सालार् जङ्ग वस्तुसङ्ग्रहालयः

एषः वस्तुसङ्ग्रहालयः विश्वे एवः प्रसिद्धः अस्ति । भारते तृतीयः बृहत् सङ्ग्रहालयः एषः । एकेन सङ्गृहीतानि वस्तूनि (३५,०००) अत्र सन्ति । सः एव सालारजङ्गः-३I एषः पितुः स्काशात् पितामहस्य सकाशात् च कतिचन वस्तूनि प्राप्तवान् । अनेकानि वस्तूनि स्वयं सङ्गृहीतवान् । कलात्मकानि वस्तूनि अत्र सन्ति । लेखनानां सङ्ग्रहः अपि अत्र अस्ति । ४० वर्षाणां परिश्रमस्य प्रयत्नेन एषः वस्तुसङ्ग्रहालयः सुव्यवस्थितः अभवत् । अत्र नूतनभवने भारतीयलोहशिल्पानि ताम्रकांस्यविग्रहाः वर्णाङ्कितवस्त्राणि च सन्ति । एतानि चोळ-विजयनगर-अन्ध्रराज्यानां सम्बन्धीनि सन्ति । मथुरा-कौशाम्बी- कुशानविभागीयाः शिलाविग्रहाः लोहप्रतिमाः च अत्र सन्ति । एकत्र हस्तिदन्तैः निर्मितानि शिल्पानि सन्ति । विश्वस्य नानाविध-आयुधसङ्ग्रहः, भारतीयायुधानां, पर्शियन् देशीयानां युरोपियन् देशीयानां च सङ्ग्रहः विशिष्टोऽस्ति । शतशाः अनेकविधाः खड्गाः, छुरिकाः सन्ति । मोगलबादशाहस्य औरङ्गजेबस्य वज्रखचितखङ्गः टिप्पुसुल्तानस्य शिरोवस्त्रम् (पेट्), दन्तासनं च सुन्दरतया प्रदर्शिताः सन्ति । बिद्रीरचनाः, करीमनगरस्य रजतफिलिग्रीरचनाः, मिनियेचरपेण्टिङ्ग्, मोगल्-पर्शियन्-माळ्व- पहारि- बङ्गाळ-दक्खनीशैल्या सूक्ष्मावर्णचित्राणि अत्यमूल्यानि सन्ति । राज्ञः रविवर्मणः चित्राणां कृते एव एकः विभागः कृतः अस्ति । मृदा निर्मितानि नानाविधानि वस्तूनि आकर्षणीयानि सन्ति । मध्यपूर्वराष्ट्राणां रत्नकम्बलं काचवस्तूनि, लोहवस्तूनि, वस्त्रकटाः पृथग्रूपेण प्रदर्शिताः सन्ति । ईजिप्त-सिरीयादेशयोः वस्तूनामेव कश्चन विभागः अस्ति । चीना-जापानदेशयोः वस्तूनां विभागः अपरः अस्ति । तत्र काचकैः काष्ठैः च निर्मितानि वस्तूनि पीठोपकरणानि आकर्षकाणि सन्ति। घटीयन्त्राणां एव कश्चन विभागः अत्र अस्ति । अत्रत्यं ब्राकेट् क्लाक् अतीव जनप्रियम् अस्ति । अत्र वस्तुसङ्ग्रहालये मूर्तिशिल्पानि बालानां क्रीडनकानि नग्नशिल्पानि शस्त्रास्त्राणि हस्तप्रतयः काष्ठशिल्पानि अतीव आनन्दम् जनयन्ति । वस्तुसङ्ग्रहालयस्य शुक्रवासरे विरामः अस्ति ।

सालार् जङ्ग वस्तुसङ्ग्रहालयः