एषः जलाशयः विश्वे एव अतिदीर्घः जलाशयः अस्ति । एशियाखण्डे महानदी इति ख्यातायाः महानद्याः जलबन्धस्य कारणात् जलाशयः निर्मितः अभवत् । विविधोद्देशयोजनया भारतसर्वकारेण निर्मितः जलबन्धः नवभारतनिर्माणाय उत्तमः अभवत् । अत्र सङ्गृहीतं जलं श्रीलङ्कादेशस्य विस्तारस्य समानम् अस्ति । जलबन्धाय व्ययीकृतं वज्रचूर्णमुपयुज्य काश्मीरतः कन्याकुमारीपर्यन्तं ८ मीटर् मार्गः निर्मातुं शक्यते स्म । अस्य जलाशयस्य विस्तारः ७४६ चतुरस्रकि.मी । जलबन्धः २१ कि.मी दीर्घः अस्ति । जलबन्धात् जलाशयदर्शन अतीवानन्दाय भवति । एषः जलबन्धः राष्ट्रनिर्माणाय कृतः अपूर्वः मानवनिर्मितः बहुपयोगी च अस्ति ।

हिराकुड् जलाशयः

वाहनमार्गः सम्पादयतु

सम्भलपुरतः १७ कि.मी

धूमशकटमार्गः सम्पादयतु

हिराकुड् समीपे धूमशकटनिस्थानमस्ति (१० कि.मी)

"https://sa.wikipedia.org/w/index.php?title=हिराकुड्_जलाशयः&oldid=408174" इत्यस्माद् प्रतिप्राप्तम्