प्रमुखा विकल्पसूचिः उद्घाट्यताम्
 Broom icon.svg  अस्य लेखस्य संशोधनम् अपेक्षते।.
लेखोऽयं विशोधयतु।


स्वामी दयानन्दसरस्वती महान् वेदवेत्ता, समाजपरिवर्तकः, आर्यसमाजस्य स्थापकः च । वैदेशिकैः आक्रान्ते भारतवर्षे सः सर्वप्रथमतः स्वतन्त्रतायाः आवश्यकताम् अवगतवान् । स्वातन्त्र्यस्य प्राप्त्यर्थं सः प्रयासम् आरब्धवान् । यदा भारते वेदानां विषये महत् अज्ञानम्, उपेक्षा, अन्यथा अर्थग्रहणं च आसीत्, तदा सः चतुर्णाम् अपि वेदानाम् बोधनं कृतवान् । विधवास्त्रीणाम् पुनर्विवाहः, गोरक्षणं, अग्निहोत्रस्य पुनरुज्जीवनम् इत्येतेषु विषयेषु तेन महान् प्रचारः कृतः । तस्य सत्यार्थप्रकाशः इति युगपरिवर्तके ग्रन्थे सः वर्तमानान् अनेकान् अन्धविश्वासान् समूलम् उत्पाटितवान् अस्ति । सः ऋषिभिः प्रणीतानाम् आर्षग्रन्थानां महत्त्वं प्रतिपादितवान् । अनार्षग्रन्थाः त्याज्याः यतो हि तेषाम् अध्ययनाय परिश्रमः अधिकः अपेक्षितः अस्ति परन्तु लाभः न्यूनः एव अस्ति इति तस्य दृढं मतम् आसीत् । अतः सः पाणिनेः अष्टाध्यायी, यास्कस्य निरुक्तं, दर्शनग्रन्थाः इत्यादीन् समर्थितवान्, न तु सिद्धान्तकौमुदीं, नवन्यायं वा । तस्मिन् संस्कृतविषये विशेषा प्रीतिः आसीत् । प्रायः तस्य प्रवचनानि सरलसंस्कृतेन एव भवति स्म । संस्कृताज्ञानिनः जनाः अपि तान् अवगन्तुं समर्थाः आसन्, सन्तोषम् अपि अनुभूतवन्तः । संस्कृतपठनपाठनविषये सः विशेषं प्रयत्नं कृतवान् । तस्य रक्षणार्थं, वेदानाम् अध्ययनस्य च रक्षणार्थं, सः अनेकान् गुरुकुलान् स्थापितवान् । व्याकरणस्य, सरलप्रयोगसंस्कृतस्य च सः अनेकानि पुस्तकानि स्वयं रचितवान् । तस्य प्रयासेन, न केवलं भारतवर्षे अपि तु समग्रे संसारे, अष्टाध्यायीपद्धत्या संस्कृतपठनपाठनं पुनरुज्जीवितम् अभवत्, तत्र न अतिशयोक्तिः ।

स्वामी दयानन्दसरस्वती
१८२४ तमे क्रिस्ताब्दे गुर्जरप्रदेशस्य सौराष्ट्रभागे टङ्काराग्रामे
जन्मतिथिः क्रि.श.१८२४ तमवर्षः,
जन्मस्थानम् टङ्काराग्रामः गुजरात्राज्यम् भारतम्
पूर्वाश्रमनाम मूलशङ्करः
तत्त्वचिन्तनम् वेदान्तः

बाल्यघटनासम्पाद्यताम्

आसीदिदं महाशिवरात्रेः पावनं पर्व । अथ प्रदोषकाले गुर्जरदेशवास्तव्यः मूलशङ्करो नाम कश्चिद बालकः शिवार्चनाय शिवालयम् उपागतः । शिवार्चनं कृत्वा प्रतिमायाः समीप एव जपतत्पराः स तत्रैव अतिष्ठत् । सहसा एका मूषिका देवमूर्तिम आरुह्य तत्रस्थं नैवएद्यं सुखेन अभक्षयत् । इदं विलोक्य स बालकः अचिन्तयत् "अहो ! का शक्तिः अस्य महादेवस्य यदयमिमां मूषिकामपि वारयितुं न शक्नोतीति ! " ततः स्वजनकम् उपगम्य मूलशंकरः इमां शकां तस्मै न्यवेदयत्, किन्तु तस्योस्तरेण् कथमपि सन्तोषम् नालभत । फ्लतः प्रतिमापूजनात् स विमुखो जातः किन्तु देवस्य वास्तविकं रुपं तु भूयोऽपि अचिन्तयत् । अन्यस्मिन्नहनि स शिवस्य वास्तविकं रुपं विज्ञातु सहसा गृहान्निष्क्रान्तः इतस्ततः परिभ्रमन् स मयुरानगरीम उपागमत । तत्र महर्षेः विरजानन्दस्य चरणयोः समुपविश्य स व्याकरणादीनि शास्त्राणि वेदांश्च सम्यग् अधीतवान् । अथ ब्रहमचर्यमाचरन् संयतेन्द्रियः पुष्टगात्रः विलक्शणो मेधावी च संजातः । गुरोः प्रसादांच्च स शिवस्य स्वरुपं विज्ञातवान् । शिष्यस्य लोकोत्तरां प्रतिभां विलोक्य महर्षिः विरजानन्दः तम् आशीर्भिः अभ्यनन्दयत् , आदिशच्च, "वत्स ! इतो गत्वा लोके सत्यस्य प्रचारम् आर्यजातेश्च समुद्धारं कुरु" इति । अनन्तरम् अयम् एव् बालकः महर्षिः दयानन्द इति नाम्ना विख्यातोऽभवत् । गुरोरादेशात् स लोके संस्कृतवाङ्मयस्य आर्यधर्मस्य च प्रसाराय अनेकान् ग्रन्थान् व्यरचयत् , येषु सत्यार्थप्रकाशः प्रमुखो ग्रन्थः । महर्षिः दयानन्दः वेदानां, पाणिनीयव्याकरणस्य च हिन्दीभाषायां व्याख्यानमकरोत् । एवं स निखिलेऽपि भारतवर्षे वैदिकवाङ्मयस्य आर्यध्र्मस्य च भूयोभू?यः प्रचारम् अकरोत् । अचिरादेव अनेके धनिकाः, महाराजाः, विद्वांसश्च तेन अतितरां प्रभाविताः अभवन् । महर्षिः दयानन्दः ततः परम् आर्यजातेः समुद्धाराय "आर्थसमाजस्य" संस्थापनकरोत् । अस्य प्रचाराय स नगरे-नगरे स्थाने-स्थाने च पर्यटत् । विधवानाम् अबलानां, दलितजातीनां च समुद्धाराय स सदैव प्रायतत् । स्वराज्यभावनापि अनेन महर्षिणा अस्मअकं हृदयेषु जागरिता । एवम् अस्य महर्षेः ख्यातिः प्रतिष्ठा च अनुदिनम् अवर्धत् । यद्यपि महर्षिः दयानन्दः पार्थिवशरीरेण अस्माकं मद्ये न् वोद्यते तथापि कीर्तिशरीरेण सोऽध्यापि जीवत्येव ।

जीवनविवरणम्सम्पाद्यताम्

सः १८२४ तमे क्रिस्ताब्दे गुर्जरप्रदेशस्य सौराष्ट्रभागे टङ्काराग्रामे जन्म लब्धवान् । तस्य पितुः नाम करसनजी लालजी तिवारिः आसीत् । सम्पन्नः कुलः आसीत् । तस्य बालनाम मूलशङ्करः । मेधावी बालकः सः संस्कृतव्याकरणं, वेदांशान् च शीघ्रं ज्ञातवान् । परिवारः शिवभक्तः आसीत् । यदा सः त्रयोदश वर्षीयः जातः तदा तस्य पिता महाशिवरात्रिपर्वणि तं शिवमन्दिरं नीतवान्, व्रतं च आचारितवान् । मध्यरात्रौ सर्वे सुप्ताः । परन्तु जागरितः मूलशङ्करः शिवमूर्तौ मूषकाणाम् उपद्रवं दृष्टवान् । तस्य दर्शनेन तस्मिन् विवेकः उत्पन्नः ।

मुख्यकृतयःसम्पाद्यताम्

  • सत्यार्थप्रकाशः
  • ऋग्वेदादिभाष्यभूमिका
  • ऋग्वेदस्य यजुर्वेदस्य च भाष्ये
  • चतुर्वेदविषयसूची
  • संस्कारविधिः
  • पञ्चमहायज्ञविधिः
  • आर्याभिविनयः
  • गोकरुणानिधिः
  • आर्योद्देश्यरत्नमाला
  • भ्रान्तिनिवारणम्
  • अष्टाध्यायीभाष्यम्
  • वेदा़ङ्गप्रकाशः
  • संस्कृतवाक्यप्रबोधः
  • व्यवहारभानुः