अदिलाबादमण्डलम्
अदिलाबाद् जनपदम् (Adilabad district) आंध्रप्रदेशराज्ये स्थितमेकं जनपदम् । अस्य मण्डलस्य केन्द्रः अदिलाबाद् नगरः । अस्मिन् मण्डले स्थितः बसरा नाम क्षेत्रे एकं प्रमुखं सरस्वतीदेवि मन्दिरम् वर्तते ।
अदिलाबाद् एदिलाबाद् | |
— जनपदम् — | |
निर्देशाङ्काः | |
देशः | भारतम् |
राज्यम् | तेलङ्गाणाराज्यम् |
पौरायोगः | Muncipality |
जनसङ्ख्या • सान्द्रता |
२४,८८,००३ (census २,००१) • 129 /किमी2 (334 /वर्ग मील) |
समयवलयः | IST (UTC+05:30) |
इतिहासः
सम्पादयतुएल्लाबादिति आख्यातं प्रान्तमिदं १९०५ तमे वर्षे आदिलाबाद् इत्यभिहितम् । गोल्कोण्डराजाः, वेलमाःदक्कन्-सुल्तानजनाः, असफजाहीवंशजाः, बहमनीसुल्तान्-जनाः च चिरमपालयन् । सिरिपूर्, ताण्डूर् इत्येते उपमण्डले निधाय १८७२ तमे वर्षे गोल्कोण्डराजाः पर्यपालयन् । १९१०, १९४० वर्षयोः मण्डलकेन्द्रम् आदिलाबादः, आसिफाबादं पुनः अदिलाबादं प्रति परिवर्त्यमानम् आसीत् । १९५६ तमे वर्षे राज्यानां पुनर्व्यवस्थीकरण-नियमदृष्ट्या मराठीभाषिणां प्रदेशाः महारष्ट्रे योजिताः ।
भौगोलिकम्
सम्पादयतुभौगोलिकम् अस्य प्राक्पश्चिमोत्तरदिक्षु महाराष्ट्रम्, दक्षिणे चकरींनगर्, निजामाबाद् मण्डले सीमायां सन्ति । ७ राजमार्गः नागपुरम्-बेङ्गळूरु वर्तते । ४४.२१% अटवीभूमिः विस्तृता मण्डलस्य भूभागे । मण्डलमिदं १०९ कि.मी.मितं विस्तृतम् ।
कृषिः वाणिज्यं च
सम्पादयतुखानापूर्, परिसरप्रान्तेषु अयोधातुः, बेल्लम्पल्लि, मन्दमर्रिस्थलयोः अङ्गारनिक्षेपाः सुधाशिलानां निधिः च भूरिप्रमाणेन उपलभ्यते । १९३८ तमे वर्षे सिरिपूर्, कागजनगरप्रान्ते कर्गदपरिश्रमाः स्थापिताः । माञ्चिर्याला, अदिलाबाद् प्रान्तयोः सिमेण्ट्-कर्मागाराणि सन्ति । बासरप्रान्ते प्रविष्टा गोदावरी नदी निजामाबाद्, करींनगरप्रान्ताभ्यां प्रवहतन्ती प्रयाति । मण्डले वृष्ट्यभावात् लघुसस्यानामेव आधिक्येन कृषिः क्रियते । कार्पासः, तिलः, चणकाः, मुद्गः, माषाः, हरिद्रा इत्यादीनां सस्यं भवति । ४०% सस्य भूम्यां १२% भूमेः जलप्राप्तिः वर्तते । वीक्षणीयस्थलानि श्रीव्यासप्रतिष्ठितः बासरग्रामे श्रीज्ञानसरस्वती देवालयः प्रख्यातः दर्शनीयश्च । अस्मिन् पुण्यक्षेत्रे सर्वदा बालानाम् अक्षरारम्भादिकं प्रचलति । शिक्षा, आर्थिकं इत्याद्यभिवृध्दिदृष्ट्या इदं मण्डलं नाग्रेसरम् ।
तालूकाः
सम्पादयतु
|