सम्भाषणम्:योगस्थः कुरु कर्माणि...

@NehalDaveND, अस्य लेखस्य शब्दार्थेति अनुच्छेदे भिन्नभाषाणां प्रयोगः कृतः । सं विकिपीडियायाः मुख्यलेखेषु भिन्नभाषाणां प्रयोगः सर्वथा नेप्सितः एव । अस्मिल्लेखे तत् अनावश्यकमपि । अर्थस्यावगमने क्लेशः सरल-संस्कृत-समार्थकशब्दैः परिहर्तुं शक्यः । अन्याभाषाणाम् अभावोऽपि(बङ्गाली, तमिळ्...) विवादस्य कारणं स्यादग्रे । तस्मात् भिन्नभाषायुतानाम् अंशानां निष्कासनं भवेत् ।--Sayant Mahato (चर्चा) १३:१२, ९ अक्तूबर २०१५ (UTC)

@Sayant Mahato: कृतज्ञोऽहं महोदय.... बहुभ्यः मासेभ्यः आवयोः चर्चा नाभवत् । कदाचित् बहुभ्यः मासेभ्यः मया दोषः न कृतः स्यात् । भवता सह सम्भाषणं मम कृते ज्ञानस्य वर्षाः भवन्ति । अधुना भवता यदुच्यमानम् अस्ति, तस्य विषये तु अहं केलवम् अग्रजानाम् अनुसरणं करोमि । अत्र भिन्ना भाषा अस्ति । अन्यत्र बहुत्र मया तथा दृष्टं । एकं सप्ताहं ददातु अहं सम्पूर्णाम् आवलिम् अत्र स्थापयिष्यामि । अहं तु अन्येषाम् अनुसरणं करोमि । मम स्वकीयं चिन्तनं बहु न्यूनम् अस्ति । द्वितीयं महोदय... अहं यत्करोमि तत्रैव आपत्तिः किमर्थम् इति प्रश्नः भवति । विकिपीडिया-जाले अनेके लेखाः तादृशाः सन्ति, प्रतिमासम् अनेके तादृशाः लेखाः भवन्ति, येषु अनेके दोषाः भवन्ति । अन्यभाषायाः लेखाः भवन्ति, अनुचिताः लेखाः भवन्ति इत्यादि । परन्तु यत्र अहं किमपि करोमि, तत्रैव सर्वे मार्गदर्शनाय तत्पराः भवन्ति । तत्रापि तादृशाः जनाः मतदानं कुर्वन्ति, यैः किमपि विशेषं कार्यं न कृतम् अस्ति । कश्चन केवलं लेखां निर्माय साक्षात् मतदानाय सज्जः भवति, अपरः केवलं मतदातुम् एव सक्रियः भवति । एतादृशं भवति, तदा ----- शङ्का भवति । यथा अधुना भवान् एतस्य लेखस्य विषये निवेदयति, तथैव अहं निवेदयामि यत्, "अनेके लेखाः सन्ति, येषु अन्यभाषाणाम् उपयोगः अस्ति", "बहवः लेखाः सन्ति ये अपाकरणावल्यां सन्ति", "बहवः लेखाः सन्ति ये संयोजनीयाः लेखाः इत्यस्मिन् वर्गे सन्ति" । मयापि तत्र परिवर्तनस्य निवेदनं कृतम् अस्ति । मम निवेदनं कोऽपि पश्यति वा न इत्यपि शङ्का अस्ति । परन्तु मया सर्वेषां निवेदनानि अनुसरणीयानि इति अनिवार्यम् अस्ति ? यदा अहं निवेदनस्योपरि चर्चां कर्तुम् इच्छामि, तर्हि कोऽपि सज्जः न भवति । यत्र आवश्यकता न भवति, तत्रापि सहसा शीर्षकपरिवर्तनं भवति । तथा अहं करोमि चेत्, सम्भाषणं करणीयं भवति । एतादृशं किमर्थम् अस्ति इति बहुधा मे मनसि प्रश्नः समुद्भवति । चिन्तयतु अधुना तु आहात्य चत्वारः उत पञ्च जनाः सक्रिया सन्ति । तेषु अपि सम्पूर्णान् लेखान् तु न्यूनाः लिखन्ति । एतादृशे सामान्यवातावरणे यदि स्वातन्त्र्यं नास्ति, तर्हि बहवः जनाः यदा सक्रियाः भविष्यन्ति, तदा तु कथं नियोजनं भविष्यति इति प्रश्नः । अत्र नीतिनिर्माणविषये निर्णयः जातः आसीत् । तस्य विषये किमपि नाभवत् । कारणं ------ । तादृशं गभीरं कार्यम् अति महत्त्वपूर्णम् अस्ति । परन्तु लेखस्य शीर्षकं सर्वेषां पीडायाः कारणं भवति । परिश्रमेण यः लेखः लिखितः, तस्मिन् दोषारोपणाय सर्वेषां पार्श्वे समयः भवति । तत्र विरोधं प्रदर्शयितुं चिरनिद्रायां स्थितः कश्चन सदस्यः सहसा मतदानाय आगच्छति । नित्यं यः कार्यं करोति, तस्मात् अपेक्षया सः सदस्यः, तस्य मतं च प्रधानं भवति । सारांशः - यथा मे निवेदनानि इतोऽपि प्रतिक्षमाणि सन्ति, तथैव यदि भवतः एतत् निवेदनं प्रतिक्षमाणं स्यात्, तर्हि उद्विग्नः भूत्वा स्वयं परिवर्तनं मा करोतु इति निवेदनम् । यथा अहं प्रतिक्षां करोमि, तथा भवान् अपि प्रतिक्षां करोतु । यदा अवसरः भविष्यति अहम् उचितं करिष्यामि । ॐNehalDaveND ०४:३७, १० अक्तूबर २०१५ (UTC)
पृष्ठ "योगस्थः कुरु कर्माणि..." पर वापस जाएँ।