सर्वभारतीयतृणमूलकांग्रेसपक्षः

भारतस्य एकः राजकीय पक्षः

सर्वभारतीयतृणमूलकांग्रेसपक्षः(TMC) (पुरानाम- तृणमूलकांग्रेस्, तथा पश्चिमबङ्गतृणमूलकांग्रेस्) भारतस्य एकः राष्ट्रीयराजनैतिकपक्षः । १९९८ वर्षस्य प्रथमे दिनाङ्के (जानवरी मासस्य) भारतीयजातीयकांग्रेसात् बहिरागत्य अस्य पक्षस्य स्थापना जाता । ममता ब्यानार्जीअस्य पक्षस्य नेत्रीरूपेण विराजमाना अस्ति । संयुक्तप्रगतिशीलमैत्रीकुटे(यु.पि.ए) द्वितीयबृहत्तमपक्षः तृणमूलकांग्रेस् आसीत् ।

सर्वभारतीयतृणमूलकांग्रेसपक्षः
সর্বভারতীয় তৃণমূল কংগ্রেস
अध्यक्षः ममता ब्यानार्जी
(मुख्यमन्त्री)
निर्माणम् १ जानवरी, १९९८
संवादपत्रिका जागो बाङ्गला (बाङ्गला)
महिलाविभागः सर्वभारतीयतृणमूलमहिलाकांग्रेस
श्रमिकविभागः सर्वभारतीयतृणमूलवाणिज्यकांग्रेस
कृषकविभागः सर्वभारतीयतृणमूलकृषककांग्रेस
विचारधारा जनप्रीयतावादः
समाजतन्त्रम्
धर्मनिरपेक्षतावादः
राजनैतिकस्थितिः केन्द्र्-वाम
वर्णः उज्ज्वलहरितवर्णः
लोकसभासदस्यसंख्या
३४ / ५४५
राज्यसभासदस्यसंख्या
१३ / २४५


विवरणम् सम्पादयतु

पक्षस्य प्रतिष्ठा सम्पादयतु

सर्वभारतीयतृणमूलकांग्रेसपक्षस्य प्रतिष्ठा स्व-राजनैतिकपक्षरूपेण ममता ब्यानार्जी कृतवती । १९९७ वर्षस्य दिसेम्बर् मासे भारतीयनिर्वाचन-आयोगेन अस्य पक्षस्य पञ्जीकरणम् अभूत्। तृणमूलकांग्रेसपक्षस्य निर्वाचनप्रतीकचिह्नम् "तृणप्रसूनयुगम्" इति आयोगेन प्रदत्तासीत् । १९९९ तमे वर्षे तृणमूलकांग्रेसपक्षः लोकसभानिर्वाचने भारतीयजनतापक्षं समर्थितवान् ।

प्रारम्भिकनिर्वाचनफलानि सम्पादयतु

१९९८ तमे वर्षे लोकसभानिर्वाचने तृणमूलकांग्रेसपक्षः ७ स्थलेषु विजयं प्राप्तवान्। पुनः १९९९,लोकसभासामान्यनिर्वाचने भारतीयजनतापक्षेण सह मैत्रीं संस्थाप्य ८ निर्वाचनस्थलेषु पक्षोऽयं विजीताऽसीत् । २००० तमे वर्षे कलकातापौरसंस्था तृणमूलकांग्रेसपक्षस्य अधीनागता । २००१ तमे वर्षे विधानसभानिर्वाचने कांग्रेसपक्षस्य सहयोगीरूपेण ६० विधानसभाप्रान्तान् जीतवान् । तृणमूलकांग्रेसपक्षः २००४ तमे वर्षे लोकसभानिर्वाचने एकमेव निर्वाचनकेन्द्रे विजयी आसीत् । २००६ तमे वर्षे तृणमूलकांग्रेसपक्षः ३० स्थलेषु विजयी अभूत् ।

 
ममता ब्यानार्जी

साप्म्रतिककालिनफलानि सम्पादयतु

२००९ , लोकसभानिर्वाचनम् सम्पादयतु

२००९ तमे वर्षे साधारणलोकसभानिर्वाचने सर्वभारतीयतृणमूलकांग्रेसपक्षः एवं मैत्रीगणः २६ लोकसभाकेन्द्रेषु विजयी अभूत् । तत्र तृणमूलकांग्रेसपक्षस्य १९ एवं एस्, यु, सि, आइ-पक्षस्य १, तथा भारतीयजातीयकांग्रेसस्य ६ लोकसभाकेन्द्राणि आसन् ।

२०१०, पौरनिर्वाचनम् सम्पादयतु

२०१० तमे वर्षे कलकाता-पौरसंस्थानिर्वाचने सर्वभारतीयतृणमूलकांग्रेसपक्षस्य ९७ स्थलेषु विजयः जातः। तथा विधाननगर(सल्टलेक)-पौरसभायामपि तृणमूलकांग्रेसपक्षः विजयी अभवत् ।

२०११, विधानसभानिर्वाचनम् सम्पादयतु

२०११ तमे वर्षे पश्चिमबङ्ग-विधानसभानिर्वाचने सर्वभारतीयतृणमूलकांग्रेसपक्षः एवं भारतीयजातीयकांग्रेसपक्षः उभयपक्षयोः संयोजितप्रयासेन ३४ वर्षं यावत् प्रचलिता शासनपरम्परायाः (वामपन्थिसर्वकारस्य) समाप्तिः अभवत् । सर्वभारतीयतृणमूलकांग्रेसपक्षः २२७ विधानसभाप्रान्तेषु विजयं प्राप्य नूतनसर्वकारस्य रचनां कृतवान्।