सम्भाषणम्:मुख्यपृष्ठम्

अल्बर्ट् ऐन्स्टैन्

अल्बर्ट् ऐन्स्टैन्
— Wikipedian —
नाम अल्बर्ट् ऐन्स्टैन्
जन्म १४-०३-१८७९
उल्म्-नगरे
देशः   [[|]]
भाषा आङ्ग्लभाष



       अल्बर्ट ऐन्स्टायिन्  जर्मनीदेशस्य  विश्वविख्यातः  वैज्ञानिकः  आसीत् ।  भौतविज्ञानस्य  लोके  स्वसंशोधनैः  प्रसिद्धः  । भौतशास्त्रस्य  जनकः  इति  प्रसिद्धिः   अस्य ।  द्युतिविद्युत्परिणामस्य  नियमं निरूपितवान् ।  एषः  सुप्रसिद्धः नियमः  भवति  ।  'बनेश्  हाफ्’  अस्य  शिष्यः  अस्य  जीवनस्य साधनस्य च विषये 'दि स्ट्रेञ्ज् स्टोरि  आफ् दि  क्वाण्टम्' इत्यस्मिन् पुस्तके विस्तृततया लिखितवान् अस्ति ।


जननम्, बाल्यञ्च

      ऐन्स्टायिन्  मार्चमासस्य  १४  दिनाङ्के १८७९  तमे संवत्सरे  जर्मनीदेशस्य  वुर्टेन्  बर्गप्रान्तस्य  उल्म्-नगरे  अजायत  । अस्य पिता 'हर्मन्' । मता 'पौलीन्'  । हर्मन् एकस्य आपणस्य स्वामी आसीत् । पौलीन् सङ्गीतप्रिया आसीत् । बाल्ये अध्ययने अभिरुचिः न आसीत् । शालां गन्तुं मनः न आसीत् ।

अध्ययनम् , उध्योगञ्च

    अस्य पिता  कालान्तरे   म्यूनिक् नगरे यन्त्रागारं स्थापितवान् ।  अस्मिन् समये पुत्रं  क्याथोलिक्  शालायाम्  अध्ययनार्थं  प्रेशितवान् । अत्रत्यनां कठिणनियमपालने  अनासक्तः।  अतः  शालां  गन्तुम् इच्छा एव न भवति स्म ।  पुत्राय विद्यायाः महत्त्वम् एवं अस्याः आवश्यकताञ्च बोधितवान् । पितृव्यस्य प्रोत्साहः अस्य अध्ययने बहुमुख्यम् आसीत् । एतेन अध्ययने अभिरुचिरागतः । अस्य माता 'पिटिलु’ वाद्यं पाठितवती । शालासु  भाषाविषयेषु  अनासक्तः,  विज्ञाने, गणीते  च  आसक्तिः  आसीत्  । तत्रापि  यूक्लिडस्य  रेखागणीते  अतीवासक्तिः  आसीत्  ।  अस्य प्रश्नाः  शालासु  अध्यापकान्  पीडयन्ति  स्म  । अतीव  सूक्ष्माः  कठिणाश्च प्रश्नाः  भवन्ति स्म ।  अस्मै  अत्रत्य पाठनव्यवस्था न रोचते स्म । अतः  स्विट्झर्ल्याण्ड्देशस्य  आकानगरस्य प्रसिद्धां शालां प्रविष्टवान्  ।  अत्रत्या पाठनशैली आकर्शिता ।  उत्तमशिक्षणं  प्राप्य,  जूरिच्नगरस्य  पालिटेक्निक्  कलाशालां प्रविष्टवान्   ।  अस्मिन् समये भौतविज्ञानस्यैव अध्ययनं कर्तव्यमिति निर्धारं स्वीकृतवान् ।  अपेक्षितान् गणीतशास्त्रनियमान् अधीतवान् । अध्ययनानन्तरं उद्योगावकाशाः न प्राप्ताः । एषु दिनेषु बालेभ्यः पाठयति स्म । जूरच् विश्वविद्यालयस्य डाक्टरेट्  पदवीं प्राप्तवान् । अस्मिन्नेव विश्वविद्यालये  एव १९०९  तमे संव तसरे प्राध्यापकपदवीं प्राप्तवान् । १९१२  तमे  संवत्सरे  जूरिच्  पालिटेक्निक्  विद्यालये  सहप्राध्यापकत्वेन  कार्यं  कृतवान्  । १९१३ तमे  संवत्सरे  बर्लिन्  विश्वविद्यालये  प्राध्यापकत्वेन कार्यं  कृतवान्  । कैसर्  विल्  हेल्म्  इन्स्टिट्यूट संस्थायाः विंशतिवर्षाणि यावत् निदेशकः  आसीत् ।


वैय्यक्तिकजीवनम्

    अस्य  बहुसरलजीवनम्  आसीत्  ।  यहूदिसम्प्रदायस्थः  आसीत्  । १९०३  तमे  संवत्सरे  विद्याभ्यासस्य  कालीनां  मिलेवा  मारिस्  सखीं  परिणीतवान् । १९०४ तमे संवत्सरे  "ह्यान्स् अल्बर्ट्”  नाम  प्रथमः  पुत्रः अजायत् । द्वितीयस्य  पुत्रस्य  नाम  एड्वर्ड  इति  । १९१४ तमे संवत्सरे परिवारेण  सह  बर्लिन्-प्रदेशम्  आगतवान्  । अत्र  नूतन  उद्योगं  प्राप्तवान्  । किञ्चित्  कालानन्तरं  दाम्पत्ये  क्लेशाः उत्पन्नाः।  १९१९ तमे संवत्सरे  विच्छेदनम्  अपि प्राप्तवान् । पुत्राभ्यां  गृहात्  निर्गता  मिलेवा । अनेन  दुःखितः  ऋग्णश्च  सञ्जातः । अस्मिन् समये अस्य पालनम्  'एल्सा’  कृतवती । एनाम्  एव अ ल्र्ट परिणीतवान् । अस्य प्रसिद्धौ एषा अपि कारणीभूता । उपन्यासेन युरोपदेशेषु , अमेरिकादेशेषु च प्रसिद्धिः आसीत् । १९३३  तमे  संवत्सरे  अडाल्फ् र स्वशासनकाले अस्य गृहादिकं स्वायत्तीकृतवान् ।  अस्य पौरत्वमपि स्वीकृतवान् । अतः एषः  अमेरिकादेशे  एव वासं  कृतवान् ।  स्वान्त्यकालपर्यन्तं  न्यूजेर्सिया  प्रिन्स्-टन्  विश्वविद्यालये  कार्यं  कृतवान् ।

अल्बर्ट् सिद्धान्तः

    अस्य  सापेक्षतासिद्धान्तः सुप्रसिद्धः  भवति ।  एन्स्टैन्  प्लाङ्कनस्य  शकलसिद्धान्तस्य  सारं  स्वीकृत्य  प्रकाशस्य  गुणधर्मान्  ज्ञातुं  संशोधनं कृतवान् । अनेन स्वसिद्धान्तं निरूपितवान् । "यन्यू डेफिनिशन् आफ् मालिक्टूलर् डैमेन्षन्" इति प्रबन्धमेकं रचितवान् । एन्स्टैन् प्रकाशस्य सञ्चारस्य, वेगस्य च विषये स्व नूतनं सिद्धान्तं निरूपितवान् । "प्रकाशस्य सञ्चाराय माध्यमम् अनपेक्षितम्, सः प्रकाशः निर्वाते सञ्चारसामर्थ्यसहितः शक्तिरूपः भवति । प्रकाशस्य वेगस्य समानः वेगः कस्यापि न भवति। प्रकाशः स्वमूलात् बहिरागत्य समानवेगे प्रसरति ।"  इति अस्य निरूपणं भवति। प्रकाशस्य वेगः गरिष्ठः भवति । अतः स्थिरवेगं 'C"  इति आङ्ग्लाक्षरेण सूचितवान् । एन्स्टैन् निरूपितं समीकरणम् E = mc2 इति । जडवस्तु त्रिषु रूपेषु घन, द्रव, अनिलादि भेदेन विद्यते । वस्तुने द्रव्यराशिः अस्ति । द्रव्यराशिं m इति सङ्केतेन निरूपितवान् अस्ति । प्रकाशम्, उष्णञ्च भारपरिमाणेन मापयितुं न शक्यते । ईदृशां शक्तीं E इति सङ्केतितवान् । वैज्ञानिकाः शक्तिराशी पृथक् इति चिन्तयन्तः आसन् । उभयोर्मध्ये एन्स्टैन् सम्बन्धं कल्पयित्वा, उभयोः समत्वं च कल्पयित्वा E=mc2 इति सरलं समीकरणं निरूपितवान् । अनेन समीकरणेन परमाणुगोलस्य तत्वं निरूपितम् ।


पुरस्काराः

    *१९२१ तमे संवत्सरे नोबेल् पुरस्कारं प्राप्तवान् ।
    *१९२९ तमे संवत्सरे जर्मन् शारीरकसंस्थायाः 'म्याक्स् प्लाङ्क्’ पदकं प्राप्तवान् ।
    *१९३६ तमे संवत्सरे फ्राङ्क्लिन् संस्थायाः फ्राङ्क्लिन् पदकं प्राप्तवान् ।

मरणम्

     एन्स्टैन् प्रिन्सटन् वैद्यालये एप्रिल्मासस्य १८ तम दिनाङ्कस्य १९५५ तमे वर्षे  मृतवान् । एन्स्टैनवर्यस्य मरणानन्तरम् अस्य मस्तिष्कं प्रिन्स्-टन् वैद्यालये स्थापितवन्तः । अस्य प्रतिभायाः रहस्यं ज्ञातुं अत्रत्य वैज्ञानिकाः कुतूहलीनः आसन् । एवम् अस्योपरि अध्ययनम् अपि कृतवन्तः।

निर्देश

https://en.wikipedia.org/wiki/Albert_Einsteinhttps://www.space.com/15524-albert-einstein.htmlhttps://www.newscientist.com/people/albert-einstein/

पृष्ठ "मुख्यपृष्ठम्" पर वापस जाएँ।