प्रमुखा विकल्पसूचिः उद्घाट्यताम्

संस्कृतम् (IAST: saṃskṛtam) जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। संस्कृतं भारतस्य जगत: वा भाषास्वेकतमा‌ प्राचीनतमा। भारती सुरभारती अमरभारती अमरवाणी सुरवाणी गीर्वाणवाणी गीर्वाणी देववाणी देवभाषा संस्कृता वाक् दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।

संस्कृतम्
विस्तारः भारतम् एशिया
भाषाकुटुम्बः
भारतीयः
लिपिः देवनागिरी[१]
ब्राह्मी
आधिकारिकस्थितिः
व्यावहारिकभाषा भारतम् उत्तराखण्डराज्यम्
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1 sa
ISO 639-2 san
ISO 639-3 san

भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।

व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति। अष्‍टाध्‍यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं इवास्ति।

संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी।

अन्तर्विषयाः

इतिहास:सम्पाद्यताम्

 
संस्कृतस्य तालपत्रम् (नेपाललिपिः प्रयुक्तम्)

इयं भाषा न केवलं भारतस्‍य अपि तु विश्वस्य प्राचीनतमा भाषा इति मन्यते। इयं भाषा तावती समृद्धा अस्ति यत् प्राय: सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेण अस्‍या: शब्‍दा: प्रयुज्‍यन्‍ते. अत: भाषाविदां मतेन इयं सर्वासां भाषाणां जननी मन्‍यते। पुरा संस्कृतं लोकभाषा आसीत्‌। जना: संस्कृतेन वदन्ति स्म॥

विश्‍वस्‍य आदिम: ग्रन्‍थ: ऋग्‍वेद: संस्‍कृतभाषायामेवास्‍ति। अन्‍ये च वेदा: यथा यजुर्वेद:, सामवेद:, अथर्ववेदश्‍च संस्‍कृतभाषायामेव सन्‍ति। आयुर्वेद-धनुर्वेद-गन्‍धर्ववेदार्थवेदाख्‍या: चत्‍वार: उपवेदा: अपि संस्‍कृतेन एव विरचिता:॥

सर्वा: उपनिषद: संस्‍कृते उपनिबद्धाः । अन्‍ये ग्रन्‍था: – शिक्षा कल्‍प: निरुक्तम् ज्‍यौतिषम् छन्‍द: व्‍याकरणम् दर्शनम् इतिहास:,पुराणं काव्‍यं शास्‍त्रं चेत्यादयः ॥

महर्षि-पाणिनिना विरचित: अष्‍टाध्‍यायी इति संस्‍कृतव्‍याकरणग्रन्थ: अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते ॥

वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् |
पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॥

सुकुमार:

लिपि:सम्पाद्यताम्

 
अनेकेषु लिपिषु संस्कृतम्

लिपिः वर्णादीनां बोधकं चिह्नम्।

संस्‍कृतलेखनं पूर्वं सरस्वतीलिप्या आसीत्‌| कालान्‍तरे एतस्‍य लेखनं ब्राह्मीलिप्या अभवत्। तदनन्तरम् एतस्य लेखनं देवनागर्या आरब्धम् ।

अन्‍यरूपान्‍तराणि अधोनिर्दिष्टानि सन्‍ति –

असमीयालिपिः बांलालिपिः ओड़ियालिपिः शारदालिपिः तेलुगुलिपिः तामिऴलिपिः यव-द्वीपलिपि: कम्‍बोजलिपिः कन्नडलिपिः नेपाललिपिः मलयाळलिपिः गुजरातीलिपिः इत्यादय: ॥

मूलतो यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तया एव लिप्या संस्कृतमपि लिख्यते। पूर्वं सर्वत्र एवमेव आसीत्, अत एव प्राचीना: हस्तलिखितग्रन्था; अनेकासु लिपिषु लिखिता: सन्ति । अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्या दृश्यते। नवीनकाले संस्कृतभाषालेखनार्थं देवनागरी लिपिः एव प्रायः उपयुज्यते।

अक्षरमालासम्पाद्यताम्

अक्षराणां समूहः अक्षरमाला इति उच्यते।

संस्कृतभाषायाः लौकिकीयमक्षरमाला। अक्षरैरेभिर्घटितमेव गैर्वाण्यां समस्तं पदजागम्। भाषा तावद्वाक्यरूपा; वाक्यानि पदैर्घटितानि, पदान्यक्षरैरारभ्यन्ते; अक्षराणि वर्णैरूपकल्पितानि। तथा घटादिपदार्थानां परमाणव इव भाषाया उपादानकारणं वर्णाः। निरवत्र एकत्वव्यवहारार्हः स्फुटो नादो वर्ण इति तस्य लक्षणम्। तत्र स्वयमुच्चारणार्हो वर्णः स्वरः; तदनर्हं व्यञ्जनम्। व्यञ्जनवर्णानां स्वयमुच्चारणाक्षमत्वात् तेष्वेकैकस्मिन्नपि प्रथमस्वरः अकारो योजितः। तथा च वयमक्षराण्येव लिखामो न तु वर्णान्; अत एव चाक्षरमालेति व्यवहरामो न तु वर्णमालेति।

अक्षराणि स्वराः व्यञ्जनानि च इति द्विधा विभक्तानि। स्वराक्षराणां उच्चारणसमये अन्येषां वर्णानां साहाय्य्यं नापेक्षितम्। स्वयं राजन्ते इति स्वराः

संस्कृतभाषायाः अक्षरमाला पट्टिकया प्रदर्श्यते –

प्रणवः
स्वराः
ह्रस्वस्वराः दीर्घस्वराः
अयोगवाहौ
अनुस्वारः विसर्गः
अं अः
व्यञ्जनानि
खराः अतिखराः मृदवः घोषाः अनुनासिकाः
कवर्गः
चवर्गः
टवर्गः
तवर्गः
पवर्गः
मध्यमाः
(अन्तस्थाः)
ऊष्माणः

ऌकारस्य प्रयोगः अत्यन्तविरळः। अन्तिमौ अं, अः, अँ इति वर्णौ अनुस्वारविसर्गौ स्तः। एतयोः उच्चारणं स्वराक्षराणां अनन्तरमेव भवति। अनुस्वारविसर्गौ विहाय अन्यानि स्वराक्षराणि भाषाशास्त्रे अच शब्देन व्यवह्रियन्ते। अनुस्वारविसर्गयोः तु अचि व्यञ्जनेषु च अन्तर्भावः।

यद्यप्यक्षराणां वर्णारारब्धत्वात् वर्णनामेव लिपिभिः विन्यासो न्याय्यः, तथापि व्यञ्जनानां स्वरपरतन्त्राणां स्वयमुच्चरितुमशक्यत्वात् अक्षराणामेव लिपिसंज्ञितानि चिह्नानि पूर्वैः कल्पितानि। यूरोपदेशीयास्तु स्व्स्वभाषालेखने वर्णानेवोपयुञ्जते, न त्वक्षराणि। यथा 'श्री' इत्यकां लिपिं Sri इति तिस्रृभिर्लिखन्त्याङ्गलेयाः।

अविभाज्य एको नादो वर्णः; केवलो व्यञ्जनसंसृष्टो वा स्वर एकोऽक्षरम् इति वर्णाक्षरयोर्भेदः। अनेन च केवलः स्वरो वर्ण इत्यक्षरमिति च द्वावपि व्यपदेशवर्हतीति स्फुटम्। केवलं तु व्यञ्जनं वर्ण एव। केवला एव स्वरा लिपिषु स्वस्वचिह्नैर्निर्दिश्यन्ते; व्यञ्जनसंसृष्टास्तु चिह्नान्तरैरेव लिख्यन्ते।

यथा –
क् + अ = क
क् + आ = का
क् + इ = कि
क् + ई = की
क् + उ = कु
क् + ऊ = कू
क् + ऋ = कृ
क् + ॠ = कॄ
क् + ऌ = कॢ
क् + ॡ = कॣ
क् + ए = के
क् + ऐ = कै
क् + ओ = को
क् + औ = कौ
इत्यादि।

"क्" इतिवद् व्यञ्जनलिपिनामधो दक्षिणायता रेखा ताभ्यः स्वरांशपृथक्करणं सूचयति। यद्यपि लोके व्यवहारेष्वक्षरैरेवोपयोगस्थापि वैयाकरणा वर्णैर्व्यवहरन्ति। अतश्च "क", "कि", "कु" इत्याद्या लिपय एकैकचिह्नात्मिका अपि स्वरव्यञ्जनरूपवर्णद्वयघटिता।

अक्षरमालायां परिगणितानां वर्णानां विभागे स्वरव्यञ्जनात्मना द्विविधो महाविभाग उक्त एव।

स्वराःसम्पाद्यताम्

"अच्" इति स्वरस्य पाणिनिकृता संज्ञा। येषां वर्णानाम् उच्चारणं स्वतन्त्रतया भवति ते स्वराः कथ्यन्ते।

स्वराः उच्चारणसमयदैर्घ्याधारेण ह्रस्वः, दीर्घः, प्लुत इति त्रिधा विभक्ताः। एकमात्रः स्वरः ह्रस्वः, द्विमात्रः दीर्घः, त्रिमात्रः प्लुतः च भवति। दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते। विसर्गः अर्द्धमात्रकः, जिह्वामूलीयोपध्मानियौ पादमात्रकौ च।

उच्चारणकालमात्रानुसारेण स्वरास्तावत् त्रिविधाः –

  1. एकया मात्रया अ, इ, उ इत्यादिवदुच्चार्यमाणो ह्रस्वः
  2. आ, ई, ऊ इत्यादिवद् द्वाभ्यामुच्चार्यमाणो दीर्घः
  3. अ...३, इ...३, उ...३ इत्यादिवत् तिसृभिरुच्चार्यमाणः प्लुतः (प्ळुतः‌)।

ह्रस्वस्वराः

येषां स्वराणाम् उच्चारणम् एकमात्राकलेन भवति ते ह्रस्वस्वराः इति कथ्यन्ते। ते पञ्च सन्ति| तान् मूलस्वराः इति अपि कथयन्ति।

अ इ उ ऋ ऌ

दीर्घस्वराः

येषां स्वराणाम् उच्चारणं मात्राद्वयेन भवति ते दीर्घस्वराः इति कथ्यन्ते। ते अष्टौ सन्ति।

आ ई ऊ ॠ ॡ ए ऐ ओ औ

प्लुतस्वराः

येषां स्वराणाम् उच्चारणं मात्रात्रयेण भवति ते प्लुतस्वराः इति कथ्यन्ते। तान् एवं लिखन्ति ।

अ...३ आ...३ इ...३ ई...३ उ...३ ऊ...३ ऋ...३ ऋृ...३
लृ...३ ए...३ ऐ...३ ओ...३ औ...३

दूर स्थितस्य पुरुषस्य आह्वानाय प्लुत उपयुज्यते।

उदाहरणानि:

  1. आगच्छ कृष्णा..३, अत्र गौः चरति।
  2. भो बालाः..३ आगच्छन्तु।

व्यञ्जनान्तशब्दानां संबोधने तु शब्दस्य टेः प्लुतः कल्पनीयः (पदान्तव्यञ्जनात पूर्ववर्णः टिः)।

यथा राजे..३श्। [राजेश् इति हिन्दी नाम]

  • एषु ह्रस्वदीर्धाभ्यामेव पदानि घटितानि। प्लुतस्तु काक्कादिवद्वाक्यमात्रदृष्टः स्वरविकारः। अत एव च तस्य लिपिषु चिह्नानि न कल्पितानि।
  • स्वरेषु 'ऌ'कारोऽतीव विरलः – "कॢप्तम्", "कॢप्तिः" इत्येकस्य धातोः रूपेष्वेव दृष्टः। अस्य दीर्घः 'ॡ' कुत्रापि नोपयुज्यते।
  • ए, ओ एषां ह्रस्वः संभवन् देश्यभाषासु दृष्टोऽपि संस्कृते नापेक्ष्यते। परन्तु, संस्कृतभाषायां देश्यपदप्रयोगार्थं एषां ह्रस्वरूपः आधुनिककाले उपयुज्यते। "ए"कारस्य ह्रस्वरूपं देवनागर्यां "ए" इति लिखति। "ओ"कारस्य ह्रस्वरूपं देवनागर्यां "ओ"इति लिखति।
  • ए, ओ एतौ दीर्घौ एव! तत्-सवर्णौ ह्रस्व-वर्णौ एवं लिख्येते – ए, ओ । (दाक्षिणात्य-शब्दानां देवनागर्यां लेखने उपयुज्येते।)

सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविधमस्ति।

 
ऋग्वेदस्य प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्

अयमपि भेदः सूत्रकारवचनैरेवोच्यते –

उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।

उच्चः स्वर उदात्तः; नीचोऽनुदात्तः; उच्चनीचमिश्रितः स्वरितः

लिपिषु स्वराणामङ्कने बहव सन्ति सम्प्रदायाः। तत्र बह्वादृत एकोऽत्र विव्रीयते। – अनुदात्तस्यचिह्नमधस्तिरश्चीरेखा, स्वरितस्योपर्यूर्ध्वाधरा। अचिह्नितमक्षरमुदात्तम्। अनुदात्तेषु न सर्वण्यङ्क्यन्ते। अपितु उदात्तात् स्वरिताद्वा पूर्वमेवाक्षरम्। पूर्वानुदातचिह्ननमाद्युदात्ते पदे कर्तुं न शक्यते। अतोऽनक्ङितमाद्यक्षरमुदात्तत्वेनैव ग्राह्यम्। अनुदात्तास्तु वाक्यप्रारम्भे सन्देहनिवारणाय यावदुदात्तदर्शनमङ्क्यन्ते।

अयोगवाहौसम्पाद्यताम्

मुख्यलेखाः : अनुस्वारः, विसर्गः

अनुस्वारः

अर्ध-"म"कारसदृशाध्वनिरनुस्वारः। अं विसर्गः अः विसर्गापरपर्यायो विसर्जनीयः। अर्ध-"ह"कारसदृशाध्वनिः। पदान्त-रेफस्योच्चारण विशेषः।

चन्द्रविन्दु

अर्ध-"न्का"रसदृशाध्वनिरनुस्वारः।अँ

विसर्गादयो न स्वतन्त्रा वर्णाः; नैभि किमपि पदमारभ्यते। स्वराणामन्तेषु कदाचिदुपलभ्यन्त इत्येव। अत एवैतेऽक्षरसमाम्नाये न पठिताः।

व्यञ्जनानिसम्पाद्यताम्

व्यञ्जनवर्णाः सर्वे स्वराक्षरस्य साहाय्य्येनैव उच्चार्यन्ते। अक्षरमालायां स्वरस्य साहाय्य्येनैव व्यञ्जनानि प्रदर्शितानि।

उदाहरणम्: क् + अ = क

उच्चारणस्थानं अनुसृत्य व्यञ्जनानि अधो दत्तवत विभक्तानि

  1. कवर्गः
  2. चवर्गः
  3. टवर्गः
  4. तवर्गः
  5. पवर्गः
  6. अन्तस्थाः अथवा मध्यमाः
  7. ऊष्मणः

शुद्ध व्यञ्जनानां लेखने अधः चिह्नं योजनीयं (यथा क्, च्, म्)।

व्यञ्जनेन सह प्रयोगार्त्थं अ इति अक्षरं विहाय अन्येषां स्वराणां कृते अपि भिन्नभिन्नानि चिह्नानि कल्पितानि।

संयुक्ताक्षराणिसम्पाद्यताम्

संयुक्ताक्षरं द्वित्राणां व्यञ्जनानां मिलितं रूपं संयुक्ताक्षरं भवति।

उदा:

क् + व = क्व

क् + य = क्य व् + य = व्य

कार्त्स्न्यं इत्यत्र पञ्चव्यञ्जनानां संयोगः अपि संभूतः। केषांचन संयुक्ताक्षराणां लेखने भिन्ना रीतिः अस्ति।

संयुक्ताक्षरस्य लेखने व्यञ्जनानां यथातथामेळनं अपि कुत्रचित भवेत

उदा : कुक्कुरः, तत्त्वम्

उच्चारणशास्त्रम्सम्पाद्यताम्

वर्णाभिव्यक्तिप्रदेशः उच्चारणस्थानं कथ्यते। शब्दप्रयोगसमये कायाग्निना प्रेरितः वायुः कण्ठादिस्थानेषु सञ्चरन् वर्णान् अभिव्यनक्ति।

यथोक्तं पाणिनीयशिक्ष्यायाम् –

आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥
मारुतस्तूरसि चरन् मन्द्र्ं जनयति स्वरम् ॥
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकौष्टौ च तालु च ॥

एवं वर्णानाम् उच्चारणस्थानानि अष्टौ सन्ति। १. उरः, २. कण्ठः, ३. शिरः (मूर्धा), ४. जिह्वामूलम्, ५. दन्ता, ६. नासिका, ७. ओष्ठौ, ५. तालुः।

तद्यथा –

वर्णस्य उत्पत्तिस्थानम् वर्णानां संज्ञा स्वराः व्यञ्जनानि अयोगवाहौ
कण्ठ कण्ठ्यः अ आ क् ख् ग् घ् ङ् ह् अः
(विसर्गः)
तालुः तालव्यः इ ई च् छ् ज् झ् ञ् य् श्
मूर्धा मूर्धन्यः ऋ ॠ ट् ठ् ड् ढ् ण् र् ष् ळ्
दन्ताः दन्त्यः ऌ ॡ त् थ् द् ध् न् ल् स्
ओष्ठौ ओष्ठ्यः उ ऊ प् फ् ब् भ् म्
कण्ठतालु कण्ठतालव्यः ऐ ए ऐ
कण्ठोष्ठम् कण्ठोष्ठ्यः ओ ओ औ
दन्तोष्ठम् दन्तोष्ठ्यः
नासिका नासिक्यः अं
(अनुस्वारः)

उच्चारणभेदाःसम्पाद्यताम्

देशभेदादुच्चारणभेदाः। यथा – यत्र दक्षिणभारतीयानां 'व’कारोच्चारणं सम्प्रदायस्तत्र वङ्गाः 'ब’कारमुच्चरन्ते। बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वेऽप्येवमुत्पन्नः।

संस्कृतभाषाप्रभावःसम्पाद्यताम्

संस्कृतभाषाया शब्दाः मूलरूपेण सर्वासु भारतीयभाषासु लभ्यन्ते। सर्वत्र भारते भाषाणामेकतायाः रक्षणमपि केवलं संस्‍कृतेनैव क्रियमाणाम् अस्ति। अस्‍यां भाषायां न केवलं भारतस्‍य अपि तु निखिलस्‍यापि जगतः मानवानां कृते हितसाधकाः जीवनोपयोगिनः सिद्धान्‍ताः प्रतिष्‍ठापिताः सन्‍ति। इयमेव सा भाषा यत्र ध्‍वनेः लिपेश्‍च सर्वत्रैकरूपता वर्तते। मलयाळम्‌, तेलुगु, कन्नड इति इमाः दाक्षिणात्‍यभाषाः संस्‍कृतेन भृशं प्रभाविताः।

तत्सम-तद्भव-समान-शब्दाः
संस्कृतशब्दः हिन्दी मलयाळम् कन्नड तेलुगु ग्रीक लेतिन आङ्गलिक जर्मन बाङ्गला
मातृ माता माताव् मातेर मोथर् मुटेर माता, मातृ
पितृ पिता पिताव् पातेर फ़ाथर् फ़ाटेर पिता, पितृ
दुहितृ दोहता दाह्तर् दौहित्रो
भ्रातृ भाई, भ्राता भ्राताव् ब्रदर् ब्रुडेर भ्राता, भाई
पत्तनम् पट्टन, पटना पट्टणम्
वैदूर्यम् लहसुनिया वैडूर्यम् वैडूर्यम्
सप्तन् सात् सप्तम् सेप्तम् सेव्हेन् ज़ीबेन
अष्टौ आठ् एट्ट् होक्तो ओक्तो ऐय्‌ट् आख़्ट
नवन् नौ नवम् हेणेअ नोवेम् नायन् नोएन
द्वारम् द्वार द्वारम् दोर् टोर
नालिकेरः नारियल् नाळिकेरम् कोकोस्नुस्स

वाक्यरचनासम्पाद्यताम्

संस्‍कृते एकस्‍य धातो: रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्‍ति । प्रत्‍येकलकारे प्रथमपुरुष:, मध्‍यमपुरुष:, उत्तमपुरुष: इति त्रय: पुरुषा: सन्‍ति, अपि च एकवचनम् द्विवचनम् बहुवचनम् इति त्रीणि वचनानि सन्ति।

अस्‍याः भाषायाः वैशिष्‍ट्‍यं नाम दण्डचिह्नम्‌। न वर्तते अत्र अन्‍यानि विरामचिह्नानि केवलं दण्डचिह्नमेव।' एतदेव चिन्हं विधानं प्रश्‍नम्‌ उद्‍गारं च सूचयति। अत: एकस्‍यैव वाक्‍यस्‍य भिन्‍नान्‌ अर्थान्‌ प्राप्‍नुमः वयम्‌। उदाहरणार्थं वाक्‍यांशः एकः दीयते। अभ्‍युत्‍थानं च धर्मस्‍य नैव दृष्‍टं कदाचन इति एतस्‍य वाक्‍यस्‍य द्वौ अर्थौ स्‍त:॥

ध्येयवाक्यानिसम्पाद्यताम्

अल्पाक्षरैः अनन्त, गाम्भीर्य, गहनार्थयुक्तानि तादृशध्येयवाक्यानि गुरुः इव, मित्रमिव, श्रेयोभिलाषी इव अस्मान् निरन्तरं प्रेरयन्ति। जीवनयाने सत्प्रदर्शनं कुर्वन्ति। सूत्र, मन्त्र, तन्त्र, सूक्ति, सुभाषितरूपेण असंख्याकानि प्रेरणावाक्यानि सन्ति। तानि पठ्यमानाः जनाः नूतनोत्साहं, चैतन्यं, स्फूर्तिं च प्राप्नुवन्ति।

उदाहरणरूपेण कानिचन ध्येयवाक्यानि पश्यामः –

भारतप्रशासनादारभ्य अनेकप्राशासनिककार्यनिर्वहणसंस्थाः, प्रशासनिकतदितरविद्यासंस्थाः, स्वच्छन्दसेवाधार्मिकसांस्कृतिकसंस्थाः च विविधग्रन्थेभ्यः विविधसंस्कृतसूक्तीः ध्येयवाक्यरूपेण स्वीकृत्य स्व स्व लक्ष्यसाधने प्रेरणां लभन्ते। एतत् संस्कृतभाषायाः औन्नत्यं प्रकटयति।

  • भारतमहाराज्येन “सत्यमेव जयते” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्। भारतप्रशासनस्य राजमुद्रिकायाम् अङ्कितमिदं सर्वान् प्रेरयति। जनाः सर्वदा सत्यमार्गे जीवनं यापयेयुः इति भावेन एतद्वाक्यं स्वीकृतम्।
  • नेपालप्रशासनेन “जननी जन्मभूमिश्च स्वर्गादपि गरीयसी” इति मुण्डकोपनिषदः वाक्यं ध्येयवाक्यरूपेण स्वीकृतम्।
  • भारतस्य सर्वोन्नतन्यायालयस्य (Supreme Court of India) ध्येयवाक्यं “यतो धर्मः ततो जयः”इति महाभारतात् स्वीकृतम्। यत्र धर्मः वर्तते तत्र हि विजयः निश्चयः इत्यर्थः।
  • भारतस्य लोकसभायाम् अध्यक्षस्थानस्य उपरि लिखितम् अस्ति – “धर्मचक्रप्रवर्तनाय” इति । तेन धर्मबुद्ध्या सभा चालयितव्या इति प्रेरणां लभतामिति चिन्तयित्वा तद्वाक्यं स्थापितम्।
  • भारतस्य डाक्-तार् विभागस्य ध्येयवाक्यम् – “सेवा अस्माकं धर्मः” तदनुगुणतया उद्योगिनः अहर्निशं सेवारताः भवन्ति।
  • भारतीय रैल् विभागस्य वाक्यम् – “श्रम एव जयते”। श्रमजीविनः, कर्मकराः जनानां सुखयात्रार्थं कार्यं कुर्वन्ति। रैल् विभागं विजयमार्गे चालयन्ति च।
  • भारतस्य जीवनबीमानिगमः (लैफ़् इन्षुऱन्स् कोर्पऱेषन् ओफ़् इन्डिया) इति संस्था श्रीमद् भगवद्गीतायाः “योगक्षेमं वहाम्यहम्” इति वाक्यं ध्येयवाक्यरूपेण स्वीकृत्य जनानां योग-क्षेमनिर्वहणार्थं व्यवस्थां करोति।
  • नभः स्पृशं दीप्तम्” इति ध्येयवाक्यं भारतीय वायुसेना इति संस्थायाः अस्ति। एतद् भगवद्गीतायाः एकादशाध्यायात् स्वीकृतम्। वायुसेनायाः शक्तिः दीप्तिः आकाशपर्यन्तं व्याप्तम् इत्यर्थं सूचयति एतद्वाक्यम्।
  • भारतीय नौ सेना “शं नो वरुणः” इति उपनिषद् मन्त्रं स्वीकृत्य प्रेरणां प्राप्नोति । जलाधिदेवस्य वरुणस्य अनुग्रहेण देशरक्षणकार्ये सर्वदा निमग्ना भवति।
  • आकाशवाणी “बहुजनहिताय बहुजनसुखाय” इति वाक्यानुगुणं जनानां हितार्थं, सुखार्थं, संगीत, साहित्य, सांस्कृतिकादि कार्यक्रमैः जनान् रञ्जयति।
  • दूरदर्शन् “सत्यं शिवं सुन्दरम्” इति सुन्दरसंस्कृतवाक्यं ध्येयवाक्यरूपेण स्वीकृत्य श्रव्य, दृश्यमाध्यमेन जनमनोरञ्जनकार्यक्रमान् योजयति।
  • राष्ट्रिय विद्याभ्यासगवेषण-प्रशिक्षण परिषदः (ऐन् सी ई आर् टि) ध्येयवाक्यम् “असतो मा सद्गमय” इति वर्तते।
  • केन्द्रीय विद्यालय संघटनम् इति केन्द्र सर्वकारस्य विद्या विभागस्य ध्येयवाक्यमस्ति “तत्त्वं पूषण्णपावृणु” इति ईशावास्योपनिषदः मन्त्रः।
  • ग्रामीण विद्यार्थीणां विद्याविकासार्थं केन्द्र सर्वकारेण संस्थापित नवोदय विद्यालयानां प्रेरणवाक्यम् “प्रज्ञानं ब्रह्म” इति महावाक्यम्। एतत् तैत्तिरीय उपनिषदः उद्धृतम्। प्रज्ञानम् एव ब्रह्मस्वरूपम्। अतः ज्ञानं सम्पादनीयम्।
  • भारत राष्ट्रीय शास्त्रीय संस्थया (Indian National Science Acadamy) यजुर्वेदात् स्वीकृतं ध्येयवाक्यं तत् “हवयामि र्भगः सवितुर्वरेण्यम्”।
  • भारतीय पाळमार्ग रक्षण बलः (Indian Railway Protection Force) इत्यस्य प्रेरणवाक्यं “यशो लभस्व” इति। विधि नियमपालनेन कीर्तिं प्राप्नुहि इति स्फूर्तिं ददाति एतत् वाक्यम्।
  • इन्डियन् ऐक्स्प्रस् इति प्रसिद्ध आंग्ल वार्तापत्रिकायाः ध्येयवाक्यं “सर्वत्र विजयम्” इति।
  • विद्याभारती प्रमुखस्वच्छन्द विद्यासंस्था जातीयस्तरे नैक विद्यालयात् चालयति । तेषु विद्यालयेष् भारत्यविद्यापद्धत्या विद्याबोधनं कुर्वन्ति। तस्याः विद्यासंस्थायाः ध्येयवाक्यं “सा विद्या या विमुक्तये” इति उपनिषद्वाक्यम्। विद्या केवलम् उदरपोषणार्थं न संसारबन्धं विमुक्तिरूप मोक्षप्राप्तिः एव। तादृशी विद्या आध्यात्मिकी विद्या एव, इति विद्यायाः परमार्थतत्त्वं ज्ञापयति एतद् ध्येयवाक्यम्।
  • न केवलं भारतदेशे, परन्तु विश्वे सुप्रसिद्ध आध्यात्मिक तथा सेवा संस्था श्री रामकृष्णमठः (Sri Rama Krishna Mission) तत्मठस्य ध्येयवाक्यम् “तन्नो हंसः प्रचोदयात्” परमात्मा बुद्धिं सत्यमार्गे प्रचोदयात् इत्यर्थः। श्री रामकृष्णपरमहंसगुरोः आशयान् विश्वव्याप्तान् कर्तुं स्वामी विवेकानन्देन स्थापितः अयं मठः।
  • हरियाना राज्यस्य धयेयवाक्यं “योगः कर्मसु कौशलम्” एतत् श्रीमद् भगवद्गीतायाः उद्धृतम्।
  • देहली विश्वविद्यालयेन स्वीकृतं ध्येयवाक्यं “निष्ठा धृतिः सत्यम्”। ध्येयनिष्ठा, धैर्यं, सत्यं च एतत् त्रयम् अवश्यम् अनुष्ठेयम्।
  • आन्ध्रप्रदेशे विशाखपट्टणस्थ प्रसिद्ध आन्ध्रविश्वकला परिषत् (Andhra University) स्वध्येयवाक्यं “तेजस्विनावधीतमस्तु” इति उपनिषदः स्वीकृतम्। गुरुशिष्यौ तेजोवन्तौ भूत्वा मिलित्वैव अध्ययनं करणीयं परस्परं रक्षकौ भूत्वा सुखदुःखे सहैव अनुभवन्तौ द्वेषं विना अध्ययनम् अध्यापनञ्च करणीयमिति उपनिषदाम् आदेशः अस्ति।
  • आन्ध्रप्रदेशस्थ उच्चमाद्यमिक शिक्षासंस्था (Intermediate Board) इत्यस्य ध्येयवाक्यं “विद्यया अमृतमश्नुते” इत्यस्ति।
  • श्री सत्यसाइ मानितविश्वविद्यालयस्य ध्येयवाक्यं “सत्यं वद धर्मं चर” इति तैत्तरीय उपनिषद्वाक्यम्। सत्यं भाषितव्यं, धर्मेण वर्तितव्यमिति च मानवस्य कर्तव्यं निर्दिष्टम् उपनिषदा।
  • आचार्य नागार्जुन विश्वविद्यालयस्य (Acharya Nagarjuna University, Guntur) ध्येयवाक्यं “सत्ये सर्वं प्रतिष्ठितम् ” इति उपनिषद्वाक्यम्। सत्ये सर्वधर्माः निहिताः। अतः सत्यपालनं सर्वैः अनुष्ठेयम् इति प्रेरणां प्राप्तुं तेन स्वीकृतम्।
  • केरळविश्वविद्यालयस्य ध्येयवाक्यं “कर्मणि व्यज्यते प्रज्ञा” इत्यस्ति।
  • केरळराज्यस्य महात्मागान्धी विश्वविद्यालयस्य ध्येयवाक्यं “विद्यया अमृतमश्नुते” इत्यस्ति। विद्यया मनुष्यः अमरत्वं प्राप्नोति । अतः सर्वः विद्यावान् भवेदिति उपनिषद्वाक्यं प्रेरयति।

एवं बहुविध संस्कृतसूक्तयः अस्मान् निरन्तरं प्रेरयन्ति, एषा संस्कृतभाषायाः महिमा अस्ति।

अद्यत्वे संस्कृतभाषाया: स्थितिःसम्पाद्यताम्

अद्यत्वे संस्कृतभाषा उन्नतस्थाने विद्यते। अनेके जनाः संस्कृतभाषामधिगन्तुं प्रयतमानाः सन्ति। तत्प्रशंसायां न केवलम् जना: अग्रे भवन्ति अपि तु अनेके कार्यक्रमाः अपि प्रचलन्ति । परन्तु अपेक्षितपरिणामः नास्ति|

संस्कृताभ्युद्धारणम्सम्पाद्यताम्

संस्‍कृतभाषाया: साहित्‍यमतीव सरसं वर्तते । तथा अस्‍या: व्‍याकरणं नितान्तं व्‍यवस्‍थितम् अस्‍ति। संस्‍कृतसाहित्‍यं वैदिककालादारभ्‍य अद्यावधि सुललितं विराजते । वर्ण्‍यविषयाणां बाहुल्‍यात्‌ अस्‍या: भाषाया: शब्‍दकोष: अतिविशाल:। संस्कृतभाषया भाषमाणा: ग्रामा: यथेष्टं सन्ति । कर्णाटके मत्तूरू, मध्यप्रदेशे झिरि इत्यादय: उदाहरणानि।

इमानि अपि पश्यन्तुसम्पाद्यताम्

बाह्यानुबन्धाःसम्पाद्यताम्

आधाराःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=संस्कृतम्&oldid=443587" इत्यस्माद् पुनः प्राप्तिः