अभिज्ञानशाकुन्तलम्

महाकवि कालिदासेन कृतं विश्वप्रसिद्धं नाटकम्

अभिज्ञान शाकुन्तलम् महाकवि कालिदासेन विरचितमेकं बहु प्रसिद्धं नाटकम् अस्ति। अस्य नाटकस्य नायकः दुष्यन्तः नायिका शकुन्तला चास्ति। दुष्यन्तः शकुन्तलया सह गान्धर्व-विवाहं कृतवान्, तदा सः स्मृतिचिन्हं नाम अङ्‍गुलीयकं दत्तवान्। तत् अभिज्ञानं मुनेः दुर्वाससः शापेन विलुप्तमभवत्। शापवशात् राजा दुष्यन्तः शकुन्तलां विस्मृतवान्।

रविवर्मणा रचिता शकुन्तला- महाभारतस्य किञ्चन पात्रम्

तदनन्तरं दुष्यन्तेनापमानिता गर्भवती सा वनाश्रमे निवसन्ती भरतनामकं पुत्रमजनयत् । द्वादशवर्षानन्तरं केनचिद् धीवरेण तदंगुलीयकमभिधानं दुष्यन्तः लब्धवान् । तद् दृष्ट्वैव संपूर्णं पूर्ववृत्तं स्मृतवान्। विरहशोकाकुलः सः शकुन्तलामन्वेष्टुं वने परिभ्रमन् तत्राश्रमे गतवान्। तत्र भरतेन सह शकुन्तला मिलितवती । नाटकस्यास्य विश्वसाहित्येऽत्यधिकं महत्त्वं वर्तते। साहित्यसमीक्षकाः कथयन्ति यत् --

काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला।
तत्रापि चतुर्थोंकः तत्र श्लोकचतुष्टयम् ।।

शेक्सपियर् तुलनां जनाः कालिदासस्य सह कुर्वन्ति। शाकुन्तलविषये गटेनामकस्य जर्मनकवे:अभिप्राय: अभिज्ञानशाकुन्तलं नाटकस्य मूलकथावस्तु महाभारतात् आदिपर्वणः शकुन्तलोपाख्यानात् उद्धृतम् ।

नाटकेऽस्मिन् नायिका शाकुन्तला नायकेन राज्ञा दुष्यन्तेन गान्धर्वविवाहविधिना परिणीता । स्वनगरं प्रति परावर्तमानेन तेन “ एकैकमत्र दिवसे दिवसे मदीयं, नामाक्षरं गणय, गच्छसि यावदन्तम्” ॥ इत्युक्त्वा स्वनामङ्कितमंगुलीयकं स्वयमेव शाकुन्तलायाः हस्ते परिधापितम् । इत्यभिज्ञानविषयिणी घटना महाभारतस्यादिपर्वात् गृहीता ।

नामकरणम्

सम्पादयतु

“अभिज्ञायते अनेन इति अभिज्ञानम् चिह्नमिति, अभि+ ज्ञा + ल्युट् । शकुन्तैः लालिता शकुन्तला । शकुन्तलामधिकृत्य कृतं नाटकं शाकुन्तलम् ‘अधिकृत्यकृते ग्रन्थे’ इति सूत्रेण ‘अण्’ प्रत्ययः । अभिज्ञानप्रधानं शाकुन्तलम् ‘अभिज्ञानशाकुन्तलम्’ इति व्युत्पतिं दर्शं दर्शं सिध्दमेव अभिज्ञानशाकुन्तलस्य समस्या प्रधानत्वम्, नायिकाप्रधानत्वं च । अतः समस्यां नायिकां च आदाय कृतमस्य ‘अभिज्ञानशाकुन्तलम्’ इति नामकरणं सर्वथा सफलमुचितम् चास्ति । अथवा – अभिज्ञानसहितं शाकुन्तलम् अभिज्ञानशाकुन्तलम् । अथवा अभिज्ञानञ्च शकुन्तलाञ्च इति अभिज्ञानशाकुन्तलम् । कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम् । अभिज्ञानशाकुन्तले चतुर्थेऽङ्के कविः कण्वरुपेण उपस्तितोऽस्ति ।

अभिज्ञानशाकुन्तलस्य चतुर्थेऽङ्के लौकिकालौकिक प्रकृतिमानवयोः विलक्षणं समन्वयोऽस्ति । वनौकसोऽपि वयं लौकिकज्ञा एव इति कण्वस्य उद्घोषणा चतुर्थाऽङ्कस्य वैशिष्ट्यं द्विगुणयति । अरण्यवासिन्याः शाकुन्तलायाः पतिगृह- हस्तिना पुरगमनम् अरण्यराजप्रसादयोः किमपि विलक्षणं सम्बन्धं प्रतिपादयति । दुर्वाससः शापः, आकाशवाणी, शकुन्तलायाः पतिगृहगमनम्, वनस्पतिभ्यः शकुन्तलायै आभूषणप्रदानम्, कोकिलरवेण शकुन्तलायाः पतिगृहगमनाय वनस्पतीनां स्वीकृतिः , मृगशावकेन शकुन्तलामार्गावरोधः, शकुन्तलायाः प्रस्थानं चेति चतुर्थोऽङ्कस्य महत्वपूर्णाः घटनाः सन्ति । अभुज्ञानशाकुन्तलस्य चमत्कारो दुर्वाससः शापघटनायामाश्रितोऽस्ति, अत एव अंकोऽयं विशिष्टं स्थानं बिभर्ति । सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् इत्यनेन शकुन्तलायाः पतिगृहगमनाय अनुज्ञा प्रार्थिता ।

क्षौमं केनचिदिन्दुपाण्डुतरुणा मांगल्यमाविष्कृतम् इत्यनेन शकुन्तलायै वनस्पतिभि आभूषणप्रदानमपि विशिष्टा घटना अस्ति । अस्मान् साधु विचिन्त्य “ इति महर्षिणा कण्वेन दुष्यन्ताय तथा ‘शुश्रूषस्व गुरुन् कुरु’- इत्यनेन शाकुन्तलायै कृत उपदेशः शाश्वतिकः तथा समाजे सर्वेषां कृते महदुपयोगी अस्ति ।
आपरितोषाद् विदुषां न साधु मन्ये प्रयोग-विज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥

ग्रन्थारम्भे सूत्रधारेण पात्राणां अवधानोपदेशार्थम् उक्तेसति सुविदितप्रयोगतयार्थस्य न किमपि परिहास्यते इति नटीवचनं श्रुत्वा सूत्रधारमुखेन महाकविः भूतार्थं कथयति – प्राज्ञानां सन्तोषपर्यन्तम् अभिनयकौशलं समीचीनं न स्वीकरोमि । कृताभ्यासानां निपुणानामपि सुदृढं चित्तं स्वविषये अविश्वस्तं भवति । ईदृशः वाग्व्यवहारः महाकवेः गुण-गौरवमेव प्रथयति ।

कथायाः पृष्ठभूमिः

सम्पादयतु

पुरुवंशस्य राजा दुष्यन्तः कदाचित् मृगयां कुर्वन् अटव्यां हरिणं अनुधावन् मालिनीतीरे विद्यमानस्य कण्वस्य आश्रमं प्रविशति । कण्वः फलपुष्पाणि आनेतुं गत इत्यतः काचित् सुन्दरी तापसकन्या तस्मै स्वागतं करोति । अर्घ्यपाद्यादिभिः सत्करोति सा । तस्याः रूपेण मोहितः दुष्यन्तः स्वपरिचयं तस्यै कुर्वन् तां प्रति - त्वं क्षत्रियोऽसि ? त्वां प्रति मम मनः आकर्षति । अहं त्वां कामये इत्यवदत् । शकुन्तला तु - अहं मेनकाविश्वामित्रयोः पुत्री इति, ताभ्यां यदा परित्यक्ताहं शकुन्तपक्षिभिः रक्षिता इति, ततः कण्वमहर्षिः वने मां दृष्ट्वा आश्रमं प्रति आनीय पोषितवान् इति । शकुन्तपक्षिभिः रक्षिता अहं शकुन्तला इति नामधेयं प्राप्नवम्। यदि मां वोढुं वाञ्छसि तर्हि कण्वमहर्षेः अनुमतिः अपेक्षिता इत्यादिकं सर्वं वृत्तान्तम् अकथयत् ।
दुष्यन्तः तु क्षत्रियाः गान्धर्वविधिना परिणेतुं शक्नुवन्ति । तदर्थं कण्वस्य आक्षेपः न स्यादिति, त्वयि जायमानमेव उत्तराधिकारिरूपेण ताम् अङ्गीकारयित्वा तस्याः पुत्रमेव युवराजं करिष्यामि इति प्रतिश्रुण्वानः तां परिणीतवान् । अग्रे तस्यै राजयोग्यानि वेषभूषणानि सेवकद्वारा प्रेषयामि इति उक्त्वा कण्व मम विषये किं वदेत् इति चिन्तयन्नेव स्वनगरं प्रायात्।
कण्वे आश्रमं प्रत्यागते शकुन्तला तस्य शिरसः उपरि विद्यमानं भारम् अवतारयति । तथापि तस्य मुखं अदृष्ट्वा लज्जया अधोमुखी तिष्ठति । कण्वे लज्जायाः कारणं पृच्छति सति शकुन्तला दुश्यन्तेन साकं कृतविवाहवृत्तन्तं अकथयत् । दिव्यदृष्ट्या सर्वविदितः कण्वः - ”वत्से ! त्वया कृतः अधर्मः न । क्षत्रियाणां गान्धर्वविधिना परिणयः सम्मतः” इति समर्थयति । कालक्रमेण गर्भवती शकुन्तला रूपगुणसम्पन्नोपेतं सुतं असूत । पुत्रस्य षट् वर्षाणि अतीतानि चेदपि दुष्यन्तः नागतः । सः अपि आरम्भदिनेषु कण्वः किमपि वदेत् इति चिन्तयन् न प्रवर्तते स्म, क्रमेण शकुन्तलायाः विषयः तेन विस्मृतः । परं सा तु तं निरीक्षमाणा खिद्यते स्म । बालस्तु धीरः सन् वनस्य सर्वप्राणिनः अपि निगृह्य आत्मानं "सर्वदमन" इति परिचाययति स्म । तं यौवराज्याय अर्हं मन्वानः कण्वः मुहूर्तं निश्चित्य स्वशिष्यैः सह शकुन्तलां तत्पुत्रं च दुष्यन्तस्य राजधानीं प्रति प्रेषयामास ।

 
शोकाकुला शकुन्तला

यदा शकुन्तला पतिगृहं प्रस्थिता तदा पालितपितुः कण्वस्य नेत्रे अश्रुपूर्णे भवतः । तच्छिष्याः तां राजधानीं प्रापय्य प्रत्यागच्छन्ति । पुत्रेण सह शकुन्तला राजसभायां दुष्यन्तं दृष्ट्वा स्ववृत्तान्तं सर्वं निवेदयति । तस्याः वचनेन स्मृतपूर्ववृत्तान्तः राजा अपि लोकापवादात् भीतः अहं किमपि नजाने इति वदति । तामुद्दिश्य - शकुन्तले ! का त्वम् ? कुतः अत्र आगतं त्वया ? किं साहाय्यम् अपेक्षितम् ? इति अपरिचितः इव सम्भाषते । ततः शकुन्तला - "महाराज ! अयं तव पुत्रः । त्वया आश्रमे दत्तवचनानुसारं तव राज्यस्य उत्तराधिकारी भविता । यदा त्वया आश्रमं प्रति आगतं तदा प्रवृत्तं सर्वं स्मर" इत्यादि रीत्या अभियाचते । दुष्यन्तः शकुन्तलां न विस्मृतवान् आसीत् परं तस्मिन् क्षणे किमपि अजानन् इव -

धर्मार्थकामसम्बन्धं न स्मरामि त्वया सह ।
गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत् कुरु ॥

अस्य तात्पर्यमेतत् - धर्मार्थकामार्थं त्वया सह सम्बन्धकरणं न मया स्मर्यते । त्वं याहि, अत्रैव तिष्ठ स्वेच्छानुसारं वा कर्म कुरु इति साक्षात् वदति । शकुन्तला अवमानेन लज्जया च पीडिता क्षणं यावत् किङ्कर्तव्यमूढा तिष्ठति । तदा नितरां कुपिता सा दुष्यन्तं सम्यक् निर्भत्सयन्ती- "महाराज ! जानन्नपि कुतः एवं प्रलपसि ? एवम् असत्यं कथयन् त्वं हृदि संस्थितं सर्वसाक्षिणं परमात्मानं मा अवमानय । अहं तव धर्मपत्नी । यदि मां त्यजसि न किमपि दुःखम्, परं एतं तव पुत्रं मा त्यज । मम वचनं यदि उपेक्षसे तर्हि तव शिरः सहस्रशः छिद्रं भविष्यति" इत्यादिभिः वचनैः भर्त्सयति । तथापि दुष्यन्तस्य मनः न द्रवति । पूर्वतनं किमपि न स्मरन् सः अन्ते तामेव "वेश्यापुत्रि !" इति निन्दति । शकुन्तलायाः नयविनयादिभिः याचनादिभिः अपि दुष्यन्तः नाङ्गीकरोति । तदा सा कोपाग्निम् असहमाना पुत्रेण सह ततः निर्गता । तावता - "भरस्व पुत्रं दुष्यन्त ! मावमंस्थाः शकुन्तलाम्" (हे दुष्यन्त ! अयं तव पुत्रः, तं पोषय । शकुन्तलायाः अवमाननं मा कुरु) इति अशरीरवाणी काचित् भविष्यति, शकुन्तलायाः उपरि पुष्पवृष्टिः च भविष्यति । ततः दुष्यन्तः सिंहासनात् अवतीर्य अन्तरिक्षदेवताः नमस्कृत्य राजसभायां मन्त्रिपुरोहितं च उद्दिश्य - "अहं तु एतां जाया इति, अयं तव पुत्रः इति सम्यक् एव अभिज्ञातवान् अधुना अशरीरवाणी जाता इत्यतः अयं पुत्रः मदीयः शुद्धः इति निःशङ्कं कथयामि इति वदन् तम् आलिङ्गितवान्, शकुन्तलां च आदरेण सत्कृतवान् । सर्वदमनः युवराजपदे नियुक्तः सन् अग्रे भरतः इति प्रसिद्धिम् अवाप । शकुन्तला पट्टमहिषी सञ्जाता ।

शकुन्तलादुष्यन्तयोः कथा पुराणकाले अतीव प्रसिद्धः स्यात् । अतः इयं कथा न केवलं महाभारते, भागवते, विष्णुपुराणे, हरिवंशे, मत्स्यपुराणे, वायुपुराणे, पद्मपुराणे च दृश्यते । बौद्धानां जातककथायामपि शकुन्तलाकथासदृशी अपरा काचित् कथा विद्यते । जैनसम्प्रदायेऽपि (पार्श्वनाथचरित्रम्) कालिदासस्य शाकुन्तलनाटकसदृशी अन्य कथा दृश्यते । एतैः अंशैः शकुन्तलादुष्यन्तयोः कथा अनादिकालात् अपि प्रचलिता इति ज्ञायते ।
कालिदासस्य नाटकस्य कथायाः महाभारते उक्तायाः कथायाः च तुलनां कुर्मः चेत् अत्र कालिदासस्य रचनाकौशल्यम् उदात्तं रचनात्मकं च परिवर्तनं दृश्यते । कालिदासेन ग्रथितस्य अभिज्ञानशाकुन्तलस्य प्रथमाङ्कः कण्वस्य अश्रमस्य दृश्यम् । तस्य आरम्भः अष्टमूर्तेः शिवस्य स्तवनेन भवति । ततः सूत्रधारः नट्या सह रङ्गं प्रविश्य ग्रीष्म-ऋतुवर्णनद्वारा सङ्गीतस्वादम् अनुभवति । नवीनतया रचितस्य कालिदासस्य नाटकस्य परिचयं कारयति । तदनन्तरं दुष्यन्तः हरिणम् अनुधावन् आगच्छन्नास्ति इति घटनां संसूच्य प्रस्तावनं समाप्य निर्गच्छति ।

प्रथमोऽङ्कः

सम्पादयतु

अथ नाट्टकस्यादौ पूर्वरङ्गाङ्गभूताम् आशीरूपां या 'सृष्टिः स्रष्टुराद्या' इत्यात्मिकामष्टपदीं नान्दीं विघ्नव्यूह-निरासाय पठति सूत्रधारः । ततः सुत्रधारो नटीं ब्रते यत्, आर्ये ! कालिदासेण ग्रथितवस्तुनः अभिनयेन अभिज्ञानशाकुन्तलनामकेन नाटकेन उपस्थातव्यमिति तदनु चिरप्रवृत्तमुपभोगक्षमं ग्रीष्मकालमधिकृत्य नटी गायति। मनोहारिणा तेन गीतेन मृगेण राजा दुष्यन्त इव अहमपि हठात् मनोहारिणा गीतेन हृतोऽस्मीति प्रस्तौति प्रस्तावनायां सूत्रधारः -

तवास्मि गीतरागेण हारिणा प्रसभं हृतः।

एष राजेव दुष्यन्तः सारङ्गणातिरंहसा ।।[]

तदनन्तरं मृगवधाय यावदसौ राजा धनुषि शरं संधत्ते, तावदेव द्वो वैखानसौ (संन्यासिनौ) 'आश्रममृगोऽयं न हन्तव्यो न हन्तव्य' इति निषेधयन्तौ दुष्यन्तं निवारयतः । सोऽपि तदादेशानुसारं सद्यः सायकं (तीरं) प्रतिसंगृहीतवान् । ततः ताभ्यां स्वात्मानुगुणं चक्रवर्तिनं तनयं प्राप्नूहि इति शुभाशिषं प्रदाय कण्वाश्रमे प्रवेशायानुरोधं कृत्वा समिदाहरणार्थं, प्रस्थितौ । ततो राजा तपोवनोवरोधो मा भूदिति रथादिकं बहिः संस्थाप्य दक्षिणबाहुस्पन्दनपूर्वकं विनीतवेषेण आश्रमं प्रविश्य तत्र सखीभ्यां समेताम् आम्रान् सिञ्चन्तीं शकुन्तलाम् आलोक्य आत्मगतं चिन्तयति -

इदं किल व्याज मनोहरं वपुस्तपः क्षमं साधयितुं य इच्छति ।

ध्रुवं स नोलोत्पल पत्रधारया शमील्लत छेत्तुमृषिर्व्यवस्यति ॥[]

सरसिजमनुविद्धं शैवलेनापि रम्यं, मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति।

इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव मधुराणां मण्डनं नाकृतीनाम् ॥२०॥

अत्रान्तरे भ्रमरपीडिता शकुन्तला आत्मानं परित्रातुं सख्यो प्रार्थितवती । ततः तयोः सपरिहासं भणति – के आवां परित्रातुम् । राजरक्षितव्यानि तपोवनानि । अतो दुष्यन्तनमाक्रान्द। स एवागत्य त्वां परित्रास्यति । अवसरं ज्ञात्वा दुष्यन्तस्य स्वात्मप्रकाशनम्, ससम्भ्रमां शकुन्तलां वीक्ष्य अनसूयाप्रियंवदयोः - राज्ञ आतिथ्यसामग्रीसञ्चयार्थं शकुन्तलायै आदेशदानम् । ततो राजा - भवतीनां सुनृतया गिरा एवं कृतमातिथ्यम् । ततः सखीसकाशात् तन्नामजन्माद्यवगम्य तदीयरूपलावण्याकृष्टो राजा ब्रवीति -

मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः।

न प्रभातरलं ज्योतिरुदेति वसुधातलात्।।[]

इदं श्रुत्वा शकुन्तलाऽधोमुखी तिष्ठति । ततो नेपथ्ये – भो भोः तपस्विनः मृगयाविहारी राजा दुष्यन्तः प्रत्यासन्नो वरीवर्ति। अतः तपोवनसत्वरक्षायै सज्जीभवन्तु भवन्त इति श्रवणम् । किमस्मदन्वेषिणः पौराः तपोवनम् उपरुन्धन्ति। अतः आश्रमपीडा यथा न भवेत्तथा प्रयतिष्यामहे । दुष्यन्तरथदर्शनसम्भ्रान्तस्य कस्यचिद् वन्यगजस्य तपोवनप्रवेशं श्रुत्वा संभ्रान्ता मुनिकुमार्यः उत्तस्थुः कथयामासतुश्च आर्य वन्यगजवृत्तान्तेनानेन पर्याकुलः स्मः । अतोऽनुजानीहि उटजगमनाय। असम्भावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे आर्ये विज्ञापयितुम् । राजापि मा मैवं दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि । शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य निर्गता। राजापि नगरगमनं प्रति मन्दौत्सुक्यः सन् यथा आश्रमबाधा न भवेत्तथा यतिष्ये इत्युक्त्वा निष्क्रान्तः

का कथा बाणसंधाने ज्याशब्देनैव दूरतः । हुंकारेणेव धनुषः स हि विघ्नानपोहति ॥ १ ॥ जाने तपसो वीर्ये सा बाला परवतीति मे विदितम् । अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥ २ ॥ तव कुसुमशरत्वं शीतरश्मित्वमिन्दो- र्द्वयमिदमयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगर्भैरग्निमिन्दुर्मयूखै- स्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ।। ३ ।। शक्यमरविन्दसुरभिः कणवाही मालिनीतरंगाणाम् । अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥ ४ ॥ अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् । द्वारेऽस्य पाण्डुसिकते पदपंक्तिर्दृश्यतेऽभिनवा ॥ ९ ॥ स्तनन्यस्तोशीरं शिथिलितमृणालैकवलयं प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् । समस्तापः कामं मनसिजनिदाघप्रसरयो न तु ग्रीष्मस्यैवं सुभगमपराद्धे युवातिषु ॥ १० ॥ क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यः क्लान्ततरः प्रकामविनतावन्सौ छविः पाण्डुरा । शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥११॥ पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुम् । दृष्टो निवृत्य बहुशोऽप्यनया सतृष्ण- मत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥ १२ ॥ स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः। दिवस इवार्धश्यामस्तपात्यये जीवलोकस्य ॥ १३ ॥ इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः। अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात् कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ १४ ! अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् । लभेत् वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत् ॥ १५ ॥ उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्या । कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥ १६ ॥ तुज्झ ण आणे हिअअं मम उण कामो दिवावि रत्तिम्मि ।

णिग्घिण तवइ बलीअं तुइ वुत्तमणोरहाइं अङ्गाइं ॥ १७ ॥

तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥१८॥ संदष्टकुसुमशयनान्याशुक्लान्तविसभङ्गसुरभीणि । गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥ १९ ॥ इदमनन्यपरायणमन्यथा हृदयसंनिहिते हदयं मम । यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः॥२०॥ परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे । समुद्रवसना चोर्वी सखी च युवयोरियम् ॥ २६ ॥ किं शीतलैः क्लमविनोदिभिरार्दवातान् संचारयामि नलिनीदलतालवृन्तैः । अङ्के निधाय करभोरु यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ॥ २२ ॥ उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् । कथमातपे गमिष्यसि परिबाधापेलवैरङ्गै: ॥ २३ ॥ गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः । श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनदिन्ताः ॥ २४ ॥ अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्पदेन । अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य ॥ २५ ॥ मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥२६॥ तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः । हस्ताद् भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥ २७ ॥ सायंतने सवनकर्मणि संप्रवृत्ते वेदिं हुताशनवतीं परितः प्रयस्ताः । छायाश्चरन्ति बहुधा भयमादधानाः संध्यापयोदकपिशाः पिशिताशनानाम् ॥ २८ ॥

इति तृतीयोऽङ्कः ।

तृतीयोऽङ्कः

सम्पादयतु

अथ कुशहस्तो यजमानः शिष्यः प्रविश्य राज्ञो दुष्यन्तस्य तपोवनप्रवेशात निरुपप्लवं निखिलं यज्ञकर्म संवृत्तमिति सगौरवं तस्य शौर्यं प्रतापातिशयं च वर्णयति विष्कम्भके -

का कथा बाणसन्धाने ज्याशब्दे नैव दूरतः ।

हुंकारणैव धनुषः स हि विघ्नानपोहृति ।।[]

ततो मुनिभिरनुज्ञातो दुष्यन्तः दूरीकरणाय श्रमक्लममनोविनोदाय च क्व गच्छामि ? अथ शशाङ्कमदनानुद्दिश्य कामव्यथां वर्णयन् सखीपरिवृता शकुन्तला मालिनी नदीतटे इमामुग्रां वेलामतिवाहयतीति तामन्विष्यन् मालिनीतीमाययी तत्र लतामण्डपे कुसुमास्तरणं शिलापट्टमधिशयानां सखीभ्यां नलिनीदलादिभिरुपचार्यमाणां शकुन्तलामक्षिलक्ष्यी चकार । बलवदस्वस्थशरीरायाः शकुन्तलायाः सखीभ्यां सह विश्रम्भालापांश्च संश्रोतुकामो नृपः शाखान्तरितो भूत्वाऽतिष्ठत्। ततः सखीभ्यां तदवस्थां ज्ञातुं पृष्टा सा ब्रवीति - सख्यौ तपोवनेऽस्मिन् राजर्षेः दुष्यन्तस्य आगमनादेव अहमिमां दशां गतास्मि। स एव मम शरणमिति निशम्य प्रियम्वदा मदनलेखात्मक प्रयोगं रुचिरं विचार्य देवताप्रसादोपदेशेन राजानं प्रति तत्प्रापणकार्यं स्वयं स्वीकरोति । ततो मदनलेखं विरच्य शकुन्तलया वाच्यमानं निशम्य सन्तुष्टान्तरात्मा दुष्यन्तः तमेवावसरं प्रकटयितुं मत्वा सहसोपसृत्य स्वीयां चानिर्वर्णनीयां दशां ताः प्रख्यापयति । ततः सख्यौ आहतुः - महाभाग ! एषा नौ प्रियसखी शकुन्तला भवन्तमेवोद्दिश्य मदनेनेदं दशान्तरं नीता । तदहस्यभ्युपपत्या जीवितमस्या अवलम्बितुं । यथा नेयं बन्धुजनशोच्या भवति तथा करोतु महाराज-इत्युक्त्वा मृगपोतकं तन्मात्रा सह मेलयितुं व्याजीकृत्य लतामण्डपाद् बहिः निर्यग्मतुः । अथ सख्योरनुसरणपरा शकुन्तला राज्ञा बलान्निवारिता । ततः किञ्चित्कालं चिरप्रार्थितवाञ्छासाफल्येन सुखितयोः परमानन्दमनुभवतोः तयोः स्वस्थोपलम्भनार्थं शान्त्युदकहस्ता गौतमी शकुन्तलामाह्वयन्ती तमेव प्रदेशमनुसृत्य। प्रोवती वत्से ! अनेन दर्भोदकेन ते शरीरं निर्बाधं भविष्यति । ततो जाते ! परिणतो दिवसः सायंकालः संजातः, उटजं गच्छामः इति सर्वाः प्रस्थिताः । अथ दुःखेन तामनुसरन्ती ।

सा लतावलयव्याजेन राजानमवोचत् - लतावलय ! सन्तापहारक ! आमन्त्रये त्वां पुनः परिभोगाय। एवं सापदेशं राजानमुक्त्वा निर्ययौ । तेनातिखिन्नमना राजा तत्रैव प्रेयसीविहृतस्थलादि स्मारं स्मारं कथञ्चिदतिवाह्य प्रियापरिभुक्तमुक्ते लतामण्डपे मुहूर्तं स्थित्वा विषण्णः सन् सवनकर्मव्यापृतानामृषीणां निशाचरभयवारणायागात् -

सायन्तने सवनकर्मणि संप्रवृत्ते, वेदी हुताशनवतीं परितः प्रयस्ताः ।

छायाश्चरन्ति बहुधा भयमादधानाः, सन्ध्यापयोदकपिशाः पिशिताशनानाम्॥[]

सत्यवसरे दुष्यन्तो गान्धर्वविवाहविधिना शकुन्तलामुद्वाह्य तया साकं किञ्चित्कालमतिबाह्य ऋषिभिरनुज्ञातः स्वां राजधानीं जिगमिषन् तस्यै स्वनामाङ्कितमङ्गुलीयकं प्रदाय प्रावोचत् प्रिये ! अत्र प्रत्यहमेकमेकं मदीयं नामाक्षरं गणनीयं यावदन्तं गच्छति तावद् ममान्तःपुरप्रापकः कश्चन विश्वस्तो जनः तव समीपमुपैष्यतीत्येवमाश्वास्य हस्तिनापुरं चचाल ।

चतुर्थोऽङ्कः

सम्पादयतु

कुसुमावचयव्यग्रयोः प्रियम्वदाऽनसूययोः सख्योः मिथः संवादेन शायते यत्तपोवने समारब्धस्य यज्ञस्य निर्विघ्नं समाप्तौ मुनिभिर्विसर्जितः राजा दुष्यन्तः स्वां राजधानीं प्रतिष्ठाय स्वान्तःपुरजनेने गान्धर्वविधिना परिणीतां सखीं शकुन्तला संस्मरिष्यन् वेति । तमेव राजानं ध्यायन्ती शकुन्तला खिन्नमना उटजेऽवतस्थे सन्निधावेव वर्तते ।

एतस्मिन्नेवावसरे - अतिथिपरिभाविनि। ये स्वं प्रियमनन्यमनस्कतया विचिन्तयन्तीं आतिथ्येन द्वारदेशे समुपस्थितं मां तपोधनं न वेत्सीत्यतो बोधितोऽपि स ते प्रियः विवाहवृतं न स्मरिष्यतीति शप्त्वा सुलभकोपो महर्षिः दुर्वासा प्रतिनिवृत्तः ।

विचिन्तयन्ती यमनन्यमानसा, तपोधनं वेत्सि न मामुपस्थितम्।

स्मरिष्यति त्वां न स बोधितोऽपि सन् कथा प्रमत्तः प्रथमां कृतामिव॥[]

इमं व्यतिकरं निशम्य अनसूया सपदि मुनिप्रसादनाय प्रियम्वदां प्राहिणोत् । तया च मुनिचरणयोः प्रणिपत्य भूयो भूयोऽनुनीतो महर्षिरवादीत् - मम शापोऽन्यथा न भावी, किन्त्वभिज्ञानाभरणदर्शनेन स शापो निवर्तयिष्यते इत्यभिधायान्तर्हितो जातः । सख्यौ च नगरगमनसमये राज्ञा शकुन्तलायै प्रदत्ताङ्गुलीयकं स्मृत्वा शकुन्तलाचित्तोद्वेगभिया तच्छापवृत्तं तस्यै न निवेदितवत्यो ।

अथ सोमतीर्थयात्रातः प्रतिनिवृत्तेन महर्षिणा कण्वेनाग्निगृहे प्रवेशे कृतेऽशरीरिण्या व्योमवाचा शकुन्तलाया दुष्यन्तेन साकं संवृत्तं वृत्तमवोचि। ततो महर्षिः ब्रीडावनम्रां शकुन्तलामाश्लिष्य तत्कर्माभिनन्द। पतिगृहं प्रेषयितुकामः तदीय प्रस्थानमङ्गलविधिमादिदेश च। गौतम्यादिभिः जरतीभिः तापसीभिराशीर्वचनपूर्वकं निर्वतितप्रस्थानकौतुका, सखीकृतमङ्गलसमारम्भे च शकुन्तला मालिन्यां स्नानादिकृत्यं कृत्वाऽऽगतं तातकण्वं प्रणनाम । स च प्रेमगद्गदया वाचा - जाते ! शाकुन्तले ! आत्मसदृशेन भर्त्रा त्वं संगतेति प्रसीदतितमां मे चैतः। पतिगृहं समुपस्थाय मर्यादापालनपूर्वकं पति-सपत्नी-श्वसुर-श्वश्रू-परिजनादीनां सन्तोषकरकार्ये कार्यमित्यादिश्य, ययातेः शर्मिष्ठेव भर्तुः बहुमता भवेत्याशिषमदात्। ततः शकुन्तला तातानुरोधेन हुताग्नीन् प्रदक्षिणीकृत्य वनदेवताश्च प्रणम्य विभिन्नैः वृक्षादिभिः दत्तानि दिव्यानि आभरणवस्त्राणि परिधीय स्नेहविक्लवेन कण्वेन, वयस्याभ्यां चानुगम्यमानी पदे पदे स्खलन्ती प्रतस्थे । उदकान्तं प्रियजनोऽनुगन्तव्य इति शास्त्रनियमेनोदकान्तं गत्वा महर्षिः कण्वो दुष्यन्ताय समुचितं सन्दिश्य शकुन्तलामपि प्रसङ्गोचितमुपदिशत्। सख्यावपि प्रियम्वदानसूये - प्रियसखि ! शकुन्तले ! यदि स राजा प्रत्यभिज्ञानमन्थरो भवेत्तदा नगरगमनसमये तुभ्यमर्पितं तदङ्गुलीयकं तस्मै दर्शयितव्यमिति संदिदिशतुः ।

ततो गौतमी-शार्ङ्गरवशारद्वतैः सह शकुन्तला हस्तिनापुरं प्रतस्थे, कण्वश्च प्रियम्बदानुस्याभ्यां साकं शकुन्तलाशून्यं स्वाश्रमं प्रति परावृत्तः स्नेहप्रवाहाविमर्शपूर्वकं प्रावोचत् -

अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः।

जातो ममायं विशदः प्रकामं प्रत्यार्पितन्यास इवान्तरात्मा ॥[]

पञ्चमोऽङ्कः

सम्पादयतु

अथास्मिन् वयस्येन माधव्येन सह राजधान्यां नागरिकवृत्या लयतालबद्धं हंसपदिकागीतं निशम्य तदर्थं स्मारं स्मारं कामप्यन्तर्व्यथामानुभवति राजा दुष्यन्तः । अत्रैवान्तरे कुलपतेः कण्वस्यादेशमादाय तपोवनात् सस्त्रीकाः तपस्विनः समायाता इति कञ्चुकी निवेदते । ते श्रौतेन विधिना सत्कृत्य यशालायां प्रवेशयितव्या इत्यादिश्य राजापि तान् प्रतिपालयितुं तत्रोपतिष्ठते । ततः सोमरातः पुरोहितो राजाज्ञया श्रौतेन विधिना तान् सत्कृत्य शालामुपस्थापयत्। तच्च प्रविष्टास्ते आशीर्वचनपूर्वकं राज्ञे अवगुण्ठनवती शकुन्तलामधिकृत्य कण्वस्य सन्देशं न्यवेदयन् -

सतीमपि ज्ञातिकुलैकसंश्रयां, जनोऽन्यथा भर्तृमतीं विशङ्कते।

अतः समीपे परिणेतुरिष्यते, प्रियाप्रिया वा प्रमदा स्वबन्धुभिः।।[]

परं महर्षेः दुर्वाससः शापप्रभावेण स शकुन्तलायाः परिणयविधिं विसस्मार अकथयच्च यत्,

भो भोः तपस्विनः! निपुणं विचारयन्नपि न स्मरामि अस्याः देव्याः पाणिग्रहणम् । तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रति आत्मानं क्षत्रिणं मन्यमानः प्रतिपत्स्ये। तत्कण्वस्यान्तेवासिनां साधिक्षेरमुक्तोऽपि शकुन्तलायाः अवगुण्ठनापनयनानन्तरं प्रत्यक्षीकृत्यापि यदा नाङ्गी चकार तदाऽभिज्ञानेन तस्य शङ्कामपनेतुं शकुन्तला प्रववृते, परमङ्गुलीयकशून्यामङ्गुलीं दृष्ट्वा परमं विषण्णा सती तस्मै दीर्घापाङ्गमृगशावक जलपानप्रत्ययवचनं दत्तवती । तथापि वैफल्ये सति राजाऽवोचत् - आत्मकार्ये निर्वर्तनीनामनृतवाङ्माधुरीभिः विषयिण आकृष्यन्ते। उड्डयनशक्तेः पूर्वं परभृतः स्वानि अपत्यानि काकैः परिपोषयन्ति । अशिक्षितास्वपि स्त्रीषु परवञ्चनकौशलं प्रसिद्धमेव । अतो वनवासवर्धितापीयं शकुन्तला स्त्रीभावसुलभं वञ्चनकौशलं जानात्येव। यदि स्त्रीजातौ समुत्पन्नासु शिक्षणं विनैव नैसर्गिकं वञ्चनपङ्कत्वं दृश्यते, तर्हि वाग्व्यवहारकुशलासु मानुषीषु किं वक्तव्यम्?

स्त्रीणामशिक्षितपटुत्वममानुषीषु, संदृश्यते किमुत याः प्रतिबोधवत्यः।

प्रागन्तरिक्षगमनात् स्वमपत्यजातम्, अन्यैद्विजैः परभृताः खलु पोषयन्ति।।[]

त्वं जनयित्वा जङ्गके उत्सृष्टा कोकिलेवपरैः भृतासि । अतः कामं गच्छ, तिष्ठ वा यदेच्छं कुर। एवं स्वजनन्युपमर्देन सन्तप्ता शकुन्तला दुष्यन्तं प्रति - अनार्य ! आत्मनोऽनुमानेन सर्वान् प्रेक्षसे इति। तृणैराच्छन्नकूपस्य इव धर्मकञ्चुकिनः त्वत्तोन्य संसारे कः पापबुद्धिः। ततो गौतमी - जाते! पुरुवंशप्रत्ययेन मधुरभाषिणो हृदयनिहितविषस्य दुष्यन्तस्य हस्ते त्वमुपगता। ततः सकुन्तला पटान्तरे मुखमाच्छाद्य रोदिति। ततः शारद्वतोऽब्रवीत् - शार्ङ्गरव! किमुत्तर-प्रत्युत्तरेण। अस्माभिः गुरोर्नियोगोऽनुष्ठितः प्रतिनिवर्तामहे। राजानं प्रति इयं ते पत्नी त्यजैनां गृहाण वा। गौतमि! किमुत्तर-प्रत्युत्तरेण। अअस्माभिः गुरोः नियोगोऽनिष्ठितः प्रतिनिवर्तामहे। राजानं प्रति इयं ते पत्नी त्यजैनां गृहाण वा। गौतमि! गच्छाग्रतः। शकुन्तले! पतिकुले ते दास्यमपि शुचिव्रतमित्यादिश्य सर्वे प्रस्थिताः।

राज्ञा समयोचितं कर्तव्यें पुष्टः पुरोधा प्रोक्तवान् - इयं देवी तावत् मम गेहे एवाप्रसवं तिष्ठतु। त्वं प्रथमं चक्रवर्तिनं पुत्रं जनायिष्यसीति सिद्धैरादिष्टम्। तत् यदि मुनिदौहित्रः तल्लक्षणोपपन्नः स्यात्तर्हि इमामनभिनन्धान्तःपुरे प्रवेशयिष्यसि, विपर्ययेऽस्याः पितुः समीपे गमनमुचितम्। राज्ञानुमतो।सौ यदास्वगृहं गन्तुं प्रववृते तदैव 'भवगति वसुधे! देहि मे विवरमि'त्यभिदधाना स्वानि भाग्यानि च निन्दन्तीं क्रन्दमानां च तां शकुन्तलां स्त्रीसदृशमेकं ज्योतिरुत्क्षिप्याप्सरस्तीर्थे जगामेति पुरोहितो निवेदयति। तस्मिन्नुदन्ते साश्चर्यः पर्याकुलो राजा शयनागारं प्रविष्टश्चिन्तयति -

कामं प्रत्यदिष्टां स्मरामि न परिग्रहं मनुेस्तनयाम्।

बकवत्तु दूयमानं प्रत्यापयतीव मे हृदयम्।।[१०]

षष्ठोऽङ्कः

सम्पादयतु

अथ गच्छति किञ्चित्काले शक्रावतारतीवर्ती कश्चिद् धीवरी रत्नजटितं राजनामोत्कीर्णे बहुमूल्यसेकं स्वर्णमयमङ्गुलीयकं विक्रेतुमापणे गच्छन् राजपुरुषाभ्यां बद्धहस्तो नगररक्षकराजश्यालकसमीपमानीतः। अङगुलीयकागमनकारणं पृष्टः स ब्रते - स्वामिन् ! जालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणपोषणं करोमि । एकदा मया जाले एको रोहितो मत्स्य आसादितः । खण्डशः कल्पितस्य तस्य मत्स्यस्योदरे रत्नभास्वरमिदमङ्गुलीयकं मया लब्धा विक्रमापणे आगतः, आभ्यां गृहीतः आनीतश्च । तदाकण्ये नगरपालः तदङ्गुलीयकमादाय राजकुलं गत्वा राजशासनं प्रतीक्ष्य प्रत्यागतो रक्षिणावुवाच – मुच्यतामेष जालोपजीवी धीवरः । विदितोऽस्याङ्गुलीयकस्यागमवृत्तान्तः, एषोऽङगुलीयकमूल्यसम्मितः प्रसादोऽपि सन्तुष्टेन राज्ञाऽस्मै प्रदत्त, इत्युक्त्वा तस्मै धीवराय, स्वर्णकङ्कणं दत्तवान् चकार च तेन साकं कादबरो-मैत्रीम्।

अथ मेनकासहचरी सानुमती नामाप्सराः पर्यायनिवर्तनीयमप्सरस्तीर्थसान्निध्य सम्पाद्य राज्ञो दुष्यन्तस्य प्रमदवने प्रविष्टा तिरस्करिणी प्रतिच्छन्ना राज्ञः पार्श्ववर्तिनी भूत्वा तस्थौ । अङ्गुलीयकदर्शनेन स्मृतशकुन्तलो राजा क्वापि शान्तिं न लेभे, वसन्तोत्सवं प्रतिषिध्य माधव्याद्वितीयः शकुन्तलावृत्तान्तं भूयो भूयः स्मरन् निन्दंश्चात्मनश्चेष्टितं शकुन्तला-चित्रलेखनादिना तद्विषयकालापैश्च कथं कथमपि निनाय दिवसान् । प्रत्यादेश-विमानितायाः शकुन्तलाया विरहेन दुःखमनुभवन्, रात्रौ जागरणात् न मया धर्मासनमध्यासितुं सम्भावितमतो यत् प्रत्यवेक्षितममात्येन तत् पत्रमारोप्यतामिति पौरकार्यपर्यवेक्षणे नियुक्तममात्यमादिशति ।

ततः समुद्रव्यापारव्यवहारी सार्थवाहो धनमित्रो नौव्यसने विपन्नः। अतोऽनपत्यस्य तस्यार्थसंचयो राजगामी भवेदित्यमात्येन लिखितं विचार्यात्मनोऽनपत्यतां स्मरन् मदवसाने पुरुवंशश्रिय एष एव विपाको भवितेति भावयन्, बहुपत्नीकस्य तस्य धनिकस्य काचिद्भार्या आपन्नासत्वा स्यात्तर्हि तद्भार्यागर्भस्थ एवं शिशुः पित्र्यं रिक्तमर्हतीत्यादिशति धर्मात्मा राजा दुष्यन्तः । इमं निखिलं वृत्तान्तं मेनकानियुक्ता सा सानुमती प्रत्यक्षीकृत्य स्वसख्यै मेनकायै प्रियमिदं निवेदयितुं कामा ततो दिवं निर्जगामः।

अत्रान्तरे केनापि अलक्षितेन सत्त्वेनाक्रान्तो माधव्योऽब्राह्मण्यमुद्घोषितवान् । ततो भूयः तस्मिन् मेघप्रच्छन्ने प्रासादे आर्तस्वरं निशम्य स्ववयस्यस्य संरक्षणाय स्वधनुषि अमोघं स्वं बाणं सन्दधे । तदा माधव्यमुन्मुच्येन्द्रसारथिर्मातलिराविर्भूय ‘हरिणा असुरास्ते शरण्ये कृताः, तेष्वेवेदं धनुः विकृष्यतां न मयि' इत्युवाच। तदनु राज्ञाभिनन्दितोऽसौ तस्मै स्वागमनकारणमाख्यत् - राजन् ! कालनेमिप्रसूतो दुर्जयो नाम दानवगणः ते सख्युरिन्द्रस्याजयो जातः । तस्य त्वं निहन्ता स्थितः । अत आत्तशस्त्रं इममिन्द्ररथमारुह्य विजयाय प्रतिष्ठिताम् । तदाकर्ण्य राजा दुष्यन्तः 'अनुगृहीतोऽस्मि अनया मघोनः संभावनया' इत्युक्त्वा माधव्यस्याक्रमणकारणं पृष्ट्वा ज्ञाततथ्यः स्वगमनवृत्तान्तममात्याय निवेदयितुमादिश्य तस्मिन् राजभारं च नियोजितवान् प्रहृष्टमना -

त्वन्मतिः केवला तावत् परिपालयतु प्रजाः ।

अधिज्यमिदमन्यस्मिन् कर्मणि व्यापृतं धनुः ॥[११]

तदनन्तरं स वासवीयं रथमारुह्य दिवं प्रस्थितवान् ।

सप्तमोऽङ्कः

सम्पादयतु

अस्मिन्नङ्के कालनेमिप्रसुतं दर्जदानवगणं निहत्य देवकार्य-सम्पादनानन्तरं देवराजस्य सत्क्रियया संभावितो राजा दुष्यन्तो व्योमयानेनावतरद् मातलि-परिचायिता देवभूमीरवलोकयन् मध्ये मार्गे हेमकूटं किंपुरुषवर्षपर्वतं दृष्ट्वा तत्र तपश्चरतः सपत्नीकस्य मरीचिनन्दनस्य देवपितुः कश्यपस्य दर्शनलालसया तदाश्रममवतरति । तत्र प्रजापतिः कश्यपः स्वभार्यया दक्षकन्ययाऽऽदित्या पतिधर्ममधिकृत्य पृष्टो महर्षिपत्नीभिः सहितायै तस्यै उपदिशतीति ज्ञात्वा अशोकवृक्षमूले राजा समुपविशति, मातलिश्च राजागमनं निवेदयितुमवसरं ज्ञातुं च महर्षिसमीपे प्रस्थितः।

तत्र नरपतिः शुभसूचकचिह्नमनुभवन् तापसीभ्यां निषिध्यमानेनाबालसत्वेन बालेन संक्रीडितुं सिंहशिशुं बलादाकृष्ण जुम्भस्व सिंह ! दन्तांस्ते गणयिष्ये इति वीरोचितैः कृत्यैः औरससुतानुरागेण चाकृष्टो भवति । कस्य कृतिनो बीजमयं बाल इति विमृशन् स सिंहशावकादन्यत् क्रीडनकं ग्रहीतुं प्रसारितकरस्य तस्य बालकस्य हस्ते चक्रवर्तिलक्षणं दृष्ट्वा हृष्टः। ततो वाग्व्यापारेणायं विरमयितुमशक्य इति मत्वा एका तापसी तं प्रलोभयितुं मृत्तिकामयूरमानेतुं स्वकुटीरे जगाम । ततो द्वितीया इतस्ततोऽवलोक्य राजानमवोचत् - भद्रमुख ! मोचय नेन दुर्मोकहस्तेन बाध्यमानं बालमृगेन्द्रम् । ततस्तावत्तद्वचनमनुतिष्ठन् बालस्पर्शसुखमुपलभ्य कामपि अपूर्वां निर्वृतिमेतः स तां तद्बालकवंशपरिचयादिकं पप्रच्छ । सा च तस्य पुरुवंशप्रभवत्वम् अप्सरसः संभवत्वं चावोचत्।

यदा च केसरिकिशोरकविमर्दात्तन्मणिबन्धात् परिभ्रष्टं रक्षाकरण्डकं दुष्यन्तो यावद् गृह्णाति, तावत्तापसी निवेदयते - एषा अपराजिता नामौषधिरस्य शिशोः जातकर्मसमये भगवता कश्यपेन बद्धा । यदि जननी जनकं बालकं वा विहायान्यः कश्चिद, भूमिपतितामेनां गृह्णाति तदा सर्पो भूत्वा तं दशतीत्यनेको दृष्टचरम् । ततः स्वपुत्र एवायमिति जातनिश्चयो बालं प्रेम्णापरिसवाजे । ततस्तापसीभ्यां तदुदन्तमुपलभ्य तत्रागतां शकुन्तलां समीक्ष्य राजा तामभिननन्द। ततो मातरमालोक्य सर्वदमनः - मातः ! क एषः पुत्र इति कथयित्वा मामालिंगति । ततः सा - आयुष्मन् स्वं भाग्यं पृच्छेत्युत्तरयति । ततः प्रणिपातादिना शकुन्तलाया विषादशल्यमुद्धरनुवाच राजा - प्रिये ! मया त्वं मोहात्स्वयमुपस्थितापि उपेक्षिता । एवं पश्चात्तापदूनहृदयो नृपोऽङ्गुलीयकोपालम्भात् स्मृतिरूपलब्धेत्युक्त्वा तस्यै तदङ्गुलीयकं दर्शयति । विषमं कृतमनेन यत्तदाऽऽर्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् । नास्य विश्वसिमि । आर्यपुत्र एवैतद् धारयतु ।

तत्र च तादृशं भूपं वीक्ष्य मातलिसौभाग्येनायुष्मान् धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन च वर्द्धसे इत्युक्त्वा तं संभावयामास । ततो राजा–मातले ! वृत्तान्तेनानेनाखण्डलोऽवबोद्धव्य इति विचारे मातलिः विहस्याह - किमीश्वराणामविदितं, सर्वं जानाति स सहस्राक्षो देवराजः । ऐतु आयुष्मान् सपत्नीको मरीचिनन्दनो महर्षिः कश्यपः ते दर्शनं वितरति । अनन्तरं सकलत्रपत्रो राजा भगवन्तं कश्यपमदिति च द्रष्टुमुपस्थितः । ततो महर्षिः कश्यपोऽपि स्नेहदृष्ट्या शुभाशिषा तावनुगृह्य आयुष्मन् ! दुर्वाससः शापादियं तपस्विनी शकुन्तला त्वया प्रत्यादिष्टा नान्यथा, वत्से ! चरितार्थासि सहधर्मचारिणं दुष्यन्तं प्रति त्वया मन्युर्न कार्य इत्याभाष्य प्रत्यादेशविषये उभावपि निवृत्तचित्तौ कृत्वा शुभाशिषा संयोजयति -

आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।

आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥[१२]

मेनकापि तत्र भर्तृपुत्रसहितां दुहितरं दृष्ट्वाऽतिमुमुदे । ततो दुष्यन्तो भगवता मारीचेन विसृष्टः पत्रकलत्राभ्यां सदिते दिव्यर्मैन्द्रं रथमारुह्य पौरैरभिनन्द्यमान स्वं नगरं प्रविवेश ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु

सन्दर्भाः

सम्पादयतु
  1. अभिज्ञानशाकुन्तलम् ५
  2. १८
  3. २५
  4. २४
  5. २१
  6. १७
  7. २२
  8. ३१
  9. ३२
  10. २८
"https://sa.wikipedia.org/w/index.php?title=अभिज्ञानशाकुन्तलम्&oldid=479896" इत्यस्माद् प्रतिप्राप्तम्