आर्थिकनीतौ ये परिवर्तनानि नीतिकाराणाम् उद्धेशपूर्वकं कार्यम् अक्रियमाणेन एव प्रसरतीम् आर्थिकव्यवस्थाम् उत्थापयन्ति अथवा विस्तारयतीम् अर्थव्यवस्थां मन्दीकुर्वन्ति तानि परिवर्तनानि स्वचलितस्थिरकरा:(Automatic Stabilizer[Stabilizer]) इति कथ्यन्ते | एते स्वचलितस्थिरकरा: स्वाभाविका: आघातप्रचूषका: यै: आदायमौल्यादिषु भविष्यमाना: अभिसम्प्लवा: अल्प्यन्ते |

स्वचलितस्थिरकराणाम् चित्रात्मक प्रस्तुति:

आयकर: सम्पादयतु

ईदृशस्य स्वचलितस्थिरकराणाम् एकम् उदाहरणं प्रगतिपर: आयकर:| अयं कर: अधिकं आदायं प्राप्नुवन्तान् नागरिकान् अधिकम् अंशभागं करान्दापयति | ईदृशी करव्यवस्था भारते अपि प्रचलती अस्ति | यदा अर्थव्यवस्था विस्तारयती अस्ति तदा लोकानाम् आयोऽपि वर्धयन् भवति | एतदर्थं ते अधिकम् आयकरं संनीयन्ति | अनेन तेषां व्ययम् अल्पं भवेत् येन मौल्यवृद्धि:मन्दो भवति | विपर्ये यदा अर्थव्यवस्था प्रतिसरती अस्ति, आयक्षयकारणात् जना: अल्पम् आयकरं संनीयन्ति | अनेन अधिकं व्ययं कर्तुं साध्येते येन आर्थिकग्लानिं परिहर्तुं शक्यते |

सर्वकारकृतव्ययम् सम्पादयतु

स्वचलितस्थिरकराणाम् अन्यं उदाहरणं सर्वकारकृतम् अतिक्रमणं विशेषरूपे जनकल्याणार्थं कृतम् अतिक्रमणं यथा निरुद्योगतोपकारम् | विस्तारयत्यां अर्थव्यवस्थायां कार्मिका: सरलतया उद्योगं प्राप्यन्ति अत: सर्वकारदत्तं निरुद्योगतोपकारं स्वीकर्तुं अवश्यकता न वर्तते | अनेन सर्वकारकृतव्ययम् अधिकं नासीत् येन समग्रनियोग: स्थिरो भवति | विपरीते यदा आर्थिकस्थिति: निराशाकारिणी अस्ति तदा कार्मिका: उद्योगं प्राप्तुं वैषम्यम् अनुभवन्ति | एतदर्थं तै: सर्वकारदत्ता: निरुद्योगतोपकारा: अधिकमात्रे स्वीकृता: | एतेन सर्वकारकृतव्ययं अधिकं भवति प्रतितं समग्रनियोग: उत्तेजित: भवति |

सञ्चिका:Unemployment benefits.jpg
सर्वकारदत्तं निरुद्योगतोपकारं प्राप्तुम् जना: प्रतीक्षा कुर्वन्ति

ईदृशा: अंतर्गता: स्थिरकारका: पर्यालोचिताभि: प्रशसनप्रेशिताभि: अर्थनीतिभि: अतितरं यावत् प्रथम: तत्क्षणमेव प्रचलिता: भवन्ति द्वितियास्तु विलम्बेन संचालयन्त: भवन्ति | स्वचलितस्थिरकरा: अर्थशास्त्रतज्ञा: उत्तमं मन्यन्ते |

"https://sa.wikipedia.org/w/index.php?title=स्वचलिता:_स्थिरकरा:&oldid=457505" इत्यस्माद् प्रतिप्राप्तम्