अनुबन्धं क्षयं हिंसाम्...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् ।
- मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ २५ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य पञ्चविंशतितमः(२५) श्लोकः ।
पदच्छेदः
सम्पादयतुअनुबन्धं क्षयं हिंसाम् अनवेक्ष्य च पौरुषम् मोहादारभ्यते कर्म यत् तत् तामसम् उच्यते ॥
अन्वयः
सम्पादयतुअनुबन्धं क्षयं हिंसां पौरुषं च अनवेक्ष्य मोहात् यत् कर्म आरभ्यते तत् तामसम् उच्यते ।
शब्दार्थः
सम्पादयतु- अनुबन्धम् = भावि अशुभम्
- क्षयम् = शरीरश्रमादेः नाशनम्
- हिंसाम् = प्राणिपीडनम्
- पौरुषम् = सामर्थ्यम्
- अनवेक्ष्य = अविगणय्य
- मोहात् = अविवेकात् ।
अर्थः
सम्पादयतुपश्चात् भाविनम् अनर्थम्, शरीरसामर्थ्यस्य धनादेश्च नाशम्, प्राणिपीडनम्, आत्मसामर्थ्यं च अविचार्य अविवेकेनैव यत् कर्म क्रियते तत् तामसम् इति अभिधीयते ।