अनन्याश्चिन्तयन्तो मां...
भगवद्गीतायाः श्लोकः ९.२२
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
- तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २२ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य द्वाविंशतितमः(२२) श्लोकः ।
पदच्छेदः
सम्पादयतुअनन्याः चिन्तयन्तः मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहामि अहम् ॥ २२ ॥
अन्वयः
सम्पादयतुअनन्याः ये जनाः मां चिन्तयन्तः पर्युपासते नित्याभियुक्तानां तेषां योगक्षेमम् अहम् वहामि ।
शब्दार्थः
सम्पादयतु- अनन्याः = मामेव आश्रिताः
- ये जनाः = ये मानवाः
- चिन्तयन्तः = ध्यायन्तः
- मां पर्युपासते = मां सेवन्ते
- नित्याभियुक्तानाम् = सततयोगिनाम्
- तेषाम् = एतेषाम्
- योगक्षेमम् = अप्राप्तस्य लाभं प्राप्तस्य च परिपालनम्
- वहामि = धारयामि ।
अर्थः
सम्पादयतुये जनाः इन्द्रादीन् विहाय मामेव शरणम् आपन्नाः सेवन्ते तेषाम् अप्राप्तस्य प्राप्तिं स्थितस्य च परिरक्षणम् अहं करोमि ।