोः व्यक्त्योः व्यवहारः कीदृशः भवितव्यः इति प्रतिपादितमस्ति । अर्थशास्त्रस्य रचनापश्चात् याज्ञवल्क्यस्मृतिः, 
 पाराशरस्मृत्यादिग्रन्थानां रचनाभूत् । ततः इस्लाम-न्यायप्रक्रियायाः, आङ्ग्ल-न्यायप्रक्रियायाः च विकासः अभूत् । भारतस्य पराधीनतायाः पूर्वं मुख्यतया अर्थशास्त्रादिग्रन्थाः 
 एव न्यायप्रक्रियायाः मार्गदर्शकाः आसन् । ततः तेषां ग्रन्थानां भिन्नासु भाषासु अनुवादे सति अन्यग्रन्थानामपि उपयोगः आरब्धः । धर्मनिरपेक्षन्यायतन्त्रस्य आवश्यकतायां सति 
 भारतीयसंविधानस्य रचनाभूत् । भारतीयसंविधानस्य पञ्चमभागान्तर्गतस्य चतुर्थाध्याये लिखितनियमानुसारं सर्वोच्चन्यायालयस्य स्थापना कृता अस्ति । भारतीयसंविधानस्य १२४ 
 अनुच्छेद-तः १४७ अनिच्छेद-पर्यन्तं सर्वोच्चन्यायालयस्य रचनासम्बद्धाः नियमाः सन्ति । भारतीयसंविधानानुसारं न्यायप्रणालिः धर्मनिरपेक्षा, सर्वेभ्यः समाना च ।
 सर्वोच्चन्यायालयस्य मुख्योद्देशः भारतीयसंविधानस्य रक्षणं, भारतीयसंविधानानुसारं न्यायप्रक्रियायाः निर्वहणञ्च ।

सर्वोच्चन्यायालये महत्वपूर्णांशाः सम्पादयतु

  भारतमातुः क्रोडे गणतन्त्ररूपी बालकस्य मूर्तिः उच्चन्यायलयस्य पुरः स्थिते उद्याने दशाधिकद्विशतं (२१०) से.मी. उन्नता, कृष्णवर्णीया कांस्यमूर्तिः स्थापिता अस्ति । एतस्याः कांस्यमूर्त्याः स्थापना १९७८ तमस्य वर्षस्य ‘फेब्रुवरी’-मासस्य विंशतितमे (२०) दिनाङ्के अभूत् । मूर्तौ अङ्किता माता भारतमाता अस्ति । भारतमातुः क्रोडे  स्थितः बालकः भारतस्य गणतन्त्रम् अस्ति । सः बालकः एकं पुस्तकम् उद्घाट्य पठन् अस्ति । तत् पुस्तकं भारतीयसंविधानमस्ति । पुस्तके चिह्नितः तोलनचित्रं "सर्वेभ्यः समन्यायः" इत्यस्य लक्ष्यस्य प्रतीकः अस्ति । एतां मूर्तिं महान् शिल्पकारः श्रीचिन्तामणिवर्यः निर्मितवान् ।

धर्मचक्रचिह्नम् सम्पादयतु

अशोकस्य राजधान्यां स्थितस्य स्तम्भस्य उपरि तक्षितानि चित्राणि धर्मचक्रचिह्ने सन्ति । चक्रमिदं द्वात्रिंशत् (३२) अराणां धातृ अस्ति । तस्य चक्रस्याधः चतुर्मुखसिंहस्य चित्रमस्ति । तस्य चतुर्मुखसिंहस्याधः संस्कृतभाषायाम् “यतो धर्मस्ततो जयः” इति उपदेशः लिखतः अस्ति । एषः उपदेशः सर्वोच्चन्यायालयस्य ध्येयवाक्यमस्ति । अस्य उपदेशस्य न्यायालयेन गृहीतः अर्थः अस्ति यत्, “अहं केवलं सत्यम् अनुगृह्णामि” इति । आहत्य एतत् चिह्नं धर्मचक्र-सत्य-समानताः प्रतिपादयति । एतत् धर्मचक्रचिह्नं न्यायाधीशस्य आसन्दस्य पृष्ठभित्तौ अपि दृश्यते ।सर्वोच्चन्यायालये न्यायदेव्याः मूर्तिः, हस्तनिर्मितानि चित्राणि, ऐतिहासिकचित्राणि च सन्ति ।

https://en.wikipedia.org/wiki/Supreme_Court_of_India

सदस्य "Nikhil1830709/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ