सुग्रीवस्य जन्म

सम्पादयतु

सूर्यपुत्रः सुग्रीवः कश्चन वानरश्रेष्ठ:। तारनामकस्य राज्ञ्यः पुत्री रुमा सुग्रीवस्य पत्नी । वाली सुग्रीवस्य अग्रजः । एकदा कपिराजः ऋक्षराज: एकस्मिन् सरसि स्नात्वा स्त्रीरूपं प्राप्तवान् । तत् दृष्ट्वा तस्मिन् स्त्रीरूपे सूर्यः इन्द्रश्च अनुरक्तौ । सूर्यात् सुग्रीवः, इन्द्रात् वाली च जन्म प्राप्तवान् । कपिराजत्वेन सुग्रीव: रामस्या भार्यायां सीताम् राक्षसराजस्य रावणस्य बंधनात् मुक्तिम् कर्तुं साहायं‌ कृतवान् ।

किस्किन्दातः निर्वासनानन्तरं सुग्रीवः ऋषियुमुख इति पर्वतस्य निवासं प्रारभत । पृथिव्यां एतत् एकमेव स्थानम् आसीत् यत्र बलिः प्राप्तुं न शक्नोति स्म ।

प्रव्रजने सुग्रीव: विष्णो: अवतारस्य: रामं परिचयं कृतवान्। य: सहभार्या: सीतां राक्षस: राजस्यरावणस्य मुक्तं प्रयंतम् क्रतुं प्रयतते ।राम: सुग्रीवम् प्रतिज्ञातवान् यत् स: वालि हत्वा: सुग्रीव: वानाराज्य: पुन: स्थापश्यामी: इति। सुग्रीव: तु रामस्य: अन्वेष्णे सहायम् कृतु्ं प्रतिज्ञात्वान्

वालीसुग्रीवयोः कलहः

सम्पादयतु

एकदा मायावीनामकराक्षसेन सह वाली एकस्यां गुहायां युद्धं कुर्वाण: आसीत् । गुहातः रक्तप्रवाह आरब्धः। अग्रजः वाली स्वर्गस्थोऽभवदिति मत्वा सुग्रीवः तस्य उत्तरकर्म समासाद्य सिंहासनमधिरूढः । कतिपयदिनानन्तरं गुहातः बहिरागत्य सिंहासने उपविष्टं सुग्रीवं दृष्ट्वा कुपितः वाली अनुजेन सह युद्धमकरोत् । भयेन पलायितः सुग्रीवः ऋष्यमूकपर्वतमगच्छत् ।

श्रीरामसन्दर्शनम्

सम्पादयतु
 
राम लक्ष्मणाभ्यां सह सुग्रीवः


रावणेन अपहृतां सीतामन्विष्यन् यदा श्रीरामः ऋष्यमूकपर्वतमागतवान् तदा सुग्रीवस्य मैत्री अभवत्।सुग्रीवसाहाय्येन सीताशोध: आरब्धः । हनूमता यदा लङ्कायां सीता दृष्टा तदा सुग्रीवसेना समुद्रस्य सेतुबन्धनं कृत्वा लङ्कां प्रविष्टवती। रावणकुम्भकर्णाभ्यां सह सुग्रीवः युद्धं कृतवान् । श्रीरामसाहाय्येन अग्रजं वालिनं हतवान् ।

रीरामस्य निर्गमनानन्तरम् अग्रजस्य पुत्राय अङ्गदाय किष्किन्धायां राज्याभिषेकं कृत्वा स्वयं दिव्यदेहधारी सन् सद्गतिं प्राप्तवान् ।

देवीभागवते सुग्रीवः

सम्पादयतु

अयं शुम्भनिशुम्भनामकयोः दैत्ययोः दूतः । त्रिपुरसुन्दर्यां देव्यामनुरक्तौ दैत्यौ एनं सुग्रीवं दूतरूपेण देव्याः समीपं प्रेषितवन्तौ आस्ताम्।


"https://sa.wikipedia.org/w/index.php?title=सुग्रीवः&oldid=484424" इत्यस्माद् प्रतिप्राप्तम्