प्रमुखा विकल्पसूचिः उद्घाट्यताम्
सफलः हरितावृक्षः

पञ्च अग्निवृक्षेषु अन्यतमः अयं वृक्षः भारतीयसाम्पदाये पवित्रस्थानम् आप्नोति । यज्ञवृक्षः ब्रह्मवृक्षः इति अस्य नामान्तरम् । एशियाखण्डस्य बहुषु भागेषु अयं वृक्षः दृश्यते । फैकस् ग्लोमेरटा Ficus glomerata इति अस्य वैज्ञानिकं नाम । मोरेसि कुटुम्बेअ अयं वृक्षः अन्तर्गच्छति । विविधाभाषासु अस्य नामानि एवं भवन्ति ।

आङ्ग्लम् - कण्ट्री फिग् ट्री, । Country fig tree.
कन्नडम् - औदुम्बर, गुलाश, मेडि । ಔದುಂಬರ, ಗುಲಾಶ, ಮೇಡಿ ।
हिन्दी - गुलार, उमर ।
तमिळु - अदम्। அதம் ।
तेलुगु - ब्रह्ममेडि। బ్రహ్మమ్మేడి ।
मराठि - उंब्रा ।
मलयाळम् - जन्तुफलम् । ജംതുഫലമ് ।

उपयोगाःसम्पाद्यताम्

हरिताक्षवृक्षस्य वल्कलानां पत्राणां शलाटूनां मूलानां कषायम् आमशङ्कारोगे नियन्त्रणं साधयति । फलरसं मधुना सह खादनेन गर्भवतीनाम् अतिसारः नियन्त्रितः भवति । फलरसस्य काण्डरसस्य च पानेन मधुमेहस्य नियन्त्रणं भवति । फलभक्षणं पित्तहरि भवति । पेशलपत्राणि अथवा शालटून् घातयित्वा मधुना अथवा गुडेन सह खादति चेत् पित्थसम्बद्धरोगाः उपशान्ताः भवन्ति । अस्य मूलानि जले निमज्ज्य जलं पिबति चेत् शरीरं शीतलं करोति । त्वचः चूर्णं तिलतैलेन सह योजयित्वा प्राचिनस्य व्रणे लेपनेन कलङ्कः लीयते । त्वचः कषायं क्षतक्षालनार्थम् उपयोजयन्ति । वृक्षस्य काण्डात् निस्सरतः निर्यासः मूलव्याधेः अतिसारस्य निरोधकः । वृक्षस्य त्वचः प्राणिचर्मसंस्करणे उपयुज्यन्ते । निर्यासेन रब्बर् कागदं च उत्पादयन्ति । पेशलपत्राणि व्यञ्जने उपयोजयन्ति पशावः प्रीत्या खादन्ति च । अस्य फपानि सुन्दराणि पानकं कृत्वा जनाः पिबन्ति । अस्य काष्टं तु गृहनिर्माणे उपयुज्यते ।

"https://sa.wikipedia.org/w/index.php?title=हरिताक्षवृक्षः&oldid=358423" इत्यस्माद् पुनः प्राप्तिः