क्रिस्तीय (gr. - Xριστός) विश्वस्य विस्तृतः धर्मोऽस्ति । अस्य संस्थापकः प्रभुः यीशुरस्ति | अमेरिकायां यूरोपे च इदं मतं प्रबलमस्ति। क्रैस्तमतस्य १∙३ कोटिपरिमिता अनुयायिनः सन्ति। क्रैस्तमते अनेके विभागाः सन्ति। परन्तु सर्वे एकस्मिन् प्रभौ परमेश्वरे येशुक्रिस्ते विश्वासं कुर्वन्ति । क्रैस्तमतस्य प्रधानग्रन्थो बैबल् अस्ति। अस्मिन् मते प्रधानविभागः क्याथोलिक् अस्ति। क्रैस्तमतस्य अनुयायिनः 'क्रैस्तवाः’ इति कथ्यन्ते । क्रैस्त–उत्सवाः विविधाः भवन्ति‚क्रिस्मस्‚ ईस्टर्‚ इत्यादीनि । क्रैस्तमतम् एकैश्वरविश्वासवत् मतमस्ति।

P christianity.svg
Percent of Christians by Country–Pew Research 2011.svg

विश्वासाःसंपादित करें

 
The "Shield of the Trinity" or "Scutum Fidei" diagram of traditional Western Christian symbolism.

ईश्वर एकोऽस्ति। परन्तु तस्मिन् त्रयः व्यक्तयः सन्ति–ते पिता‚ पुत्रः, पवित्रात्मा च। पिता किमस्ति तदेव पुत्रः पवित्रात्मा च। परन्तु ते व्यतिरिक्ताः सन्ति।अतः क्रैस्तवेभ्य ईश्वऱस्त्रियेकोऽस्ति। ईश्वरः प्रपञ्चमसृजत्। मनुष्य एव प्रपञ्चस्य केन्द्रमासीत्। परन्तु मनुष्याः पापं कृतवन्तः। अतः पुत्रः(ईश्वरस्य द्वितीया व्यक्तिः) मनुष्याणां पापपरिहारार्थं भूमिमागच्छत्। सः पुरुषसंसर्गं विना पवित्रात्मना मेरी नाम्नः कन्यकाया जातः। सः येशुक्रिस्तुरिति ज्ञातम्। सः मनुष्याणां पापपरिहारार्थं क्रूशे यहूदैः हतः। परन्तु त्रयाणां दिवसानां पश्चात् तेन उत्थितम्। ४० दिवसानां पश्चात् सः स्वर्गं प्राविशत्। मनुष्यान् विधिं कर्तुम् सः पुन आगमिष्यति।

क्रैस्तमते पापं द्विविधे भवतः - उद्भवपापं कर्मपापञ्च l येशुक्रिस्तुः तस्य रक्षां प्रदानं कर्तुं एकां सभाम् अस्थापयत्। इयं सभा पश्चात् क्याथोलिक् सभा इति ज्ञाता। इयं सभा एका, विशुद्धा, सार्वत्रिका श्ळैहिका चास्ति। अस्यै सभायै एकविश्वास एकज्ञानस्नानमेकाधिकारी च सन्ति। अतः सा एकास्ति। अस्याः स्थापकः शुद्धः, अस्या अनेके विशुद्धाः सन्ति; अतः सा विशुद्धा अस्ति। इयं सभा भूमौ व्यापितास्ति। अतः सा सार्वत्रिकास्ति। इयं सभा श्ळीहैः (येशुक्रिस्तोः शिष्यैः) स्थापितास्ति। अतः सा श्ळैहिकास्ति।

येशुक्रिस्तुःसंपादित करें

 
The oldest surviving panel icon of Christ Pantocrator, encaustic on panel, c. 6th century.

येशुक्रिस्तुः अथवा ईशोमिशिहा क्रैस्तमतस्य स्थापकोऽस्ति। तस्य जन्मः क्रिस्तोः प्राक् ७–६ तमे अभवतिति अनेके पण्डिताः कथयन्ति। सः एव त्रियेकैश्वरस्य द्वितीयो व्यक्तिः। सः पूर्णमनुष्यः पूर्णैश्वरश्च अस्ति। सः कालस्य पूर्णतायां कन्यामेरीतः पवित्रात्मना पुरुषसंसर्गं विना बेत्लेहेमे जातः। मेर्याः भर्ता जोसफ आसीत्। सः मनुष्यरक्षार्थं भूमिं आगच्छत् । तस्य बाल्यकालो नस्रेते आसीत् l येशो र्बाल्यकालः ज्ञाने प्राये ईश्वरमनुष्यप्रीतौ आसीत् l त्रिंशत् वयसि सः सुविशेषप्रघोषणार्थम् गच्छत् l सः नीतिमान् सत्यसन्धश्चासीत् l स अनेकानि अद्भुतान्यकरोत् l सोऽन्धेभ्यो दृष्टिः, बधिरेभ्यः श्रवणशक्तिः, विकलाङ्गेभ्यश्चलनशक्ति र्ददात् l सो यहूदमतस्य अन्धविश्वासाः त्यक्तवान् l सोऽकथयत् "शत्रुष्वपि स्नेहं कुर्वन्तु, ये भवद्भ्यः घृणां कुर्वन्ति, तेषामपि कल्याणं सम्पादयन्तु । ये भवद्भ्यो द्विषन्ति तेषामपि मंगलाय प्रार्थयन्ताम् । ये भवतः शपन्ति तानपि अनुकम्पताम् "l परन्तु यहूदमतस्य पुरोहितप्रमुखास्तं व्याज इत्युक्त्वा क्रूसेऽमारयत् l


बाह्यसम्पर्कतन्तुःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=क्रैस्तमतम्&oldid=468762" इत्यस्माद् प्रतिप्राप्तम्