अनन्वयालङ्कारः(Ananvayalankara) अलङ्कारस्य लक्षणं तावत् कुवलयानन्दे अप्पय्यदीक्षितः एवं प्रकथयति –

उपमानोपमेयत्वं यदेकस्यैव वस्तुनः ।
इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वयः ॥

एकस्यैव वस्तुनः उपमानोपमेयत्ववर्णनमन्वयः । वर्ण्यमानमपि स्वस्य स्वेन साधर्म्यं नान्वेतीति व्युत्पत्तेः । अनन्वयिनोऽप्यर्थस्य अभिधानं सदृशान्तरव्यवच्छेदेन अनुपमत्वद्योतनाय । इन्दुरिन्दुरिव श्रीमान् इत्युक्ते श्रीमत्त्वेन चन्द्रस्य नान्यः सदृशोऽस्तीति सदृशान्तरव्यवच्छेदो लक्ष्यते । ततश्च स्वस्य स्वेनापि सादृश्यासंभवादनुपमेयत्वे पर्यवसानम् । यथा वा – उदाहरणान्तरम् –

गगनं गगनाकारं सागरः सागरोपमः।
रामरावणयोर्युद्धं रामरावणयोरिव ॥

पूर्वोदाहरणे श्रीमत्त्वस्य धर्मस्योपादानमस्ति । इह तु गगनादिषु वैपुल्यादेः धर्मस्य तन्नास्तीति विशेषः । चित्रमीमांसायां लक्षणम् –

स्वस्य स्वेनोपमा या स्यादनुगाम्येकधर्मिका ।
अन्वर्थनामधेयोऽयमन्वय इतीरितः ॥

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अनन्वयालङ्कारः&oldid=418969" इत्यस्माद् प्रतिप्राप्तम्