अधश्चोर्ध्वं प्रसृताः...

भगवद्गीतायाः श्लोकः १५.२


श्लोकः सम्पादयतु

 
गीतोपदेशः
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।
अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य द्वतीयः(२) श्लोकः ।

पदच्छेदः सम्पादयतु

अधः च ऊर्ध्वं प्रसृताः तस्य शाखाः गुणप्रवृद्धाः विषयप्रवालाः अधः च मूलानि अनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥

अन्वयः सम्पादयतु

तस्य गुणप्रवृद्धाः विषयप्रवालाः शाखाः अधः ऊर्ध्वं च प्रसृताः । मनुष्यलोके अनुसन्ततानि कर्मानुबन्धीनि मूलानि अधः च ।

शब्दार्थः सम्पादयतु

गुणप्रवृद्धाः = गुणप्ररूढाः
विषयप्रवालाः = शब्दादिविषयपल्लवाः
ऊर्ध्वम् = उपरि
प्रसृताः = व्याप्ताः
मनुष्यलोके = मानवलोके
अनुसन्ततानि = विरूढानि
कर्मानुबन्धीनि = कर्मानुसारीणि ।

अर्थः सम्पादयतु

तस्य अश्वत्थवृक्षस्य हिरण्यगर्भादयः शाखाः याः ऊर्ध्वम् अधश्च प्रसृताः सन्ति । अधश्च कर्मानुसारिणः जीवाः । अवान्तरमूलानि यानि वृक्षस्य अधः ऊर्ध्वं च विमुखं प्ररूढानि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु