होमियोपति (Homeopathy) एका चिकित्सा पद्धतिः अस्ति । अस्याः चिकित्सायाः जन्मदाता साम्युयेल् हानिमन् वर्यः । एषा पद्धतिः ’समरूपतासिद्धान्ताधारिता’ । वैद्याः उक्तसिद्धान्तस्य अनुसारेण रोगपरीक्षणानन्तरम् औषधानां निर्देशं कुर्वन्ति । किन्तु रोगलक्षणानाम् अपेक्षया औषधानि प्रबालानि भवेयुः । अस्यां चिकित्सायाम् अस्वस्थं मनश्यं विचार्य लक्षणानि च ज्ञात्वा उपयुक्तानि औषधानि देयानि भवन्ति । रोगस्य औषधस्य च लक्षणानि समानानि भववेयुः । तेन अस्वस्थः अल्पे समये स्वस्थः भवविष्यति । चिकित्सकः पटुः भवेत् । तदैव तेन रोगलक्षणानि ज्ञातुं शक्यानि भवन्ति । गभीररोगाणां चिकित्सायै चिकित्सकस्य अस्वस्थस्य च धैर्यम् अपेक्षते । शोराविषस्य वृद्धिः शरीरे भवति चेत् रोगाः उत्पद्यन्ते इति केचन होमियोपथि चिकिस्तकानां अभिप्रायो अस्ति । चिकित्साकानां मेधाविनाम् अयमभिप्रायः जन्तूनां इन्द्रियेषु आदर्शक्रियाशीलता (Êfunctional norm) विकृता यदा भवति तदा जन्तुषु पूर्वादर्शक्रियाशीलतायाः निमित्तं नैके प्रतिक्रियाः भवन्ति । प्रतिक्रियासाफल्यार्थं औषधानाम् अपेक्षा अस्ति इति । रोगग्रस्थाः अशक्ताः भवन्तीत्यतः तेभ्यः अल्पप्रमाणेनैव औषधं देयम् इति । अल्पप्रमाणेन दानेन दुष्परिणामानि न भवन्ति । सर्वविधेभ्य: अपि रोगेभ्य: शर्करागुलिका: दीयन्ते । ता: मधुरा: एव । अत: औषधस्य तिक्तकट्वादय: रुचय: न भवन्ति तत्र ।

होमियोपति
आर्णिका
प्रतिपादनम् Proponents claim that illnesses can be treated with specially prepared extreme dilutions of a substance that produces symptoms similar to the illness. Homeopathic remedies rarely contain any atom or molecule of the substance in the remedy.
वैज्ञानिकसम्पर्कः रसायनविज्ञानम्, औषधविज्ञानम्
प्रतिज्ञातवर्षम् १८०७
मुख्यप्रवर्तकाः साम्युयेल् हानिमन्
गौणप्रवक्तारः संस्थाः- बैरन्, हील्, मिरलास् हेल्थकेयर्, नेल्सन्, जीक्यम्
व्यैक्तिक - दीपक चोपरा, पल् हर्स्कु, रोबिन् मर्फी, रञ्जन् शङ्करण्, लुक् डि शेफार्, जन् स्कोल्टेन्, जेरेमी शेर्, दना उल्मान्, जर्ज् विथोलुकास्
सञ्चिका:Homeopathic medicine.jpg
होमियोपति गुळिकाः

सिद्धान्ताः

सम्पादयतु

सादृश्यनियमः ( Law of Similar )

सम्पादयतु

डा साम्युयेल् हानिमन् वर्येण प्रवर्तितहोमियोपतिचिकित्सायां “सादृश्यनियमः” इति सिद्धान्तः अन्यतमः । “सिमिलिया सिमिविबस् क्यूरेण्टर् “ (Similia Similibus Curanter) “समः समम् शमयति “ इति । रोगः यावान् प्रमाणेन भवति तावत् प्रमाणस्य औषधसेवनेन रोगः निर्रोगः भविष्यति । द्वितीयः अर्थः येन अधिकप्रमाणस्य औषधेन स्वस्थ शरीरे विकारोत्पत्तिः भविष्यति । लघुप्रमाणेन चेत् समप्राकृतिकलक्षणानि नष्टानि भवन्ति ।

एकमेव औषधम् (Single Medicine)

सम्पादयतु

अस्यां होमियोपतिचिकित्सायाम् एकस्मिन् समये एकमेव औषधं देयम् इति निर्देशः अस्ति । किन्तु अद्यत्वे एनं नियमं सर्वे वैद्याः न पालयन्ति । अनुभवानुगुणम् औषधानि दीयन्ते ।

कनिष्टम् औषधप्रमाणम् (The Minimum dose)

सम्पादयतु

सदृशविज्ञानस्य आधारेण चितस्य रोगस्य औषधस्य प्रमाणं स्वल्पप्रमाणं भवति चेत् औषधस्य दुष्परिणामानि न भवन्ति । औषधम् प्रथमतः शरीरस्य बलं रक्षति अनन्तरं रोगवारणप्रक्रियां करोति । होमियोपति औषधानां निर्माणं विशेषरूपेण कुर्वन्ति । औषधशक्तिकरणस्यैव नाम स्थापयन्ति । घनपदार्थेभ्यः ट्राच्यूरेशन् द्रवपदार्थस्य सक्शन् -प्रणालीद्वारा च औषधानाम् उत्पादनं कुर्वन्ति ।

व्यक्तिगता समग्रा च चिकित्सा

सम्पादयतु

एषः मूलसिद्धान्तः भवति । अस्यां होमियोपति चिकित्सायां रोगाणां नाम्नां चिकित्सां न कुर्वन्ति । किन्तु , रोगिणां मानसिक, भावनात्मक, शारीरकादि चिकित्साम् आदौ कुर्वन्ति । उदाहरणार्थम्, यदि पञ्च श्वासरोगिभ्यः (अस्थमा) एकमेव औषधं न दास्यन्ति । स्म्पूर्णलक्षणाधारेण रोगिभ्यः औषधं यच्छन्ति ।

संजीवकबलम् (Vital Force )

सम्पादयतु

मनुष्यस्य शरीरे संजीवकबलं ज्ञात्वा प्रतिपादितं यत्, एतत् संजीवकबलं बाह्यरूपेण आक्रम्यमाणैः रोगैः शरीरस्य रक्षणं करोति । अस्वस्थदशायां संजीवकबलं रोगग्रस्थं भवति । सदृशविज्ञानस्य आधारेण चितौषधेन संजीवकबलस्य विकारान् नाशयित्वा शरीरस्य रक्षणं करोति ।

रोगबीजम्

सम्पादयतु

प्राचीनरोगाणां मूलकारणानि सोरा (Psora), सायिकोसिस् () सिफिलिस् च भवन्ति । काराणानां समुदायस्य मियाज्म् इति नाम । मियाज्म् इत्यस्य प्रदूषणम् अर्थः ।

औषधसमर्थनम्(Drug Proving)

सम्पादयतु

(औषधचिकित्सा) औषधदानसमये अस्वस्थस्य थेरापुयिटक क्षमता ज्ञातव्या । स्वस्थाय मनुष्याय उषधं दत्त्वा औषधस्य लक्षणानि ज्ञातव्यानि भवन्ति । ईदृशस्य प्रयोगानन्तरं सदृशविज्ञानस्य अनुसारेण वैद्याः रोगं ज्ञातुं शक्ताः भवन्ति

वैज्ञानिकता

सम्पादयतु

वैद्ये रोगिण: य: विश्वास: भवति तम् अवलम्ब्य एव रोग: अपगच्छति, उपशाम्यति वा । अत: होमियोपति-चिकित्सा नाम मानसिकचिकित्साक्रम: कश्चन’’ इति अलोपतिवैद्या: अभिप्रयन्ति । अत: एव कोऽपि वैज्ञानिक: अपि होमियोपतिचिकित्सा-क्रमस्य वैज्ञानिकत्वम् अङ्गीकर्तुं न सिद्ध: । होमियोपतिवैद्यपद्धतौ अवैज्ञानिकबुद्धि: तेषाम् एतावती अस्ति यत् केभ्यश्चित् वर्षेभ्य: पूर्वं ते तां पद्धतिं महता उत्साहेन प्रतिपादयते कस्मैचित् वैद्याय कुप्रतिष्ठाद्योतिकाम् ‘इग्नोबेल् प्रशस्तिम्’ अपि प्रदत्तवन्त: !! किन्तु एषु दिनेषु तादृशानां मतिं परिष्कर्तुम् इव किञ्चन संशोधनम् आकस्मिकतया जातम् अस्ति । दक्षिणकोरियादेशस्य वैज्ञानिका: कस्मिंश्चित् शोधकार्ये निरता: आसन् । तदवसरे आकस्मिकतया रसायनविज्ञानसम्बन्धी कश्चन चमत्कार: तै: ज्ञात: । स च रासायनिक-प्रक्रियाया: मूलसिद्धान्तान् एव निराधारी-करोति । तेनैव सह होमियोपतिसिद्धान्तस्य वैज्ञानिकतां प्रतिपादयति च । चमसमितं लवणं जले मिश्रीकरणात् लवणद्रव: प्राप्यते ।
तत्र जलयोजनं यथा यथा वर्धयाम तथा तथा तस्मिन् द्रवे स्थितानां सोडियं क्लोरैड्-अणूनां मध्ये अन्तरं वर्धते । एतत् तु सर्वै: ज्ञात: विषय: । दक्षिणकोरियादेशे कटर् गेक्लर्, शरिधर समाल् च क्वाङ्गुयुविज्ञानतन्त्रज्ञानसंस्थायां वैज्ञानिकौ । कदाचित् तौ सैक्लोडेक्स्ट्रिन्-नामकेन रासायनिकवस्तुना युक्ते पात्रे जलयोजनं वर्धितवन्तौ । ताभ्यां यथा यथा जलं योजितं तथा तथा सैक्लोडेक्स्ट्रिन्-अणव: न दूरं गता:, अपि तु राशिरूपेण स्थिता: । प्रयोगार्थं स्वीकृते सैक्लोडेक्स्ट्रिन्वस्तुनि एव कोऽपि दोष: स्यात् इति चिन्तयन्तौ तौ सोडियं गुवानोसैन् मोनोफास्फेट्नामकं वस्तु स्वीकृत्य पूर्वतनं कृत्यम् एव पुन: कृतवन्तौ । अत्रापि पूर्वोक्त: एव परिणाम: । तत: तौ लवणं स्वीकृत्य प्रयोगस्य आवर्तनं कृतवन्तौ । आश्चर्यं नाम लवणाणव: दूरं न गता:, प्रत्युत राशीभूय स्थिता: । आत्मना प्राप्ते फलितांशे विश्वासम् अकुर्वन्तौ तौ लेसर्परीक्षा, स्क्यानिङ्ग्, इलेक्ट्रन् मैक्रास्कोपि इत्यादिभि: अत्याधुनिकतन्त्रै: राशीभूतानाम् अणूनां परीक्षणं कृतवन्त: । यथा यथा द्रव: दुर्बल: भवति तथा तथा अणूनाम् आकार: पञ्चगुणिततया दशगुणिततया वा प्रवृद्ध: दृष्ट: ताभ्याम् । एतदवसरे ताभ्याम् अन्योऽपि अंश: लक्षित: । द्रवस्य अतिदुर्बलताकाले एव अणुराशे: सामर्थ्यं वर्धनं दृश्यते स्म । द्रव: यदा अल्पजलांशयुक्त: तन्नाम द्रवे यदा अणूनां बाहुल्यं भवति तदा एष: परिणाम: न दृश्यते स्म प्राधान्येन । जलादय: द्रवा: ध्रुवद्रवा: इति उच्यन्ते विज्ञानशास्त्रे । एतेषाम् अणूनाम् एकस्यां कोटौ ऋणध्रुव:, अपरस्यां धनध्रव: च भवति । एतादृशेषु ध्रुवद्रवेषु एव पूर्वोक्त: विपरिणाम: जायते, न तु अन्यद्रवेषु । होमियोपत्यौषध-निर्माणावसरे ध्रुवद्रवाणाम् एव उपयोग: क्रियते ।
कोरियन्वैज्ञानिकौ स्वस्य अनुभवं निरूप्य अन्यान् अपि उक्तवन्त: - ‘भवन्त: अपि एतस्य परीक्षणं कुर्वन्तु’ इति । नेदर्ल्याण्डीये ग्रोनिङ्गेन्-विश्वविद्यालये अपि परीक्षणं प्रवृत्तम् । तत: तत्रत्य: वैज्ञानिक: रसशास्त्रतज्ञ: जान् एन्बटर्स् अवदत् - ‘आश्चर्यकरम् एतत्, अस्माकम् आघातकरं चापि’ इति । ‘जलाणूनां स्मरणशक्ति: अपि अस्ति’ इति इत्येतत् तत्त्वं पतिपाद्य वैज्ञानिकानाम् उपहास-पात्रीभूत:। फे्रञ्च् प्रतिरक्षावैज्ञानिक: (इम्यूनालजिस्ट्) जाक्स् बेन्वेनिस्त् वदति ‘द्रवीभूतौषधयुक्ते जले आधिक्येन जलं योज्यते चेदपि औषधस्य स्मरण-मुद्रा तु अक्षततया तिष्ठति एव’ इति । एतेन प्रयोगेण होमियोपतिचिकित्साक्रमस्य वैज्ञानिकाधार: कल्पित: अस्ति यत् तत् तु महते सन्तोषाय ।

औषधप्रमाणम्

सम्पादयतु

अस्यां चिकित्सायां महत्त्वम् औषधस्यैव । अस्याः चिकित्सायाः आरम्भे २००,१००० सामर्थ्ययुक्तानि औषधानि हानेमन् उपयुज्यते स्म । स्वानुभवेन कालन्तरे स्वल्पप्रमाणस्य १x, ३x, ६x, १२x, उत ६, १२, ३० औषधानि उपयुज्यते स्म । नैकेषु अनुभवेषु हानेमेन् ज्ञातवान् यत् शरीरे रोगः यदा भवति तस्मिन् समये स्वल्पप्रमाणस्य औषधदानेन रोगमुक्तं भवति ।

  • होम्योपति औषधेषु ३ प्रकारकाः प्रमाणप्रयोगाः भवन्ति ।
  1. डेसीमल्-प्रमाणम्(Decimal Scale)
  2. सेण्टीसमल्-प्रमाणम् ( Centesimal Scale )
  3. ५० मिलीसीमल्-प्रमाणम्(50 Millesimial scale)१

१.डेसीमल्-प्रमाणपद्धतौ एकभागात्मकम् औषधम्, नवभागयुते क्षीरे उत सुरायां सम्मिश्रणं करणीयम् । अनेन प्रमाणेन निर्मितस्य औषधस्य ‘X’ इति संभोधयन्ति । कालीफास् ६X, एकोनायिट् ३X, इत्यादीनि भवन्ति । १x, घनौषधकरणे एकभागात्मकम् औषधम्, नवभागयुते क्षीरे उत सुरायां सम्मिश्रणं करणीयम् भवति । १x, द्रवौषधकरणे एकभागात्मकं मूलार्कं, नवभागयुते क्षीरे उत सुरायां सम्मिश्रणं करणीयम् भवति । २X निर्माणे १x स्य एकं भागम्, नवभागयुते क्षीरे उत सुरायां सम्मिश्रणं करणीयम् भवति । अग्रिमस्थरस्य औषधस्य निर्माणाय पूर्वतनभागस्य एकं भागम्, नवभागयुते क्षीरे उत सुरायां सम्मिश्रणं करणीयम् भवति ।

२.सेन्टीसमल्-प्रमाणपद्धतौ एकभागात्मकम् औषधम्, नवनवतिभागयुते क्षीरे उत सुरायां सम्मिश्रणं करणीयम् भवति । अनेन प्रमाणेन कृताय औषधाय ‘c’ इति नाम । ३०c, २००c, १०००c, इत्यादीनि औषधानि सन्ति। अग्रिमस्थरस्य औषधस्य निर्माणाय पूर्वतनभागस्य एकं भागम्, नवभागयुते क्षीरे उत सुरायां सम्मिश्रणं करणीयम् भवति ।

विषवस्तु अत्यल्पप्रमाणेन औषधगुलिकासु भवति । तस्य सेवनात् रोगनिरोधकशक्ति: रोगिणि भवति इति तु होमियोपतिसिद्धान्त: । तदेव विषवस्तु द्रवमिश्रणात् द्रवरूपतां यदा प्राप्नोति तत् प्रतिविषायते । यथा यथा द्रवं दुर्बलतां याति तथा तथा औषधस्य सामर्थ्यं वर्धते’ इति प्रतिपादयन्ति होमियोपतिवैद्या: । होमियोपति औषधानि अर्कः(Tincture), संपेषणम्(Trituration), तनूकरणम्(Dilutions) इति त्रिषु रूपेषु भवन्ति । गन्धक, पारा, सुवर्णम्, रजतम्, चूर्णम्, लोहादिभिः औषधानां निर्माणं भवति । होमियोपति औषधविवरणे ग्रन्थे २६० तः २७० औषधानि निरूपितानि ।

बाह्यानुबन्धः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=होमियोपति&oldid=487183" इत्यस्माद् प्रतिप्राप्तम्