अंशुमान्
सः अयोध्यायाः राजा आसीत्। पुरा त्रेतायुगे अयोध्यायां बाहुकापरनामा असितो नाम राजाऽऽसीत् । असितस्य पुत्रः "सगरः" । सगरस्य द्वे भार्ये आस्ताम् । प्रथमा विदर्भराजपुत्री वैदर्भी । अस्याः षष्ष्टिपुत्राः पितुः सगरस्य यज्ञाश्वसंरक्षणार्थम् अश्वमनुगत्य, तस्मिन् तुरङ्गमे शक्रेणापहृते तमन्विषन्तः पाताले विद्यमानं कपिलमुनेः आश्रमम् अप्राप्नुवन् । तत्र कपिलस्य कोपाग्निना भस्मीभूताश्च । सगरस्य द्वितीया शिबिराजस्य अरिष्टनेमेः कुमारी केशिन्यपरनाम्नी "सुमतिः" । सुमत्याः पुत्रः "असमञ्जाः" । असमञ्जसः पुत्र एव अंशुमान् । एषः पितामहस्य सगरस्यानुज्ञया कपिलाश्रममासाद्य कपिलमुनिं सम्प्रार्थ्य शान्तेन मुनिना यज्ञाश्वं च प्राप्य, अश्वं पित्रे प्रादात् । तेन तुष्टः सगरः अश्वमेधयागं समपादयत् । अंशुमान् च स्वपितृव्यानां सद्गतिं प्रापयितुं चिन्तयन् गरुडेन ज्ञातवान् यत्, व्योमगङ्गाप्रवाहः यदा तेषां भस्मराश्युपरि वहति तदा तेषां सद्गतिः भविष्यति इति । ततः आंशुमान् सगरात् राज्यं प्राप्य किञ्चित्कालं राज्यभारं निरवहत् । ततः स्वपुत्रे दिलीपे प्राप्तवयसि, तस्मिन् राज्यधुरं निक्षिप्य स्वयं स्वर्गात् व्योमगङ्गां भुवमानेतुकामः तपसे वनं जगाम । किन्तु गङ्गावतरणं कर्तुं न शशाक । बहुकालाऽनन्तरम् अंशुमतः पौत्रः भगीरथः भागीरथीं नभस्तः भूमिमानाययामास । इति रामायणे बालकाण्डे, महाभारते च वनपर्वणि पठ्यते ।
अंशुमान् |
---|
बाह्यसम्पर्कतन्तुः
सम्पादयतु- विष्णुपुराणे अंशुमान् Archived २०१२-०८-२९ at the Wayback Machine