सूर्यनमस्काराः
- सरलभावेन दण्डायमानः भवतु ।
- करतलद्वयं नमस्कारमुद्रया संयोज्य वक्षस्थलस्योपरि स्थापयतु ।
- स्वाभाविकं श्वासं चालयतु ।
- नेत्रद्वयं पिधाय उदितसूर्यं ध्यात्वा श्लोकमुच्चारयतु ।
- ॐ हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
- तत्त्वं पूषन् आपावृणु सत्यधर्माय दृष्टये ।
एकम्
- हस्तद्वयमुपरि उत्थापयतु
- बाहुद्वयेन कर्णद्वयं स्पृशतु ।
- शनैः पूरकेण शरीरं पृष्ठदेशं प्रति स्वल्पम् अवनमयतु ।
द्वे
- रेचकेण शनैः शनैः मेरुदण्डं सरलीकृत्य शरीरं पुरतः अवनमयतु ।
- हस्तद्वयं पादौ च उभयतः भूमौ स्थापयतु ।
- मस्तकेन जानुद्वयं स्पृशतु ।
त्रीणि
- पूरकेण शनैः शनैः दक्षिणपादं पृष्ठदेशं प्रति प्रसारयतु ।
- वामजानुं पुटीकृत्य वक्षः स्थलं स्पृशतु ।
- ग्रीवां मस्तकं च ऊर्ध्वमुत्तोलयतु ।
- आकाशं पश्यतु
चत्वारि
- रेचकेण शनैः शनैः वामपादं दक्षिणपादेन सह समावस्थायां स्थापयतु ।
- करतलद्वयेन् सह, पादयोः अङ्गुष्ठद्वयेन सह च शरीरस्य भारसाम्यं स्थापयतु ।
- गुल्फतः आरभ्य मेरुदण्डं ग्रीवां च यावत् शरीरम् ऋजुतया स्थापयतु ।
- करतलयोः सम्मुखस्थाभूमौ दृष्टिं स्थापयतु ।
पञ्च
- जानुद्वयं भूमौ संलग्नं कृत्वा पूरकेण शनैः शनैः उदरं सक्थिनोः उपरि स्थापयतु ।
- गुल्फद्वयोः उपरि नितम्बं स्थापयतु ।
- स्कन्धं ग्रीवां च शिथिलीकृत्य मुखम् अधोमुखीभूय च रेचकेण मस्तकं भूमौ स्थापयतु ।
षट्
- पूरकेण जानुद्वयं, पादयोः अङ्गुष्ठद्वयं, वक्षः स्थलं च भूमौ स्पृष्ट्वा शयनं करोतु ।
- उदरं भूमौ न स्पृष्ट्वा नितम्बं स्वल्पमुत्थाप्य रेचकेण कपालं नासाग्रं च भूमौ स्थापयतु ।
- हस्तद्वयं वक्षः स्थलमुभयतः स्थापयतु ।
सप्त
- पूरकेण शनैः शनैः मस्तकमुत्थाप्य नाभितः शरीरमूर्ध्वमुत्थापयतु ।
- रेचकेणा वक्षः स्थलं पुरस्कृत्य ग्रीवां च ईषत् वक्रीकृत्य आकाशं पश्यतु ।
- समग्रशरीरस्य भारं हस्तयोः उपरि स्थापयतु ।
अष्टौ
- पूरकेण पूर्ववत् हस्तद्वयं पादद्वयं च भूमौ संस्थाप्य शरीरमूर्ध्वम् उत्थापयतु ।
- मस्तकं भूमौ संलग्नं करोतु ।
नव
- रेचकेण पञ्चावस्थावत् विश्रमतु ।
दश
- पूरकेण नवमावस्थातः दक्षिणपादं सम्मुखमानयतु ।
- दक्षिणोरु पुटीकृत्य जानुना वक्षः स्थलं स्पृष्ट्वा हस्तद्वयं दक्षिणपादमुभयतः स्थापयतु ।
- रेचकेण मुखम् उपरि कृत्वा आकाशं पश्यतु ।
एकादश
- पूरकेण दशमावस्थातः वामपादं सम्मुखमानयतु ।
- कटिदेशतः शरीरं सम्मुखमानीय हस्तद्वयेन पादद्वयं स्पृशतु ।
द्वादश
- शनैः शनैः रेचकेण शरीरमुत्थाप्य ऋजुतया दण्डायमानः भवतु ।
- हस्तद्वयेन वक्षः स्थलं स्पृष्ट्वा नमस्कारमुद्रया स्थिरः भवत् ।
मन्त्राः | चक्राणि | आसनम् | ||
---|---|---|---|---|
Seed | Salutation | |||
1 | ॐ ह्रां | ॐ मित्राय नमः | अनन्तचक्रम् | प्रणामासनम् |
2 | ॐ ह्रीं | ॐ रवये नमः | विशुद्धिचक्रम् | हस्तोत्थानासनम् |
3 | ॐ ह्रूं | ॐ सूर्याय नमः | स्वाधिष्ठानचक्रम् | हस्तपादासनम् |
4 | ॐ ह्रैं | ॐ भानवे नमः | आज्ञाचक्रम् | एकपादप्रसारणासनम् |
5 | ॐ ह्रौं | ॐ खगाय नमः | विशुद्धिचक्रम् | दण्डासनम् |
6 | ॐ ह्रः | ॐ पूष्णे नमः | मणिपुरचक्रम् | अष्टाङ्गनमस्कारासनम् |
7 | ॐ ह्रां) | ॐ हिरण्यगर्भाय नमः | स्वाधिष्ठानचक्रम् | भुजङ्गासनम् |
8 | ॐ मरीचये नमः | विशुद्धिचक्रम् | अधोमुखश्वानासनम् | |
9 | ॐ ह्रूं | ॐ आदित्याय नमः | आज्ञाचक्रम् | Ashwa Sanchalanasana |
10 | ॐ ह्रैं | ॐ सवित्रे नमः | स्वाधिष्ठानचक्रम् | उत्थानासनम् |
11 | ह्रौं | ॐ अर्काय नमः | विशुद्धिचक्रम् | हस्तोत्थानासनम् |
12 | ॐ ह्रः | ॐ भास्कराय नमः | अनन्तचक्रम् | प्रणामासनम् |
13 | (ॐ श्रीसवित्रसूर्यनारायणाय नमः) | अनन्तचक्रम् | प्रणामासनम् |
- आदित्यस्य नमस्कारन् ये कुर्वन्ति दिने दिने ।
- आयुः प्रज्ञा बलम् वीर्यम् तेजस्तेशान् च जायते ॥
बाह्यसम्पर्कतन्तुः
सम्पादयतु- Surya namaskara, A Technique of Solar Vitalization, Swami Satyananda Saraswati, ISBN 81-85787-35-2.
- Suryanamaskara, Sri K. Pattabhi Jois, New York: Ashtanga Yoga New York, 2005.
- Yoga in Modern India, Joseph S. Alter, Princeton University Press, 2004.
- Ten Point Way to Health, Rajah of Aundh, J.M. Dent & Sons, 1938
- A wiki article on wikihow:How to Do the Sun Salute