श्लोकः सम्पादयतु

 
गीतोपदेशः
अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥

पदच्छेदः सम्पादयतु

अनन्यचेताः सततं यः मां स्मरति नित्यशः तस्य अहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ १४ ॥

अन्वयः सम्पादयतु

पार्थ ! यः अनन्यचेताः नित्यशः सततं मां स्मरति तस्य नित्ययुक्तस्य योगिनः अहं सुलभः ।

शब्दार्थः सम्पादयतु

पार्थ = अर्जुन !
यः = यः मानवः
अनन्यचेताः = अनन्यमनस्कः
सततम् = सर्वदा
नित्यशः = प्रतिदिनम्
मां स्मरति = मां ध्यायति
नित्ययुक्तस्य = सततं युक्तस्य
योगिनः = योगवतः
तस्य= मानवस्य
अहं सुलभः = अहं सुखेन लभ्यः ।

अर्थः सम्पादयतु

पार्थ ! यः मानवः अनन्यमनस्कः प्रतिदिनं सर्वदा मां ध्यायति तस्य सततयुक्तस्य योगवतः अहं सुखेन लभ्यः भवामि ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अनन्यचेताः_सततं...&oldid=418400" इत्यस्माद् प्रतिप्राप्तम्