अन्न चाण्डि (४ मै १९०५ – २० जुलै १९९६) भारतस्य प्रथमा महिला न्यायाधीशा आसीत् ।[२][३][४] सा १९३७ तमे वर्षे प्रथमवारं मण्डलन्यायालयस्य न्यायाधीशा जाता । न केवलं भारतस्य प्रथममहिला न्यायाधिशा, अपितु विश्वस्य द्वितीया महिला आसीत् या उच्चन्यायालयस्य न्यायाधीशपदम्(१९५९) आरूढवती ।[३]

अन्न चाण्डि
न्यायाधीशा श्रीमती अन्न चाण्डि
जन्म अन्न
४ मै १९०५
तिरुवनन्तपुरम्
मृत्युः जुलै २०, १९९६ (वयः ९१)
केरळराज्यम्
देशीयता भारतीया
शिक्षणस्य स्थितिः University College Thiruvananthapuram Edit this on Wikidata
वृत्तिः न्यायाधीशा
वृत्तिदाता केरल उच्च न्यायालय
कृते प्रसिद्धः भारतस्य प्रथमा न्यायाधीशा
शीर्षकम् माननीया न्यायमूर्तिः
नियमः ९ फेब्रवरी १९५९ तः ५ एप्रिल् १९६७
धर्मः क्रैस्तमतम्[१]

आरम्भजीवनम् सम्पादयतु

अन्न चाण्डि १९०५ तमे वर्षस्य मेमासस्य ४ दिनाङ्के मलायाळी-सिरियन् क्रैस्तकुटुम्बे जन्म प्राप्नोत् । अद्यत्वे केरलराज्यान्तर्भूते तिरुवनन्तपुरे सा अवर्धत । १९२६ तमे वर्षे स्नातकोत्तरपदवीं प्राप्तवती सा केरलराज्ये न्यायपदवीं प्राप्तवती प्रथमा महिला ।

वृत्तिजीवनम् सम्पादयतु

१९२९ तमात् वर्षात् न्यायवादिनीरूपेण कार्यम् आरब्धवती सा । अनेन कार्येण सहैव सा महिलाधिकारस्य प्रबलप्रतिपादिका आसीत् । इदं कार्यं परिणामकररूपेण आत्मना संस्थाप्य सम्पाद्यमानया श्रीमतीनामिकपत्रिकया करोति स्म । [५]

प्रथमवंशश्रेण्याः महिलावादिनी (first generation feminist) इति निर्दिश्यमाना[६] चाण्डी १९३१ तमे वर्षे 'श्री मूलं पाप्युलर् असेम्ब्लि' निर्वाचने भागमवहत् । सा प्रतिस्पर्धिनः वार्तापत्रिकाश्च विरोधं प्रादर्शयन् । [७] किन्तु सा १९३२-३४ अवधिनिमित्तं निर्वाचिता जाता ।

उच्चन्यायालयस्य न्यायाधीशा सम्पादयतु

 
केरलस्य उच्चन्यायालयः

१९३७ तमे वर्षे तिरुवनन्तपुरस्य जिल्लान्यायाधीशरूपेण तदानीन्तनेन तिरुवनन्तपुरस्य प्रमुखेन ('दिवान्'पदव्या निर्दिश्यमानेन) नियुक्ता जाता । [८] [९] अनेन सा भारतस्य प्रथमा महिलान्यायाधीशा जाता । १९४८ तमे वर्षे सा मण्डलन्यायाधीशारूपेण पदोन्नतिं प्राप्नोत् । [१०]

१९५९ तमस्य वर्षस्य फेब्रवरीमासस्य ९ दिनाङ्के सा केरलस्य उच्चन्यायालयस्य न्यायाधीशारूपेण नियुक्ता जाता येन सा भारतस्य उच्चन्यायालयस्य प्रथमा महिला न्यायाधीशा जाता । १९६७ तमस्य वर्षस्य एप्रिल्मासस्य ५ दिनाङ्कं यातत् सा तत् उत्तरदायित्वं निरूढवती । [११] अनेन भारतस्य न्यायक्षेत्रे महिलानां वृत्तिजीवनस्य आशोत्तराणि सबलानि जातानि । लिङ्गतटस्थन्यायव्यवस्थायाः अन्वयने अपि इदं सहाकरोत् इति वदति केरलस्य उच्चन्यायालयस्य मुख्यन्यायाधीशः वि के बालिवर्यः । [१२]

निवृत्तिजीवनम् सम्पादयतु

निवृत्त्यनन्तरं चाण्डी भारतस्य न्यायसमितौ (Law Commission of India) कार्यम् अकरोत् । तया आत्मकथानामकम् आत्मचरितं १९७३ तमे वर्षे लिखितम् । [१३]

मृत्युः सम्पादयतु

१९९६ तमस्य वर्षस्य जुलैमासस्य २० तमे दिनाङ्के अन्न चाण्डी दिवङ्गता ।[१४]


उल्लेखः सम्पादयतु

  1. Devika J. (2005). Herself. Popular Prakashan. p. XXIV. 
  2. "Former Judges of High Court of Kerala". आह्रियत 2013-11-29. 
  3. ३.० ३.१ "Women of Achievement". Archived from the original on 2008-06-16. आह्रियत 2013-11-29. 
  4. "supremecourtofindia.nic.in Page 3/5". आह्रियत 2013-11-29. 
  5. Devika J. (2005). Herself. Popular Prakashan. p. xxiv. 
  6. Raman, K. Ravi, ed. (2010). Development, Democracy and the State: Critiquing the Kerala Model of Development. Routledge. p. 179. ISBN 9781135150068. 
  7. Mukhopadhyay, Swapna, ed. (2007). The Enigma of the Kerala Woman: A Failed Promise of Literacy. Berghahn Books. p. 113. ISBN 9788187358268. 
  8. "First woman judicial officer: Anna Chandy, who was appointed munsif in the Travancore state in 1937.". Archived from the original on 2018-12-25. आह्रियत 2008-05-27. 
  9. "First to appoint a lady advocate – Mrs. Anna Chandy — as District Judge.". Archived from the original on 2008-07-05. आह्रियत 2008-05-27. 
  10. "First to appoint a lady advocate – Mrs. Anna Chandy — as District Judge.". Archived from the original on 2008-07-05. आह्रियत 2008-05-27. 
  11. "Former Judges of High Court of Kerala". आह्रियत 2008-05-27. 
  12. "The Hindu daily -Chief Justice of the Kerala High Court V.K. Bali". Chennai, India. 2006-11-06. Archived from the original on 2008-03-24. आह्रियत 2008-05-28. 
  13. "First to appoint a lady advocate – Mrs. Anna Chandy — as District Judge.". Archived from the original on 2008-07-05. आह्रियत 2008-05-27. 
  14. "Malayalam Sarva Vijnjana kOsham - Article on Anna Chandy". Archived from the original on 2013-12-03. आह्रियत 2013-11-29. 

बाह्यसम्पर्काः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अन्न_चाण्डि&oldid=479886" इत्यस्माद् प्रतिप्राप्तम्