इदं सुदाबसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । सामान्यतया इदं सस्यं वाटिकासु वर्धते । अस्य सस्यस्य कश्चन तीक्ष्णः गन्धः भवति । तस्मात् कारणात् सर्पाः गृहसमीपं न आगच्छन्ति इति भारतीयानाम् अनुभवः । अस्मिन् “मिथैल् नोनैल् कीटोन्” नामकः अंशः भवति । सः एव अंशः तस्य तीक्ष्णस्य गन्धस्य कारणीभूतः । अस्य सस्यस्य पर्णं रसः च औषधत्वेन उपयुज्यते ।

Common Rue
Common Rue in flower
Common Rue in flower
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Sapindales
कुलम् Rutaceae
वंशः Ruta
जातिः R. graveolens
द्विपदनाम
Ruta graveolens
L.
foliage
Ruta graveolens

इतरभाषाभिः अस्य सुदाबसस्यस्य नामानि

सम्पादयतु

अस्य सुदाबसस्यस्य वैज्ञानिकं नाम अस्ति Ruta Graveolens इति । इदं सस्यं हिन्दीभाषया “सिताब” इति, तेलुगुभाषया “सदपक” इति, तमिळ्भाषायाम् “अर्वद” इति, मलयाळभाषया “अरुत” इति कन्नडभाषया “नागदाळि” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य सुदाबसस्यस्य प्रयोजनानि

सम्पादयतु

अस्य सुदाबस्य रसः तिक्तः । इदम् उष्णवीर्ययुक्तम् । अस्य गुणः लघु तीक्ष्णः च ।

१. इदं सुदाबसस्यम् उदरवेदनां निवारयति ।
२. समानप्रमाणेन अस्य सुदाबस्य रसं, तुलसीरसं च योजयित्वा मधुना सह प्रातःकाले सेवनेन कासः श्वासरोगः च अपगच्छति ।
३. अस्य पर्णानि उद्घर्ष्य मद्येन सह लेपनेन प्राथमिकस्तरे विद्यमानः पार्श्ववायुरोगः अपगच्छति ।
४. अस्य शुष्कानां पर्णानां सेवनेन अरुचिः निवारिता भवति, रुचिः वर्धते ।
५. ज्वरावसरे अस्य रसः मधुना सह पौनःपुन्येन सेवनीयः ।
६. इदं “चाय”रूपेण सेव्यते चेत् शरीरे विद्यमानम् अधिकं कफं बहिः निस्सारयति । तेन कफजन्याः कासः, कण्डूयनम् इत्यादयः रोगाः परिहृताः भवन्ति ।
"https://sa.wikipedia.org/w/index.php?title=सुदाबसस्यम्&oldid=396077" इत्यस्माद् प्रतिप्राप्तम्