सुरपुरविधानसभाक्षेत्रम्


कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति रायचूरुलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति सुरपुरविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या ३६। सुरपुरविधानसभाक्षेत्रं मण्डलदृष्ट्या यादगिरिमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या रायचूरुलोकसभाक्षेत्रे अन्तर्भवति । एतत् क्षेत्रं परिशिष्टजनाङ्गीयानां(ST) कृते आरक्षितम् अस्ति । सुरपुरविषये अधिकविवरणार्थम् सुरपुरम् इति पृष्टम् पश्यन्तु ।