अष्टादशसु महापुराणेषु चत्वारि पुराणानि प्राचीनतमानि सन्ति । तानि मत्स्य (MatsyaPurana)-ब्रह्माण्ड-वायु-विष्णुपुराणानि । महाप्रलयावसरे भगवान् श्री विष्णुः मत्स्यावतारं ('मत्स्यावतारिणं देवं मत्स्याकारं प्रकल्पयेत्')धृत्वा मनुम् उद्दिश्य दत्तं बोधनम् एव इदं पुराणम् । अस्मिन् हरिशिवयोः उभयोः अपि स्तुतिः विद्यते इत्येतत् वैशिष्ट्यम् । अस्मिन् पुराणे १४,००० श्लोकाः २९१ अध्यायेषु विद्यन्ते ।

मत्स्यपुराणम्  
लेखक वेदव्यासः
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय विष्णुः भक्तिः
प्रकार वैष्णवग्रन्थः
पृष्ठ १४,००० श्लोकाः

अस्मिन् पुराणे एते विषयाः वर्णिताः सन्ति

सम्पादयतु

अस्मिन् पुराणे सप्तकल्पानां विवरणम् उपलभ्यते । मनुमत्स्ययोः संवादतः अस्य पुराणस्य आरम्भः भवति । नृसिंनवर्णनं, ब्रह्माण्डवर्णनं, देवतानाम् असुराणां च प्रादुर्भावः, मरुद्गणस्य आविर्भावः,पृथुराज्यस्य वर्णनं, वैवस्वतमनोः उत्पत्तिः, अनेकव्रतादीनां विस्तृतविवरणं, मन्दिरप्रासादादीनां निर्माणक्रमादयः अत्र वर्णिताः सन्ति । अस्य पुराणस्य प्रथमाध्याये भगवतः मत्स्यावतारविषयः विवृतः अस्ति । कश्चन राजा मनुः कदाचित् तपस्याचरणाय मलयदेशं गतवान् । 'प्रलयावसरे समस्तस्य जीवजगतः सत्त्वबिजस्य रक्षणे समर्थो भव' इत्येतं वरं प्राप्तवान् ब्रह्मणः सकाशात् । कदाचित् पितृतर्पणस्य दानावसरे तेन कश्चन लघुः मत्स्यः करतले दृष्टः । सः तं मत्स्यं जलद्रोण्यां अस्थापयत् । दिनाभ्यन्तरे मत्स्यः आद्रोणीं व्याप्य अतिष्ठत् । ततः मनुः मत्स्यं कूपे अपातयत्, ततः सरोवरे, ततः सागरे तं मत्स्यम् अस्थापयत् । सागरम् अपि अभिव्याप्य स्थितं मत्स्यं दृष्ट्वा आश्चर्यान्वितः मनुः अवदत् - 'भवान् अस्ति साक्षात् महाविष्णुः । अन्यथा इदम् असाध्यम् एव' इति । तदा मत्स्यरूपी भगवान् अवदत् - 'हे राजन् ! भवता युक्तम् उक्तम् । अचिरात् एव जलप्रलयतः भूमिः जले निमग्ना भविष्यति । (एतदेकार्णवं सर्वं करिष्यन्ति जगत् त्रयम् । - मत्स्यपुराणम् २।१०) । तदा वेदनावं भवतः समीपम् आगमिष्यति । समस्तस्य जीवजगतः सत्त्वबिजस्य रक्ष्णं भवता कर्तव्यम्' इति । अग्रे सर्वं ततैव जातम् ।

बाह्यसम्पर्कतन्तु

सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मत्स्यपुराणम्&oldid=402544" इत्यस्माद् प्रतिप्राप्तम्