साहाय्यसम्भाषणम्:देवनागरीलिप्या कथं लेखनीयम्?

Latest comment: ३ वर्ष पहले by Mishra Biswakalpita in topic दर्शनशास्त्र

जल वायु प्रदुषन इति विषयं अधिकृत्य चित्र मध्यमेन प्रस्तुतिः | छात्रः दश वाक्यानां निर्माणं करिष्यन्ति

उपरिस्थं वाक्यम् अशुद्धं वर्तते । शुद्धिः आवश्यकी ।

अस्य शीर्षकं साहाय्यम् इति भवेत् न तु सहाय्यम् इति । अतः अत्र परिवर्तनम् आवश्यकम् । अत्र पश्यतु ।

http://spokensanskrit.de/index.php?script=HK&beginning=0+&tinput=%E0%A4%B8%E0%A4%B9%E0%A4%BE%E0%A4%AF%E0%A5%8D%E0%A4%AF%E0%A4%AE%E0%A5%8D+&trans=Translate&direction=AU

अत्र help लिखित्वा पश्यतु ।

http://www.sanskrit-lexicon.uni-koeln.de/aequery/index.html

शीर्षकमेव शुद्धं करणीयम् इति न्यायसङ्गतं न तु पुनर्निर्देशनं न्यायसङ्गतम् । -ले, NehalDaveND १४:५२, १८ मार्च २०१४ (UTC)

विजयदशमी

सम्पादयतु

भारतदेशे नेपालदेशे च शरदे नवरात्रे देव्याः पूजनं लोके प्रचलितमस्ति । केचन देवीं स्वगृहे एव पूजयन्ति । केचन देवीं पूजयितुं मन्दिरं गच्छन्ति । नवरात्रे पूजितायाः देव्याः निर्माल्यस्य वितरणं दशम्यां भवति । दशम्याम् अवरे जनाः मान्येभ्यो जनेभ्यो देव्याः निर्माल्यं स्वीकुर्वन्ति । तत्र मान्यजना देव्याः घटस्य जलेन अवरान् जनानभिषिच्य देव्याःपूजने प्रयुक्तस्य चन्दनस्य शेषेण तेषां ललाटे तिलकं धारयित्वा दध्यक्षताः अपि तत्राऽऽरोप्य तेषां दक्षिणकर्णस्योपरि यवाङ्कुरानपि स्थापयित्वा तानाशीर्भिरभिः अनुगृह्णनति । तत्राऽशीर्वचनरूपेण एतत् पद्यं पठन्ति -

आयुर् द्रोणसुते श्रियो दशरथे शत्रुक्षयो राघवे

ऐश्वर्यं नहुषे गतिश्च पवने मानश्च दुर्योधने ।

शौर्यं शान्तनवे बलं हलधरे सत्यं च कुन्तीसुते

विज्ञानं विदुरे भवन्तु भवतां कीर्तिश्च नारायणे ॥ इति ।

गृहे देव्याः पूजने शुक्लपक्षस्य प्रतिपदि (नवरात्रस्य प्रथमे दिने ) गृहे घटस्थापना क्रियते । पूजकाः तदा एव देवीवेदिकायां यथाविधि यवारोपणं कुर्वन्ति । ततः प्रभृति नवरात्रपर्यन्तं प्रतिदिनं सायम्प्रातः देवीं पूजयित्वा दुर्गाकवचादियुतायाः सप्तशत्याः पठनमपि कुर्वन्ति । यथाशक्ति यथयारुच्यं च-महिष-कूष्माण्डादिबलिं च देव्यै समर्पयन्ति । गृहेगृहे यथाशक्ति देवीनैवेद्याय मिष्टान्नानि पच्यन्ते । देव्यै निवेदितानि तानि मिष्टान्नानि सर्वैः खाद्यन्ते । मिष्टान्नानि खादित्वा बालका मोदन्ते । सर्वे बालका बालिकाः च प्रसन्ना भूत्वा दोलया खेलन्ति च ।

पूरा दाशरथी रामो लङ्काधिपतिं रावणं विजेतुम् आश्विनशुक्लदशम्यां प्रस्थितवान् आसीदिति देवीभागवते कथा वर्तते ।

अस्मिन् समये क्वचित् रामलीलाभिनयस्यायोजनमपि भवति । रामलीलाभिनयं दृष्ट्वा सर्वे जनाः प्रसन्ना भवन्ति ।

विजयादशम्या आगमनात् पूर्वमेव जनाः तदर्थं सामग्रीणाम् उपकल्पने मग्नाः भवन्ति । अजानां मेषाणां च क्रयाय विक्रयाय च विपण्यः स्थानेस्थाने आयोज्यन्ते । अजपालकाः विक्रेतुमजान् विपणिं नयन्ति । क्रेतारो विपणिं गत्वा सम्यक् परीक्ष्य यथाशक्ति हृष्टं पुष्टं सुन्दरमजं क्रीत्वा आनयन्ति । केचन मनुष्याः तु विजयादशम्यै इति मत्वा स्वगृहे एव अजं पालयन्ति । आसन्नायां विजयादशम्यां युवकाः दोलां निर्मातुं संलग्ना भवन्ति । तेषु केचन वंशं कर्तयित्वानयन्ति । अन्ये केचन खनित्वा वंशानुच्छ्राययन्ति । अन्ये दीर्घां महतीं रज्जुं सज्जीकुर्वन्ति । अपरे रज्जुं यथाविधि काष्ठे प्रोल्लम्ब्य दोलां निष्पन्नां कुर्वन्ति । सर्वे सोत्साहा भूत्वा स्वंस्वं कर्म कुर्वन्ति । विजयादशम्यां वृद्धा अपि प्रेङ्खामारुह्य धरित्रीं क्ष्वेदितुमिच्छन्ति ।

ग्रामे गृहिण्यः स्वगृहस्य परिमार्जनं कुर्वन्ति । श्वेतमृत्तिकया गृहं लिम्पन्ति च । जालानि सालनिर्यासकालिकया लिप्त्वा सुशोभयन्ति । गृहिणीनां साहाय्यं कर्तुमन्ये गृह्याः अपि संलग्नाः भवन्ति । नगरे सौधमुपलेप्तुं कर्मकरा आहूयन्ते । ते निःश्रेणिकामारुह्य गृहस्य भित्तौ उपर्युपर्यपि सम्यक् सुधालेपनं कुर्वन्ति । विजयादशम्यां संस्कृतानि सर्वेषां गृहाणि सुन्दराणि दृश्यन्ते ।

केचन बालकाः पतङ्गकानुड्डाययितुं गृहशिखरमारोहन्ति । बालकाः प्रतिस्पर्धिनोऽन्यस्य बालकस्य पतङ्गकं कर्तितुमिच्छन्ति । यः कर्तितुं शक्नोति, स विजयी मन्यते । यस्य पतङ्गकः कृन्तो भवति स पराजितो मन्यते । के चनाऽन्यस्य पतङ्गकं कर्तितुं स्वस्य तन्तुं संस्कुर्वन्ति । केचन बालका विचित्रैः पतङ्गकैः व्यावृतम् आकाशं प्रेक्ष्यैव प्रसन्ना भवन्ति ।

एवं विजयादशम्यां भारतदेशे नेपालदेशे च सर्वत्र रामणीयकं भवति ॥ गौरव झा (चर्चा) ०३:४२, १ जुलै २०२१ (UTC)उत्तर दें

दर्शनशास्त्र

सम्पादयतु

महिलाभ्यः शैक्षिकावसराः

“नास्ति विद्यासमं चक्षु नास्ति मातासमो गुरु।।”

न केवलं भारतीयसंविधाने ऋग्वेदे तथा अथर्ववेदे अपि विदुषी-महिलानाम् विषये वर्णनं परिलक्षते । स्वातन्त्र्योत्तर शिक्षायाः विचारे प्रथमं सोपानं नाम शिक्षा सम्बन्ध अनेक विचारयुक्तस्य भारतीयसंविधानस्य जन्म डॉ . अम्बेडकर प्रभृतिभिः बलिष्ठस्य नवभारतस्य निर्माणम् १९५० ई.वर्षे जनवरी २६ दिने बभूव । १५ अगस्तमास १९४७ ई.वर्षे स्वतन्त्रता प्राप्तौ अनन्तरम् यथा १९५० ई.वर्षे संविधान अभवत् तदा स्त्रीणां समानता अधिकार उपरि ध्यानं दत्तम् ।

        समाजस्य विकासे न केवलं पुरुषाणां एवं योगदानं भवति अपितु स्त्रीणां अपि योगदानं महत्त्वपूर्णं वर्तते । अतः पुरुषाणाम् इव स्त्रीणां अपि समशैक्षिक अवसरः शिक्षायाम् भवेत् । भारतीय संविधानस्य पंचदश(१५) अनुच्छेदानुसारं राज्यस्य कस्यचिदपि नागरिकस्य विरुद्धे केवलं धर्मः, जाति, लिंग, जन्मस्थानम् कस्यचिदपि आधारेण भेदभावः नैव क्रियते । संविधान नियमेषु १५(१)(३) धारा स्पष्टयति यत् महिलानाम् बालिकानाम् कृते च राज्यं विशेषरूपेण शिक्षा-व्यवस्थायाम् , सुरक्षायाम् , सौविध्य प्रदाने च ध्यानं दद्यात् इति । महिलानाम् सौविध्य विषये विचारान् संविधानं १०(२) , ३९(क) ४२ इत्यादिषु विधिनियमेषु स्पष्टिकरोति । 

महिलानां कृते शैक्षिकावराः —

महिलानाम् कृते समशैक्षिकावसर विषये सर्वकारस्य वहुविधप्रयासाः वर्तन्ते । तद्यथा–

निःशुल्क शिक्षाव्यवस्था

छात्रावास व्यवस्था स्वतन्त्रनियमस्य व्यवस्था पृथक् विद्यालयव्यवस्था छात्रवृत्ति व्यवस्था विशेष पाठ्यक्रमस्य व्यवस्था उद्योगावसरः महिलावर्ग व्यवस्था

राधाकृष्णन आयोगेन :– 

१९४८ ई.वर्षे संगठित राधाकृष्णन आयोगेन शिक्षा सम्बन्धित अनेकाः सुचनाः दत्तम् । तन्मध्ये प्रमुखं वर्तते - स्त्रीणां कृते उत्कृष्ट शैक्षिक अवसराः कर्त्तव्यम् , वालिकानां कृते तासाम् रुचि तथा आवश्यकतानुसारं पाठ्यक्रम निर्माण भवेत् एवं शैक्षिक व्यवसायिक क्षेत्रे च औचित्य व्यवस्था कर्त्तव्यम् ।

मुदलियार आयोगेन :– 

माध्यमिक शिक्षा आयोग / मुदलियार आयोगेन (१९५२-१९५३) स्त्रीशिक्षा निमित्तं वहुसूचना परिलक्ष्यते यथा - बालिकानाम् कृते गृह-विज्ञानं शिक्षायै आवश्यकतानुसारं विशेष तथा स्वतन्त्र विद्यालयस्य निर्माण भवेत् ।

★ राष्ट्रीयशिक्षानित्या स्त्रीशिक्षायै वहुपरामर्शाः प्रदत्ताः । तत्र प्रमुखाः यथा - स्त्रीणां निरक्षरता , तन्निष्ठविघ्नान् च दूरीकर्तुं समयबद्ध लक्ष्यनिर्धारित कार्यक्रमः आदि , एदतर्थं प्राथमिकशिक्षायै प्राथम्यं दद्यात् । व्यवसायिक - प्राविधिक - औद्योगिक - शिक्षासु स्त्रियः यथाः भागं गृह्णीयुः तथाविधः प्रयासः विधेयः । लैंगिकसमानतानीतिम् अवलम्व्य व्यवसायिक - औद्योगिक-पाठ्यक्रमयोः विभेदान् दूरीकृत्य अपारम्पर्यवृत्तिषु , वर्तमानवश्यक प्रविधिषु अपि भागग्रहणाय स्त्रियः प्रोत्साहनीयाः इति ।


राष्ट्रीय-महिला-शिक्षा-समिति :–

१९५८ ई.वर्षेभारतसर्वकारः श्रीमती दुर्गावाई देशमुखस्य अध्यक्षतायाम् राष्ट्रीय-महिला-शिक्षा-समितेःसंगठनं अकरोत् । यत् दुर्गावाई देशमुख समिति नाम्ना अपि सर्वे जानन्ति । अस्याः समित्याः प्रमुखं कार्यं वर्तते स्त्रीशिक्षा सम्बन्धित समास्यानाम् अध्ययनं तथा समाधानों निमित्तं सुचना प्रदानं ।

दुर्गावाई देशमुख समितेः प्रमुख सुचना: 

भारत सर्वकारः स्त्रीशिक्षा उपरि विशेष समस्या रूपेण चिन्तयित्वा तस्या प्रसारं करणीयम् । भारत सर्वकारः निश्चित अवधि अन्तर्गतं निश्चित योजनायाः अनुरुपं स्त्रीशिक्षायाः विकासः तथा विस्तारः कर्तव्यम् । ग्रामिण क्षेत्रे स्त्रीशिक्षायाः प्रसारः निमित्तं विशेष प्रयासं करणीयम् । शिक्षायाम् विद्यमान पुरुषः तथा स्त्रीणां अन्तरं उपरि ध्यानं दातव्यम् । स्त्रीशिक्षायः प्रसार निमित्तं बालिका एवं स्त्रीशाशिक्षायाः राज्य परिषदानाम् संगठनं कर्त्तव्यं ।

राष्ट्रीय महिला शिक्षा परिषद (१९५९) :–

देशमुख समितेः प्रतिवेदनं स्वीकृत्य केन्द्रीय-शिक्षा- मंत्रालय १९५९ तमे वर्षे “राष्ट्रीय महिला शिक्षा परिषदस्य निर्माणं अकरोत् । परिषदस्य कार्याणि यथा - विद्यालय स्तरे बालिकानाम् तथा प्रौढ स्त्रीणां शिक्षा सम्बन्धित समस्यानाम् उपरि सर्वकारम् परामर्शं प्रदानं । बालिकानाम् तरथा स्त्रीणां शौक्षिक पक्षे जनमत निर्मायितुं उपायाः दातव्यम् । उक्त शिक्षासम्बन्धित समस्यानाम् विचार कर्तुं समये समये आवश्यकतानुसारं अनुसंधान एवं विचारगोष्ठिनां आयोजनों करणीयम् ।

हंसा मेहता समिति ,१९६२ :–

१९६२ ई.वर्षे श्रीमती हंसा मेहतायाः अध्यक्षताम् राष्ट्रीय स्त्रीशिक्षा परिषदेन एतत् समिति नियुक्तं । अस्याः समित्याः उद्देश्यं वर्तते - नारी शिक्षायां व्यवसायिक पाठ्यक्रम समावेशः भवेत् । अध्यापिकानाम् नियुक्तः प्राचुर्यम् भवेत् । महिलानां कृते पुरुषाणां इव समशिक्षा व्यवस्था करणीयम् । महिलानां रुच्यानुसारं संगीत, काव्य , ललितकला आदि विषयाणं चयनं सुयोगं प्रदातव्यं ।

विश्वविद्यालय आयोगानुसारं :–

नारीणां कृते शैक्षिक सौविध्यानाम् विस्तारं करणीयम् । पुरुषाणां महाविद्यालयेषु अपि नारी शिक्षायाः कृते प्रकल्पनं भवेत् । महिला शिक्षिकानां कृते पुरुष शिक्षकाणां समकक्ष वेतन व्यवस्था भवेत् । १३-१८ वर्षीय वालिकानाम् कृते स्वतन्त्र विद्यालय व्यवस्था भवेत् ।

कोठारी शिक्षानित्यानुसारं :–

प्राथमिकताधारेण नारीशिक्षायाः कृते अनुदानं व्यवस्था भवेत् । बालक-बालिकानाम् कृते स्वीकृत शिक्षा प्रभेदस्य दुरिकरणं सम्भव भवेत् । नारीणां कृते रोजगार प्रदातुं विशेष प्रशिक्षण व्यवस्था प्रकल्पनीयाः ।

प्राथमिक शिक्षा सम्बन्धित :–

बालिकानाम् अनिवार्यतः शिक्षा निमित्तं प्रयासं करणीयम्। बालिकानाम् बालकविद्यालयम् प्रेषयितुं जनमत निर्माणं । उच्च-प्राथमिक स्तरे बालिकानाम् कृते स्वतन्त्र विद्यालयस्य उद्घाटनं । बालिकानाम् कृते स्वतन्त्र पुस्तकानि , लेखन सामग्री तथा वस्त्रं प्रदाय शिक्षाम् प्राप्त्यार्थं प्रोत्साहनीयम् ।

१९८६ राष्ट्रीयशिक्षानित्यानुसारं :–

राष्ट्रीय शिक्षा पद्धतिषु स्त्रीणां सशक्तिकरणाय बलम् प्रदेयम् । स्त्रीणां प्रतिष्ठायाः परिवर्तनाय अभिकर्तारुपेण शिक्षायाः उपयोगः अवश्यम् एव करणीयम् । पुनः अभिकल्पित पाठ्यचर्याभिः पाठ्य पुस्तकैः शिक्षक प्रशासकानां नविकरणं पाठ्यक्रमैः शैक्षिकसंस्थानाम् सक्रिय नारी शिक्षायाः प्रसाराय बलं प्रदातव्यम् । Mishra Biswakalpita (चर्चा) ०८:३६, १२ जुलै २०२१ (UTC)उत्तर दें

पृष्ठ "देवनागरीलिप्या कथं लेखनीयम्?" पर वापस जाएँ।