सुमित्रा महाजन
सुमित्रा महाजन (११ अप्रैल १९४३) [१] भारतीयराजनेतृषु अन्यतमा विद्यते । अद्यत्वे भारतीयसंसदि लोकसभाध्यक्षा पदारूढा । इदं पदम् अलङ्कृतवत्योः महिलयोः अन्यतरा विद्यते, अपरा (मीरा कुमार २००९ तः २०१४) । सुमित्रा अष्टवारं संसत्सदस्यारूपेण (इन्दौर लोकसभा क्षेत्रे) चिता। सा इन्दौर नगरे सुमित्रा ताई इति नाम्ना प्रसिद्धा ।
Sumitra Mahajan सुमित्रा महाजन | |
---|---|
लोकसभा अध्यक्षा
भारतीयः संसदः | |
इन्दौर लोकसभाक्षेत्रस्य संसत्सदस्या | |
पूर्वगमः | प्रकाश चन्द्र सेठी |
व्यक्तिगत विचाराः | |
जननम् | ११/०४/१९४३ (वयः ७२) चिपलून, ब्रिटिशराज्यम् |
राजनैतिकपक्षः | भारतीयजनतापक्षः |
अन्यराजनैतिक- सम्बन्धः |
राष्ट्रीय जनतांत्रिक गठबंधन (भारतः) |
पतिः/पत्नी | जयन्त महाजन |
निवासः | इंदौर, मध्य प्रदेश |
मुख्यशिक्षणम् | देवी अहिल्या विश्वविद्यालयः |
सुमित्रा महाजन |
---|
सुमित्रा महाजन |
---|
बाल्यं, शिक्षा च
सम्पादयतु१९४३ तमस्य वर्षस्य अप्रैलमासस्य १२ दिनाङ्के महाराष्ट्रराज्यस्य चिपलूननगरे सुमित्रायाः जन्म अभवत् । सा स्नातकोत्तरा एल०एल०बि० (LLB) च इन्दौर-नगरस्थिते इन्दौरविश्वविद्यालये (वर्तमान देवी अहिल्या विश्वविद्यालये) अपठत् । पुस्तकवाचनं, सङ्गीतश्रवणं, गायनं, चलच्चित्रदर्शनं च तस्याः प्रमुखाः ऋचयः सन्ति ।
राजनैतिकजीवनम्
सम्पादयतुसा १९८९ तमे वर्षे मध्यप्रदेशराज्यस्य पूर्वमुख्यमन्त्री प्रकाश चन्द्र सेठी विरुद्धं प्रथमवारं लोकसभानिर्वाचनं जितवती । सुमित्रा महाजन इत्येषा केन्द्रियमन्त्रिमण्डले (२००२ - २००४) आसीत् । सा मानवसंसाधनमन्त्रित्वेन, सञ्चारविभागमन्त्रित्वेन, पेट्रोलियममन्त्रालयमन्त्रित्वेन च शपथग्रहणम् अकरोत् । सा लोकसभानिर्वाचने सदैव अपराजिता ।
लोकसभा अध्यक्षता
सम्पादयतु६ जून २०१४ तमे सा निर्विरोधं लोकसभाध्यक्षा चिता । प्रथमवारं भारतीयजनतापक्षस्य कोऽपि सांसदः लोकसभाध्यक्षः अभवत् ।