अफलाकाङ्क्षिभिर्यज्ञो...


श्लोकः सम्पादयतु

 
गीतोपदेशः
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ ११ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः सम्पादयतु

अफलाकाङ्क्षिभिर्यज्ञः विधिदृष्टः यः इज्यते यष्टव्यम् एव इति मनः समाधाय सः सात्त्विकः ॥

अन्वयः सम्पादयतु

अफलाकाङ्क्षिभिः यष्टव्यम् एव इति मनः समाधाय विधिदृष्टः यः यज्ञः इज्यते सः सात्त्विकः ।

शब्दार्थः सम्पादयतु

अफलाकाङ्क्षिभिः = फलम् अनपेक्षमाणैः
यष्टव्यम् एव इति = यज्ञः कर्तव्यः इति
समाधाय = मनः एकाग्रं कृत्वा
विधिदृष्टः = शास्त्रविहितः
इज्यते = क्रियते
सात्त्विकः = सत्त्वसम्बन्धी ।

अर्थः सम्पादयतु

फलम् अनपेक्ष्य यज्ञः कर्तव्यः इति दृढं सल्प्य एकाग्रेण मनसा यथाशास्त्रं यः यज्ञः क्रियते सः सात्त्विकः इत्युच्यते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु