अदृष्टपूर्वं हृषितोऽस्मि...


श्लोकः सम्पादयतु

 
गीतोपदेशः
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे ।
तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ ४५ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चचत्वारिंशत्तमः(४५) श्लोकः ।

पदच्छेदः सम्पादयतु

अदृष्टपूर्वं हृषितः अस्मि दृष्ट्वा भयेन च प्रव्यथितं मनः मे तत् एव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ ४५ ॥

अन्वयः सम्पादयतु

देवेश, जगन्निवास ! प्रसीद । अदृष्टपूर्वं दृष्ट्वा हृषितः अस्मि । देव ! मे मनः भयेन प्रव्यथितं च । तत् रूपम् एव मे दर्शय ।

शब्दार्थः सम्पादयतु

देवेश = सुराधिप !
जगन्निवास = लोकनिकेतन !
प्रसीद = प्रसन्नो भव
अदृष्टपूर्वम् =पूर्वम् अनवलोकितं रूपम्
दृष्ट्वा = विलोक्य
हृषितः = सन्तुष्टः
अस्मि = भवामि
देव = प्रभो
मे मनः = मम चित्तम्
भयेन = भीत्या
प्रव्यथितं च = व्याकुलं च
तत् = पूर्वं दृष्टं रूपम् एव
मे दर्शय = मां प्रदर्शय ।

अर्थः सम्पादयतु

हे भगवन् ! अद्य यावत् अदृष्टपूर्वं त्वदीयं रूपं दृष्ट्वा अतीव हर्षं प्राप्तवान् । देव ! भीत्या व्यथामपि अहम् अनुभवन् अस्मि । हे देवेश, लोकाधार ! तदेव रूपं मे दर्शय यत् पूर्वं किरीटादिमत्त्वेन सौम्यं रूपं प्रदर्शितम् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु