भगीरथः रामायणस्य किञ्चन पात्रमस्ति । एषः अयोध्याकुलस्य राजा आसीत्। इक्ष्वाकुवंशस्य दिलीपस्य पुत्रः । जितेन्द्रियः महासाहसी प्रपितामहानां सगरपुत्राणां सद्गतिप्राप्तये सुरगङ्गाम् देवलोकतः आनीतवान् । अस्य पुत्री हंसी कौत्समुनेः पत्नी ।

शिवः भगीरथश्च
गङ्गावतरणाय भगीरथस्य शिवस्य सकाशे तपःकरणम्

भगीरथस्य पूर्वजाःसम्पाद्यताम्

सूर्यवंशे प्रख्यातः महाराजः सगरः । एतस्य सुमतिः केशिनी च इति द्वे पत्न्यौ । केशिन्याम् असमञ्जः इति पुत्रः जातः । सुमत्याः षष्ठिसहस्रपुत्राः जाताः। ते षष्ठिसहस्रपुत्राः एव सागराः । असमञ्जसः पुत्रः अंशुमान् । एतस्य पुत्रः दिलीपः । दिलीपस्य पुत्र एव भगीरथः ।

षष्ठिसहस्रपुत्राः दुष्टकार्याणि कुर्वन्तः आसन् । तैः यज्ञादिशिष्टकर्माणि नाशितानि । भीताः देवताः दैवांशसम्भूतं कपिलमुनिं शरणं गताः । तदा कपिलः - "चिन्तामास्तु । स्वल्पकाले एव ते नश्यन्ति" इति उक्तवान् । एकदा सगरः अश्र्वमेधयागम् आरब्धवान् । अश्र्वमेधयागः इत्युक्ते जयपत्रम् आश्र्वस्य ललाटे बध्वा तमश्र्वम् अटनार्थं त्यजन्ति । यः अश्वं बध्नाति तेन सह युद्धं करणीयं भवति । षष्ठिसहस्रसगरपुत्राः अश्र्वरक्षणाय प्रस्थितवन्तः । इन्द्रः अश्वं चोरयित्वा एकं बिलं प्रविष्टवान् । भूलोके अश्र्वम् अप्राप्य पाताळलोकं सागराः प्रविष्टवन्तः तत्र कपिलमुनिः तपति स्म । एषः एव अश्वं चोरितवान् इति चिन्तयित्वा कपिलं ताडयितुम् आयुधानि गृहीतवन्तः । तदा कपिलमुनिः नेत्रमुन्मील्य तान् दृष्टवान् । ते सर्वे दग्धाः अभवन् । एतेषाम् अन्त्यसंस्कारः न जातः । अतः सद्गतिः न प्राप्ता । एतेषामेव वंशस्थः दिलीपः स्वपितामहानामपेक्षया शीघ्रं सद्गतिं प्राप्तवान् । पित्रा गृहीतं कार्यं पूर्णं कर्तुं भगीरथः प्रयत्नमारब्धवान् ।

गङ्गावतरणम्सम्पाद्यताम्

 
गङ्गावतरणम्

भगीरथः सुरगङ्गां भूमिमानेतुं संकल्पं कृत्वा हिमालयं गतवान् । बहुकठिनतपः आरब्धवान् । तपसा तुष्टा गङ्गा भूमिमागन्तुमङ्गीकृतवती । पुनश्र्च स्ववेगं न्यूनीकर्तुं महादेवं प्रार्थयितुं सूचितवती । पुनः भगीरथः तपः आरब्धवान् । शिवं ध्यानेन आकृष्य अनुग्रहं प्राप्तवान् । गङ्गया यथा सूचितं तथा तस्याः वेगं न्यूनीकर्तुं प्रार्थितवान् । गङ्गा शिवस्य जटाजूटतः भूमिमागतवती । भगीरथः गिरिपर्वतानां मध्ये आयुधैः मार्गं कल्पितवान् । गङ्गा हिन्दुस्थानस्य उत्तरभागस्य समप्रदेशं प्राप्तवती ।

इदानीमपि गङ्गायै मार्गं कल्पयितुं कृतकः मार्गः रचितः स्यात् इति गङ्गाप्रवाहमार्गं दृष्टवन्तः केचन वदन्ति । अग्रे जह्नुमहर्षिः जलं सर्वं पीतवान् । पुनः भगीरथः तपसा तां प्रत्यानीतवान् । अतः जाह्नवी इति ख्याता । अग्रे गङ्गामाता सागरेभ्यः सद्गतिं दत्तवती । गङ्गावतरणस्य कथा एषा । भगीरथस्य यत्नतः गङ्गा अत्र आगता इति भागीरथी इत्यपि नाम गङ्गायाः ।

गङ्गायां स्नानं करोति चेत् , पितृभ्यः पिण्डं ददाति चेत् सायुज्यं लभ्यते इति विश्वासः । एवं लक्ष्यप्राप्तये सततप्रयत्नः आवश्यकः । भगीरथस्य कारणतः स्वर्गंगा भुवमागता । प्रयत्नस्य अपरं नाम भगीरथः ॥

भगीरथस्य वैदिकी दृष्टिःसम्पाद्यताम्

वैदिक वाङ्मये भगीरथः शब्दं न विद्यते। जैमिनीयउपनिषदब्राह्मणे ४.६.१ राज्ञः भगेरथस्य बकदाल्भ्य ऋषिणा सह संवादं विद्यते। अस्मिन् संवादे सामवेदस्य हिंकारः, आदिः, प्रस्तावः, उद्गीथः, प्रतिहारः, उपद्रवः एवं निधनस्य विवेचनं अस्ति। साधारणतया जीवरथस्य गतिः भाग्यानुसारे भवति। भगेरथस्य जीवनमपि भाग्यानुसारे गतिं करोति। बकः दाल्भ्यः अर्थात् यस्य वाक् दर्भिता, ग्रथिता अस्ति। यस्य वाक् वरप्रदातृ अथवा शापप्रदातृ भवितुं शक्यते, सः बकः दाल्भ्यः। भाग्यानुसारेण जीवननिर्वाहकस्य वाक् कथं वरप्रदातृ भवितुं शक्यते, अस्मिन् विवेचने सामवेदस्य सप्तानां भक्तीनां विवेचनं उपलब्धमस्ति। सामवेदस्य एषां भक्तीनां रहस्यं किमस्ति, अयं शाण्डिल्यभक्तिसूत्रादि ग्रन्थेषु, तस्योपरि रजनीश महोदयस्य व्याख्यानेषु, छान्दोग्योपनिषदादिषु उपलब्धमस्ति।

संदर्भाःसम्पाद्यताम्

सम्बद्धाः लेखाःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=भगीरथः&oldid=447032" इत्यस्माद् प्रतिप्राप्तम्