हलगूरस्थं भीमरन्ध्रम्


हलगूरस्थं भीमरन्ध्रम् (Halagur Bhimarandra)कर्णाटकस्य मण्ड्यमण्डलस्य मळवळ्ळीनामके उपमण्डले हलगूरुग्रामे विद्यते । ईशान्यदिशि चत्वारिकि.मी. दूरे १५मीटर् विशालयुक्तं १२मीटर् औनत्ययुतं च शिलया रचितम् उत्तरङ्गम् अस्ति एतत् । स्थानीकाः इदं ‘भीमन किण्डि’ (भीमरन्ध्रं) इति वदन्ति ।

भीमः सोदरैः सह दहतः लाक्षागृहतः एतेन द्वारेण एव बहिः गतवान् इति प्रतीतिः अस्ति ।

ग्रानैट् नैस् शैलसमूहे स्थितस्य एतस्य बृहतः रन्ध्रस्य द्वारा सूर्यकिरणानि प्रविश्य यत् गच्छन्ति तत् सुन्दरं दृश्यं कनकपुरमार्गे बेङ्गळूरुगमनसमये दूरतः एव द्रष्टुं शक्यते ।

अवघर्षणकारणतः प्रवहन्त्याः नद्याः पात्रे बहुविधानि रचनानि रूपितानि भवन्ति । यदि प्रवहन्त्याः नद्याः पुरतः शिलाः भवन्ति, प्रवाहस्य वेगः अधिकः अस्ति तर्हि नदी शिलां परितः न गच्छति अपि तु शिलायां रन्ध्रं कृत्वा गच्छति । तादृशेषु स्थानेषु बृहत्प्रमाणकाः उत्तरङ्गशिलाः भवन्ति । अमेरिकादेशस्य कोलरडोनद्याम् एतादृशानि द्वाराणि सन्ति ।

किन्तु हलगूरुग्रामे शिलायाः अवघर्षणेन एतद् उत्तरङ्गं रूपितम् अस्ति इति वैशिष्ट्यम् ।

ग्रानैट् नैस् शिलायां समतलछिद्राणि भूत्वा सः भागः पतितः इति कारणेन रन्ध्रः रूपितः अस्ति ।