उमरियामण्डलम्
उमरियामण्डलम् ( ( शृणु) /ˈʊmərɪjɑːməndələm/) (हिन्दी: उमरिया जिला, आङ्ग्ल: Umaria district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य शहडोलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति उमरिया इति नगरम् ।
उमरियामण्डलम् Umaria District | |
---|---|
उमरिया जिला | |
उमरियामण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे उमरियामण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | चन्दिया, बान्धवगढ, नौरोजाबाद, पाली, मानपुर |
विस्तारः | ४,०७६ च. कि. मी. |
जनसङ्ख्या (२०११) | ६,४४,७५८ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ६५.८९% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४७.५% |
Website | http://umaria.nic.in |
भौगोलिकम्
सम्पादयतुउमरियामण्डलस्य विस्तारः ४,०७६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे शहडोलमण्डलं, पश्चिमे कटनीमण्डलम्, उत्तरे सतनामण्डलं, दक्षिणे डिण्डोरीमण्डलम् अस्ति ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणम् उमरियामण्डलस्य जनसङ्ख्या ६,४४,७५८ अस्ति । अत्र ३,३०,६७४ पुरुषाः, ३,१४०८४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५८ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.९६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५० अस्ति । अत्र साक्षरता ६५.८९% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि - चन्दिया, बान्धवगढ, नौरोजाबाद, पाली, मानपुर ।
वीक्षणीयस्थलानि
सम्पादयतुबान्धवगढदुर्गः
सम्पादयतुबान्धवगढ उमरियामण्डलस्य उपमण्डलमस्ति । प्राचीनकाले मघा-राजवंशजानां बान्धवगढसाम्राज्यस्य राजधानी आसीत् इदम् उपमण्डलम् । बान्धवगढ-उपमण्डलस्य दुर्गाः पुरातात्विकैतिहासिकानि स्थलानि सन्ति । अयमेकः प्राकृतिकः अभेद्यदुर्गः अस्ति । समुद्रतलात् २४३० मी. उपरि अस्ति अयं दुर्गः ।
चन्दिया
सम्पादयतुचन्दियाग्रामः उमरिया-नगरात् २१ कि. मी. दूरे अस्ति । अस्मिन् ग्रामे कालीदेव्याः एकं मन्दिरमस्ति । कालीदेव्याः मुखमुद्घाटितम् अस्ति, जिह्वा बहिरस्ति किन्तु तज्जिह्वा त्रुटिता अस्ति । भगवतोः सीतारामयोः अपि एकं मन्दिरम् अस्ति । इदं चन्दियाठाकुर इत्यस्य पीठम् आसीत् । अत्र शिवरात्रिपर्वणि त्रिदिवसीयमहोत्सवः भवति ।
पाली बीरसिंहपुर
सम्पादयतुपालीग्रामः उमरिया-नगरात् ३६ कि.मी. दूरे अस्ति । अस्मिन् ग्रामे बिरासिनीदेव्याः एकं मन्दिरम् अस्ति । इदानीं सा कालीदेवी इति नाम्ना प्रख्याता अस्ति किन्तु तस्याः मुखं पिनद्धम् अस्ति । वास्तविकतया इयं कङ्कालदेवी अस्ति । जनाः नवरात्रिपर्वणि, ’अक्टूबर’ एवं ’मार्च’ मासे च तत्र उत्सवम् आचरन्ति ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये उमरियामण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://umaria.nic.in
http://www.census2011.co.in/census/district/298-umaria.html