आन्ध्रप्रदेशराज्ये चित्तूरुमण्डले एतत् गिरिधाम अस्ति । कडपाविभागस्य अधिकारी डब्ल्यू डि हार्सले अत्रे आगत्य ग्रीष्मसमये वसति स्म । क्रिस्ताब्दे १८७० तमे वर्षे अत्र भवनद्वयं निर्मितवान् । अतः तस्य एव नाम अस्य गिरिधाम्नः अस्ति । सागरस्तरतः १२५१ मीटर् उन्नते प्रदेशे नल्लमलपर्वतश्रेणिषु एतत् गिरिधाम अस्ति । अत्यन्तं शुद्धं वातावरणम् अत्र अस्ति । शीतलः वायुः शान्तं सुन्दरं वनम् उन्नतानि आकर्षकाणि पर्वतशिखराणि दर्शकानाम् आनन्ददायकानि भवन्ति । वसतिव्यवस्था अत्र उत्तमा अस्ति । समीपे ऋषिव्याली, गाळिबण्ड्लु गुद्र्कोण्ड इत्यादिस्थलेषु पादचारणं पक्षिवीक्षणं च कर्तुं शक्यते ।

Horsley Hills

हार्स्ले गिरिधाम
town
Country  भारतम्
State आन्ध्रप्रदेशः
Elevation
१,२९० m
Languages
 • Official तेलुगु
Time zone UTC+5:30 (IST)
हार्स्ले दरी

धूमशकटमार्गः सम्पादयतु

गुन्तकल-पाकालमार्गे वायलपाडुनिस्थानतः समीपे अस्ति ।

वाहनमार्गः सम्पादयतु

मदनपल्ली निस्थानतः २५ कि.मी । बेङ्गळूरुतः१५० कि.मी । तिरुपतितः १४० कि.मी ।

"https://sa.wikipedia.org/w/index.php?title=हार्स्ले_हिल्स्&oldid=408163" इत्यस्माद् प्रतिप्राप्तम्