अपरेयमितस्त्वन्यां...
भगवद्गीतायाः श्लोकः ७.५
श्लोकः
सम्पादयतु- अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
- जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य पञ्चमः श्लोकः ।
पदच्छेदः
सम्पादयतुअपरा इयम् इतः तु अन्यां प्रकृतिं विद्धि मे पराम् जीवभूतां महाबाहो यया इदं धार्यते जगत् ॥ ५ ॥'
अन्वयः
सम्पादयतुमहाबाहो ! इयम् अपरा । इतः मे जीवभूताम् अन्यां परां प्रकृतिं विद्धि, यया इदं जगत् धार्यते ।
शब्दार्थः
सम्पादयतु- महाबाहो = अर्जुन
- इयम् = असौ
- अपरा = संसारबन्धनात्मिका
- इतः = अस्याः
- अन्याम् = भिन्नाम्
- प्रकृतिं तु = शक्तिं तु
- मे = मम
- पराम् = प्रकृष्टाम्
- जीवभूताम् = प्राणधारिणीम्
- विद्धि = जानीहि
- यया = यया प्रकृत्या
- इदम् = एतत्
- जगत् = भुवनम्
- धार्यते = उह्यते ।
अर्थः
सम्पादयतुमहाबाहो ! अष्टधा विभक्ता इयं मम प्रकृतिः संसारबन्धनात्मिका अस्ति । अस्याः अन्या अपि मम प्रकृतिः अस्ति । प्रकृष्टा सा एव सर्वेषां प्राणधारिणी अस्ति । तया एव एतद् जगत् धार्यते ।