अभिमन्युः

(अभिमन्यु इत्यस्मात् पुनर्निर्दिष्टम्)

अभिमन्युः महाभारतस्य किञ्चन प्रधानं पात्रम्। चन्द्रवंशे जातोऽयमभिमन्युः अर्जुनसुभद्रयोः पुत्रः। बलरामः श्रीकृष्णश्च अस्य मातुलौ । विराटराजस्य पुत्री उत्तरा, बलरामस्य पुत्री शशिरेखा च अभिमन्योः द्वे पत्न्यौ । षोडशे वयसि एव कुरुक्षेत्रे चक्रव्यूहं प्रविष्टोऽयं शत्रूणां कापट्यकारणात् स्वप्राणान् त्यक्तवान् । उत्त्तरायाः गर्भाम्बुधौ समुत्पन्नः राजा परीक्षित् चन्द्रवंशस्य उत्तराधिकारिरूपेण हस्तिनापुरे राज्यभारं कृतवान् ।

अभिमन्युः
अभिमन्युः उत्तरया सह
उत्तराधिकारी परीक्षितः
पत्नी उत्तरा
House कुरुः
पिता अर्जुनः
माता सुभद्रा
मतम् हिन्दुक्षत्रियः

बाल्यं विद्याभ्यासश्च

सम्पादयतु

अभिमन्युः आबाल्यादेव महान् चतुरमतिः आसीत् । गर्भावस्थायामेव विद्यमानः शिशुः अभिमन्युः श्रीकृष्णमुखात् व्यूहभेदनं तथा व्यूहे आक्रमणञ्च अभ्यस्तवान् आसीत् । मकरव्यूह:,कूर्मव्यूह:,सर्पव्यूह: इत्यादीनां व्यूहानां भेदनम् अभ्यस्तवान् । परं सुभद्रा ईषन्निद्रया आक्रान्ता इति हेतोः केवलं चक्रव्यूहस्य भेदनम् अवगतवान्,न तु ततः प्रत्यागमनम् । अभिमन्युः बाल्यकाले श्रीकृष्णपुत्रेण प्रद्युम्नेन,पित्रा अर्जुनेन च प्रशिक्षितः सन् मातुलयोः बलरामकृष्णयोः वात्सल्येन द्वारकायामभिवृद्धः ।

अभिमन्योः मरणम्

सम्पादयतु
 
ह्ळेबीडु देवालयस्य शिल्पकलायां चक्रव्यूहम्

कुरुक्षेत्रयुद्धस्य त्रयोदशे दिने यदा कृष्णार्जुनौ संशप्तकैः सह योद्धुं गतवन्तौ तदा कौरवाः चक्रव्यूहं विरचय्य पन्थाह्वानमकुर्वन् । पाण्डवपक्षे अर्जुनं विहाय अभिमन्युरेव चक्रव्यूहस्य भेदनं जानाति स्म इति कारणेन व्यूहभेदनं कृत्वा अन्तः प्रविष्टवान् । किन्तु कर्णः कपटयुद्धेन अभिमन्योः हस्तद्वयं कर्तितवान् । जयद्रथः अभिमन्युं मारितवान् ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=अभिमन्युः&oldid=422883" इत्यस्माद् प्रतिप्राप्तम्