अपह्नुत्यलङ्कारः
अपहनुति: इत्यस्य निषेध: इत्यर्थ:, सच सादृश्यमूलकाभेदमतिपतिपूर्वक: अलकारः। अपहनुति: षट्विधा: -
(१) शुद्धापह्नुति: (२) हेत्वापह्नुतिः (३) पर्यस्तापह्नुतिः (५) भ्रान्तापह्नुतिः (५) छेकापह्नुतिः
(६) कैतवापह्नुति:।
- (१) शुद्धापह्तुति:
- शुद्धापह्नुतिरन्यस्य आरोपार्थो धर्मनिह्नवः ।
- नायं सुधांशु किं तर्हि? व्योमगङ्गसरोरुहम् ॥
अर्थः
सम्पादयतुवर्णनीयवस्तूनि तत्सदृशधर्मारोपफलकः तदीयो धर्मः निह्नवः कविमतिविकासित-उत्प्रेक्षितधर्मान्तरस्यापि निह्नवः शुद्धापह्नुतिः । यथा चन्द्रे वियन्नद् पुण्डरीकत्वारोपफलकस्तदीयधर्मस्य चन्द्रत्वस्यापह्नवः ।
उदाहरणान्तरम्
सम्पादयतु- अङ्कं केऽपि शशङ्किरे जलनिधेः पङ्कं परे मेनिरे
- सारङ्गं कतिचिच्च सञ्जगदिरे भूच्छायमैच्छन् परे ।
- इन्दौ यत् दलितेन्द्रनीलशकलश्यामं दरीदृश्यते
- तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्षते ॥
अत्र उत्प्रेक्षितधर्माणां अपि अपह्नवः परपक्षत्वोपन्यासादर्थसिद्धिः ।