अप्रकाशोऽप्रवृत्तिश्च...


श्लोकः सम्पादयतु

 
गीतोपदेशः
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य त्रयोदशः(१३) श्लोकः ।

पदच्छेदः सम्पादयतु

अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च तमसि एतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥

अन्वयः सम्पादयतु

कुरुनन्दन ! अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च एतानि तमसि विवृद्धे जायन्ते ।

शब्दार्थः सम्पादयतु

कुरुनन्दन = अर्जुन !
अप्रकाशः = अविवेकः
अप्रवृत्तिः = प्रवृत्त्यभावः
प्रमादः = अनवधानम्
मोहः = मन्दत्वम्
तमसि = तमोगुणे
विवृद्धे = प्रवृद्धे
जायन्ते = भवन्ति ।

अर्थः सम्पादयतु

अर्जुन ! पुरुषस्य यदा विवेकभ्रंशः शास्त्रविहितकर्मसु अप्रवृत्तिः, कार्ये अनवधानम्, भ्रान्तिः निद्रा इत्यादयः भवन्ति तदा तमोगुणः वृद्धिं गतः इति ज्ञातव्यम् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु