सप्तस्वराः (Swara) सङ्गीते प्रसिद्धाः सन्ति । ते स्वराः तन्तुना उत कण्ठेन उत्पन्नाः भवन्ति। ते स्वराः भवन्ति, षड्ज, रिषभ, गान्धार, मध्यम, पञ्चम, धैवत, निषाद इति ।
निषादर्षभ गान्धार षड्ज मध्यम-धैवताः।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥ इति,
“सा रे ग म प ध नि” इति संक्षिप्तस्वरपद्धतिः प्रचलितम् अस्ति । एतेषु स्वरेषु षड्जपञ्चमौ अचलौ स्वरौ । अन्ये पञ्चस्वराः विकृतस्वराः भवन्ति । एतेषु कोमलस्वराः , शुद्धस्वराः इति विभागौ भवतः। आहत्य १२ स्वराः भवन्ति ।
स्वतो रञ्जयति श्रोतृचित्तं स स्वर उच्यते।
श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः॥
स्वतन्त्रतया श्रोतृवर्गं रञ्जयन्ति एते स्वराः । श्रुतिसहिताः भवन्ति चेत् ते स्वराः भवन्ति । एते स्वराः पशुपक्षिणां स्वरं अनुसरन्ति इति । अस्मिन् विषये कश्चनश्लोकोऽपि विद्यते । तद्यथा,
षड्जं मयूरो वदति गावस्तु वृषभभाषिणः।
अजाविकं तु गान्धारं क्रौञ्चः क्वणति मध्यमम्॥
पुष्पसाधारणे काले पिकः कूजति पञ्चमम्।
धैवतं हसते वाजी निषादं बृह्मते गजः।
मयूरादय एते हि मत्ताः गायन्ति पञ्चमम्॥

विभागाः संपादित करें

  • षड्जस्वरः

“जम्बूद्वीपस्थितो वीररसवान् वह्निगोत्रजः” प्रथमः स्वरः षड्जः भवति । अयं षड्जः स्वरः वीररसप्रतिपादकः भवति । अस्य आधारस्य उपरि अन्येषां षट् स्वराणां स्थानादीनि ज्ञायन्ते । अतः एव अस्य स्वरस्य षड्जः इति व्यवहारः। अन्येषां षट् स्वराणां मूलं षड्जः भवति । अपरिवर्तनीयः प्रकृतिस्वरः भवति । जम्बुद्वीपोद्भवः स्वरः भवति । वन्हिगोत्रजः भवति ।

  • ॠषभस्वरः

“शाकद्वीपस्थितश्चैव श्रिताद्भुतरसोत्तमः” अयं स्वरः अद्भुतरसस्य प्रतिपादकः भवति । अर्धजागृतस्वरः भवति । शाकद्वीपम् उत्पत्तिस्थलं भवति । यस्मिन् रागे "ॠषभस्वरः" वादि उत संवादिस्वरः भवति चेत् अयं स्वरः शक्तः भवति ।

  • गान्धरस्वरः

“कुषद्वीपी रौद्ररसः चन्द्रगोत्रसमन्वितः।”
अयं रौद्ररसप्रतिपादकः स्वरः भवति । कुशद्वीपे उत्पन्नः स्वरः भवति ।

  • मध्यमस्वरः

“क्रौञ्चद्वीपस्थितश्चैव बीभत्सरससंयुतः।“
अयं बीभत्सरसप्रतिपादकः स्वरः भवति। क्रौञ्चद्वीपे उत्पन्नः भवति। अयं स्वरः शक्तियुतं गम्भीरयुक्तञ्च भवति।

  • पञ्चमस्वरः

“भयानकरसः शम्भुगोत्रजो नक्रवाहनः।“
अयं भयानकरसप्रतिपादकः स्वरः भवति । अयं स्वरः षड्जस्य पत्नीव भाति । सर्वदा षड्जेन सह सामरस्येन मिलित्वा सप्तस्वराणां गृहाय प्रकाशोत्पादकौ भवतः ।

  • धैवतरसः

“श्वेतद्वीपस्थितो हास्यरसो नारदगोत्रजः।“ श्वेतद्वीपे उत्पन्नः स्वरः भवति । हास्यरसस्य प्रतिपादकः भवति ।

  • निषादस्वरः

“पुष्करद्वीपनिलयः शृङ्गाररसनायकः।“
पुष्करद्वीपे उत्पन्नः स्वरः भवति । शृङ्गाररसस्य प्रतिपादकः स्वरः भवति । सन्तोषवीररसयोः भावनयोः मिलितः स्वरः भवति ।

बाह्यसम्पर्कतन्तुः संपादित करें

"https://sa.wikipedia.org/w/index.php?title=स्वराः_(सङ्गीतम्)&oldid=469098" इत्यस्माद् प्रतिप्राप्तम्