१. सम्प्रज्ञातसमाधिः
This article has multiple issues. Please help improve it or discuss these issues on the talk page. |
"वितर्कविचारानन्दास्मितारुपानुगमात् सम्प्रज्ञातः" (यो० सू० १-१७) इति सूत्रानुसार सवितर्का, स्विचारा, सानन्दा, सास्मिता इति सम्प्रज्ञातसमाधिः चतुर्धा भिद्यते । समाधिशब्दार्थः भावना भवति । यस्य वस्तुनः भावना क्रियते तद्वस्तु भाव्यं, भावनीय अथवा ध्येयं इति कथ्यते । तस्य ध्येयस्य विषयान्तरपरिहारपूर्वाकत्वेन वारंवारं चिति नेवेशनात्मिकायाः क्रियायाः भावना इति संज्ञा । अथवा विषयान्तरेषु सलग्न चित्तं तद्विषयादपसार्थ ध्येयभूते पदार्थे स्थिरीकरणं नाम भावना इत्यभिधीयते । भाव्य द्विविधम्- एकः ईश्वर, एकं तत्त्वम् । तत्त्वं द्विविधम्-जडात्मकम् अजडात्मकम् चेति । अजडात्मकभाव्यत्वेन जीवात्मा स्वीक्रियते । ईश्वरः तत्त्वपृथकत्वेन गणितः । प्रकृत्त्यादीनि चतुर्विशतितत्त्वानि एकः पुरुषः इति योगशास्त्रं पञ्चविंशतितत्त्वानि, ईश्वरस्तु तत्त्वातीत इति स्वीक्रियते । ईश्वरसहितानि सर्वाणि च तत्त्वानि भाव्यत्वेन कथ्यन्ते । एतेषां तत्त्वानां भावनया परमलक्ष्यभूतसमाधेः सिद्धिः भवति । भावनायाः अस्याः प्रकारभेदेन सम्प्रज्ञातसमाधिरपि चतुर्धा भिद्यते इत्युक्तम् । एकाग्रचिति बाह्यविषयाणां चित्तवृत्तीनां निरोधः यस्या विशेषावस्थायां भवति सा सम्प्रज्ञातसमाधिः । अस्मिन् सम्प्रज्ञातसमाधौ केवलबाह्यविषयकचित्तवृत्तीनामेव निरोधः न तु आत्मविष्यकसात्विक चित्तवृत्तीनां निरोधः, न तु आत्मविषयकसात्विक चित्तवृत्त्तीनां निरोधः क्रियते । अतः अयं समाधिः सुषुप्त्यवस्थापेक्षया भिन्नः । सुषुप्त्यवस्थायां तुइ सकलवृत्तीनां निरोधः भवति । अतः इयमवस्था योगः इति नोच्यते । सम्यक् ज्ञायते प्रकृतेः भेदेन ध्येयस्वरुपं यस्मिन् इति व्युत्पत्त्या सम्प्रज्ञातसमाधिः सिध्यति । यस्यामदस्थायां ध्येयभूतस्य आत्मनः ज्ञानं सम्यग्रुपेण प्रकाशते सा सम्प्रज्ञातसमाधिः एवं व्युत्पत्तिकरणेन सम्प्रज्ञातसामाध्यव्स्थायां आत्मविषयकसात्विक वृत्तेः भावत्वं सिध्यति ।
सवितर्कसमाधिः -स्थूलविषयकसाक्षात्कारः वितर्कः इत्युच्यते । विशेषेण तर्कणम्, शब्दार्थज्ञानविकल्परुपं यत्र सः वितर्कः । अनया व्युत्पत्त्या स्थूलविषयभावना एव वितर्कः इति सिध्यति । स्थूलविषये शब्दार्थयोः ज्ञानं अभेदेन भासते । अयं भावः -भावनायां विषयभूतं यद् भाव्यं तत्त्रिविध भवति -ग्राह्यं, ग्रहणं गृहीता इति तत्र ग्राह्यं द्विविधम स्थूलसूक्ष्मभेदेन । स्थूलां ध्येयविषयिणीं भावनां दृढीकृत्यैव अनन्तर सूक्ष्मविषयिकी भावना आगच्छति । यथा -परिक्षोपाधिप्राप्त्यर्थ प्रथमतः स्थूलभूतमध्ययनं कृत्वा अनन्तर सूक्ष्मविषयकार्मकम् मननं क्रियते तद्वत् योगेच्छुः प्रथमतः ध्येयत्वेन वर्तमाने स्थूलविषये भावनां दृढीकृत्य अनन्तर शनैः शनैः ध्येयात्मकसूक्ष्मविषयस्य् भावनायामभ्यासं करोति । अथ च सूक्ष्मतर, सूक्ष्मतम, एवं परमलक्ष्यपर्यन्तं गन्तुं चेष्टां करोति । दशायामस्यां स्थूलपञ्चभूतानां भावना अथवा पाञ्चभौतिक चतुर्भु जादिस्थूलशरीरभावना, एवं स्थूलभूतकारणानि यानि सूक्ष्माणि पञ्चतन्मात्राणि तेषां भावना, तेषां पूर्वापरानुसन्धानपूर्वकत्वेन प्रथमतः सामान्यवादविशेषः तदा धमधर्मिणोः या भावना सा सवितर्का अथवा वितर्कानुगता इति कथ्यते ।