अनिष्टमिष्टं मिश्रं च...


श्लोकः सम्पादयतु

 
गीतोपदेशः
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ १२ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदः सम्पादयतु

अनिष्टम् इष्टं मिश्रं च त्रिविधं कर्मणः फलम् भवति अत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥

अन्वयः सम्पादयतु

अनिष्टम् इष्टं मिश्रं च इति कर्मणः त्रिविधं फलम् । अत्यागिनां प्रेत्य भवति सन्न्यासिनां तु न क्वचित् ।

शब्दार्थः सम्पादयतु

अनिष्टम् = अनभिमतम्
इष्टम् = अभिमतम्
मिश्रम् = सीर्णम्
त्रिविधम् = त्रिप्रकारम्
फलम् = प्रयोजनम्
अत्यागिनाम् = त्यागरहितानाम्
प्रेत्य = मरणानन्तरम्
क्वचित् = कदापि ।

अर्थः सम्पादयतु

ये तु कर्मफलम् अपेक्ष्य कर्म कुर्वन्ति ते सकामाः । तेषां कर्मफलं यदि पुण्यं तर्हि देवत्वम्, यदि पुनः पापं तर्हि नारकित्वम्, अथ उभयं तर्हि मनुष्यत्वम् इति फलविभागः । ये पुनः फलापेक्षां विना भगवदर्पणबुद्ध्या कर्म कुर्वन्ति ते सन्न्यासिनः । तेषां तु ईदृशं फलं न सम्भवत्येव । तेषां मोक्षः एव फलम् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु