[[Category:]]

श्लोकः सम्पादयतु

 
गीतोपदेशः

श्री भगवानुवाच -

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥

अयं भगवद्गीतायाः अष्टमः अध्यायस्य अक्ष

रब्रह्मयोगस्य तृतीय:(३) श्लोकः ।

पदच्छेदः सम्पादयतु

अक्षरं ब्रह्म परमं स्वभावः अध्यात्मम् उच्यते भूतभावः उद्भवकरः विसर्गः कर्मसंज्ञितः ॥ ३ ॥

अन्वयः सम्पादयतु

परमम् अक्षरं ब्रह्म, स्वभावः अध्यात्मम् उच्यते । भूतभावोद्भवकरः विसर्गः कर्मसंज्ञितः ।

शब्दार्थः सम्पादयतु

अक्षरम् = विनाशरहितः परमात्मा, न क्षयम् क्षरणम् यस्मात्।
परमम् = अत्युत्तमम्
ब्रह्म = ब्रह्म (उच्यते)
स्वभावः = जीवरूपेण देहे भवनम्
अध्यात्मम् = अध्यात्मम्
उच्यते = कथ्यते
भूतभावोवकरः = भूतानाम् उत्पत्तेः वृद्धेः च कारणम्
विसर्गः = यज्ञः
कर्मसंज्ञितः = कर्मनामकः ।

अर्थः सम्पादयतु

अत्युत्तमं विनाशरहितं सर्वव्यापकं च ब्रह्म इति उच्यते

। तादृशस्य ब्रह्मणः जीवरूपेण शरीरे अवस्थानम् अध्यात्मं कथ्यते । सर्वेषां भूतानाम् उत्पत्तौ वृद्धौ च कारणीभूतः यज्ञः (देवतोद्देशेन चरुपुरोडाशादेः द्रव्यस्य विसर्जनम्) कर्म इति उच्यते ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अक्षरं_ब्रह्म_परमं...&oldid=481970" इत्यस्माद् प्रतिप्राप्तम्