हारीतस्मृतिरतीव संक्षिप्ता वर्त्तते । प्राचीनमानव समाजे प्रचलितस्य वर्णाश्रमधर्मस्य सक्लाः नियमाः कार्याकार्यव्यवस्थाश्च स्मृतावस्यां साङ्गोपाङ्गरुपेण हारीतमुनिना स्पष्टं वर्णिताः । वर्णाश्रमधर्मस्य पर्याये विहिता आवश्यकविषयाः यथा चतुर्णां वर्णानां कर्त्तव्यानि, संस्काराश्च गृहस्थाश्रमस्य नियमाः, वानप्रस्थजीवनस्य विधिविधानानि, सन्यासधर्मस्य नीतिनियमाः, तथाऽऽत्मोपलव्धये योगाभ्यासेन परमपदप्राप्त्यर्थं च् संक्षिप्ता नियमाः सर्वे स्पष्टं वर्णिताः सन्ति । एतत् सर्वस्य ज्ञानेन यस्य कस्यापि जिज्ञासोः हृदये वर्णाश्रमविषयकं मानमवश्यं द्रढीयो भविष्यति । हारीतस्य मतानुसारेण तपश्चर्याया विद्यायाश्च युगपदुभयात्मकं ज्ञानं लभमानस्य साधकस्य जीवनं नूनं सुखप्रदं निरामयञ्च स्यादिति स्पष्टं निरुपितमस्ति । यथा गगने डड्डीयमानस्य पक्षिणः पक्षद्वयेन प्रयोजनं नितान्तं भाव्यम् तथैव परमपदं कामयमानस्य साधकस्य लक्ष्यप्राप्त्यर्थं ज्ञानकर्मरुपिणा पक्षद्वयेन अवश्यं प्रयोजनमस्तीति तुलनात्मकधिया हारीतेन मुनिना सम्यक् प्रतिपादितम् ।

हारीतस्मृतौ सप्ताध्यायाः भवन्ति । तत्र प्रथमाध्याये वर्णाश्रम-धर्मवर्णना एकविंशति श्लोकैः कृता । द्वितीयाध्याये पञ्चदशश्लोकैः चतुर्णां वर्णानां धर्माः प्रतिपादिताः । तृतीयाध्यायेऽपि पञ्चदशभिः श्लोकैः ब्रह्मचर्याश्रमधर्माः प्रतिपादिताः । ततश्चतुर्थाध्याये गृहस्थाश्रमधर्मः सप्तसप्ततिश्लाकैः व्याख्यातः । तदन्तरं पञ्चमेऽध्याये दशभिः श्लोकैरेव वानप्रस्थाश्रमधर्मः षष्ठाध्याये च त्रयोविंशतिश्लोकैः संन्यासाश्रमधर्मः प्रतिपादितः । तदनु सप्तमेऽध्याये १९२ द्विनवत्युत्तरैकशतसंख्याकाः श्लोकाः सन्ति । तत्र हारीतमुनिना वर्णाश्रमादीनां धर्माणां महत्त्वं वर्णयितुकामेन प्रोक्तं यत्

ये वर्णाश्रमिधर्मस्थास्ते भक्ता केशवं प्रति ।
इति पूर्वं त्वया प्रोक्तं भूर्भुवस्वद्विजोत्तमाः ॥
कृष्णसारो मृगो यत्र स्वभावेन प्रवर्त्तते ।
तस्मिन् देशे वसेद् धर्मः सिद्धयति द्विजसत्तमाः ॥
उत्पन्नवैराग्यबलेन योगी ध्यायेत् परंब्रह्म सदा क्रियावान् ।
सत्यं सुखं रुपमनन्तमाद्यं विहाय देहं पदमेति विष्णोः ॥

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=हारीतस्मृतिः&oldid=481140" इत्यस्माद् प्रतिप्राप्तम्