हृदयाघातः
हृदयाघातः कश्चन हृद्रोगेषु अन्यतमः। रक्तप्रसरणे न्यूनता भवति चेत् हृदयस्य मांसखण्डाः क्षीयमाणाः भवन्ति । एतदेव हृदयाघातः इति कथयन्ति । ’करोनरि’ नामकेषु केशिकेषु एकम् केशिकम् पिहितं भवति चेत् हृदयाघातः भविष्यति । कस्मैश्चित् अपि, कदापि वा एषः रोगः आगच्छेत् । कार्ये, विश्रान्तिसमये, प्रयाणे, निद्रायाम्, भाषणसमये, आनन्दे च एषः रोगः आगच्छेत् (अस्य रोगस्य उत्पत्तिः भवेत्) । प्रातःकाले एषः रोगः आगच्छति इति संशोधनेन ज्ञातम् अस्ति ।
हृदयाघातस्य लक्षणानि
सम्पादयतुहृदयाघातस्य स्वरूपं बहुक्रूरं भवति । क्षणाभ्यन्तरे आगत्य जीवने वैपरीत्यमेव जनयति । तादृशः रोगः एषः । हृदयाघातसमये अनुभूयमानानि लक्षणानि एवं सन्ति,
- हृदयवेदना- हृदयस्य मध्यभागे वेदना आयाति । सा वेदना असहनीया भवति । हृदयभारः भवति अस्मिन् समये ।
- वामबाहौ, वाम उपपार्श्वे च अतीव वेदना आयाति । कदाचित् हनुभागे, पृष्ठे, वामहस्ते च वेदना आयाति ।
- स्वेदः अधिकतया आयाति ।
- अन्यानि लक्षणानि- पादयोः शैत्यं भवति । शिरोभ्रमणं भवति । नेत्रयोः अन्धकारः भवति । अधरौ नीलवर्णौ भवतः । अस्मिन् समये वमनं भवति । नाड्यः दुर्लभाः भवन्ति । श्वासोच्छ्वासे क्लेशः भवति ।
हृदयाघातस्य कारणानि
सम्पादयतुहृदयाघातस्य इदमेव कारणमिति संशोधकाः न निरूपितवन्तः । किन्तु हृदयाघातस्य कानिचन कारणानि उक्तानि सन्ति ।
अनिवार्यकारणानि
सम्पादयतु- वयः
- लिङ्गम्
- वंशे हृदयाघातस्य परम्परा ।
निवारयितुं शक्यानि कारणानि
सम्पादयतु- धूमपानम्
- मद्यपानम्
- मानसिकोद्वेगः
- अधिकमदयुक्तस्य पदार्थस्य सेवनम् ।
- देहस्थौल्यम्
- मधुमेहः
- आलस्यम्
- गर्भनिरोधकगुलिकायाः सेवनम् ।
हृदयाघातस्य निवारणोपायाः
सम्पादयतु- धूमपानं न करणीयम् ।
- मद्यपानं न करणीयम् ।
- मिताहारी भवेत् ।
- मानसिकोद्वेगात् बहिर्भवेत् ।
- विनालस्यम्, क्रियाशीलश्च भवेत् ।
- मनोरञ्जनादिनिमित्तं समयः देयः । तेषु भागः ग्राह्यः।
- मधुमेहादिभ्यः रोगेभ्यः सूक्तचिकित्सा स्वीकर्तव्या ।
- सस्याहारं सेवनीयम् एवं फलानि भोक्तव्यानि ।
- मुख्यतया वैद्यस्य सलाहानुसर्तव्यः ।
बाह्यानुबन्धः
सम्पादयतु- Cardiac disorders - Open Directory Project Archived २०१३-०३-२८ at the Wayback Machine
- American Heart Association's Heart Attack web site — Information and resources for preventing, recognizing and treating heart attack.