लोके भवन्ति महान्तः ये ऋज्वर्थग्रहणैकदृष्ट्या प्रपञ्चं आलोकयन्ति । कार्यस्यास्य अभिव्यक्तिः मौल्यनिष्ठवस्तुवर्णनहेतुत्वात् वाग्रूपं आप्नोति । सुभाषितम् नाम सुष्ठु प्रोक्तं वचनम् । सम्स्कृतवाङ्मये सुभाषितानि बहुशः छन्दोबद्धानि । एतानि पद्यानि स्वीयवर्णनचमत्कृतिद्वारा लोकसङ्ग्रहतत्वं बोधयन्ति । साम्यवैषम्ययोः चित्रं एका एव भित्तेः उपरि आलिख्य चिकित्सकमनोधर्मस्य आवश्यकतां भजन्ते । मानुषजीवनस्य वैशिष्ट्यं हृदयङमरीत्या निर्दिशन्ति । प्राप्तजन्मस्य साफल्यं कथं प्राप्नुयात् ? एतन्निमित्तं किम् अनिवार्यमिति मार्मिकरीत्या सूचयन्ति । विदुषां मुखात् आशुकवितारूपेण निस्सृत्य सर्वान् पण्डितपामरान् आह्लादयन्ति च । समयोचितवाग्विजृम्भणम्, समस्यापूरणम् - इत्यादीनि मार्गस्यास्य भिन्नगतयः ।

संस्कृतभाषायां बहवः सुभाषितसङ्रहग्रन्थाः अद्योपलभ्यन्ते । एतेषु प्रस्तुताः विषयाः बहूत्र एवं भवन्ति - सुभाषितप्रशंसा, कविकाव्यप्रशंसा, सम्सारविवरणम्, सज्जनः - दुर्जनः, सद्गुणः - दुर्गुणः, अज्ञानखण्डनम्, मूर्खनिन्दनम्, परतत्वविवेकः, स्वस्थानपरिज्ञानम्, राजनीतिः, धर्मः, वैराग्यम्, भक्तिः, मानुषप्रयत्नम् ... इत्यादीनि ।

'मुक्तकम्' इति व्यपदेशेन बोधप्रदमेकं पद्यं व्यवह्रियते । वेदवाङ्मयात् आरभ्य मन्वादि स्मृतिषु, अनेककवीनां काव्येषु, पुराणग्रन्थेषु, विविधशास्त्रग्रन्थेष्वपि मुक्तकानि दरीदृश्यन्ते । एतेषां ललितकोमलकान्तपदावलिः हृद्या अनवद्या च ।

उदाहरणानि -

१) विजेतव्या लङ्का चरणतरणीयो जलनिधिः ।
विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः ।
तथाप्येको रामः सकलमवधीद्राक्षसकुलं ।
क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥

भोजप्रबन्धात् उद्धृतं पद्यमेतत् मानुषप्रयत्नस्य मौल्यं प्रतिपादयति । स्वत्वपरिज्ञानं, सत्त्वपुरःसरजीवनस्य विविक्तवैशिष्ट्यं च भृशं निर्दिशति ।

२) न ध्यातं पदमीश्वरस्य विधिवन्निःश्रेयसावाप्तये ।
स्वर्गद्वारकपाटपाटनपटुः धर्मोऽपि नोपार्जितः ।
नरीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितम् ।
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥

शतककाव्येषु भर्तृहरेः वैराग्यशतकम् अत्यमोघकाव्यम् । अयं श्लोकः वैराग्यभावनाजन्येषु अन्यतमं आत्मखण्डनं कठोरवस्तुस्थितिसंनिदर्शनद्वारा सूचयति ।

३) शास्त्रं स्वधीतमपि तत्परिचिन्तनीयं ।
प्रीतो नृपोऽपि सततं परिसेवनीयः ।
अङ्के स्थिताऽपि तरुणी परिरक्षणीया ।
शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ॥

आजन्मविद्यारतिः, आजन्मसेवामनोभावः इत्यादीन् स्वात्मस्तरवर्धकाम्शान् एतत् सवैवरं वर्णयति ।

४) अयं निजः परो वेति गणना लघुचेतसां ।
उदारचरितानां तु वसुधैवकुटुम्बकम् ॥

भारतीयसंस्कृतेः बहुमुख्यांशः कः? इति प्रश्ने पृष्टे सति - स एव विश्वात्माभावमनोधर्मः इति झटिति स्फुरति । तदेव अंशं अयं प्रचुरश्लोकः प्रकटीकरोति ।

५) पुराणमित्येव न साधु सर्वं ।
न चापि काव्यं नवमित्यवद्यं ।
सन्तः परीक्ष्यान्यतरद्भजन्ते ।
मूढः परप्रत्ययनेयबुद्धिः ॥

निकषोपमबुद्धिः सम्पादनीया । स्वविवेकाध्ययनम् विना न कोपि अङ्गीकर्तव्यः इति पद्यस्यास्य भावः ।

६) उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः ।
दैवेन देयमिति का पुरुषा वदन्ति ।
दैवं विहत्य कुरु पौरुषमात्मशक्त्या ।
यत्ने कृते यदि न सिढ्यति कोत्र दोषः ॥

" कर्मण्येवाधिकारस्ते । मा फलेषु कदाचन " गीतावक्यस्यास्य उपबृंहणमेव अयं श्लोकः ।

७) सन्तः सदाभिगन्तव्या यदि नोपदिशन्त्यपि ।
यास्तु स्वैरकथास्तेषां उपदेशा भवन्ति ताः ॥

" ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति " इति वाक्यं स्फुटीकरोति पद्यमेतत् । विद्वद्रसिकानां जल्पनमपि उपदेश इव सप्रश्रयं गृह्णीयात् इति अस्य भावः ।

८) अक्षराणि परीक्ष्यन्तां अम्बराडम्बरेण किम् ।
शम्बुरम्बरहीनोपि सर्वज्ञः किं नु कथ्यते ॥

ऋज्वर्थग्रहणं श्रेयस्करम्। अत्र "Do not judge a book by its cover" - अस्य आङ्ग्लवचोविछित्तेः अर्थच्छायाऽपि दृश्यते।

९) दानाय लक्ष्मीः सुकृताय विद्या ।
चिन्ता परब्रह्मविनिश्चयाय ।
परोपकाराय वचांसि यस्य ।
वन्द्यस्त्रिलोकी तिलकः स एव ॥

सार्थकजीवनस्य आधारस्थम्भानि अत्र निर्मितानि सन्ति ।

१०) न मांसभक्षणे दोषः न मद्ये न च मैथुने ।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफल ॥

मनुस्मृतेः अयं श्लोकः सार्वकालीनः । " धर्माऽविरुद्धो भूतेषु कामोस्मि भरतर्षभ " - गीताचार्यस्य वचनमेतत् स्मृतिपटलं प्रत्यागच्छति |

"https://sa.wikipedia.org/w/index.php?title=सुभाषितानि&oldid=403343" इत्यस्माद् पुनः प्राप्तिः