कुरुः
पुराणानाम् अनुसारं "पुरुभारतम्" कुरुजनानाम् उगमस्थानम् । ऐतरेयब्राह्मणाः मध्यप्रदेशस्थाः कुरुजनाः । हिमालयस्य उत्तरभागे उत्तरकुरुजनाः वसन्ति स्म । कुरुक्षेत्रे विद्यमानाः कुरुजनाः उत्तरकुरुवंशस्थाः आसन् इति वदति बौद्धग्रन्थः "सुमङ्गविलासिनि"नामकः । पुरुवंशस्य राज्ञः संवरसस्य पुत्रः कुरुः एव कुरुवंशस्य कुरुराष्ट्रस्य च संस्थापकः इति वदति वायुपुराणम् । कुरुदेशः इदानीन्तनदेहलीराज्यस्य थानेसरं परितः तथा च इदानीन्तन-उत्तरप्रदेशस्य मीरत्जनपदं परितः च व्याप्तः आसीत् । कुरुराज्यस्य राजधानी आसीत् इदानीन्तनदेहलीसमीपस्थम् "इन्द्रप्रस्थ"नगरम् । बुद्धस्य अवधौ कुरुराज्यस्य शासनं राजा "कोरैव्यः" करोति स्म । सः नाममात्रं राजा आसीत् । वेदकाले कुरुवंशेन समाजे उत्तमं स्थानं प्राप्तम् आसीत् । किन्तु बुद्धस्य अवधौ तादृशं स्थानं न प्राप्तम् आसीत् तैः । तथापि तेषां गभीरज्ञानस्य, तीक्ष्णबुद्धेः, उत्तम-आरोग्यस्य च कारणतः तदवधौ ते प्रख्याताः एव आसन् । कुरुवंशीयाणां यादवैः, भोजैः, पाञ्चालैः सह च वैवाहिकसम्बन्धः आसीत् । तदानीन्तनकाले यद्यपि राजानां शासनम् आसीत् तथापि कुरुजनानां (क्रिस्तपूर्व ५ शतके) प्रजातन्त्रसदृशं शासनम् आसीत् । क्रिस्तपूर्वस्य ४ शतकस्य कौटिल्यस्य अर्थशास्त्रम् अपि कुरुवंशीयाः राजशब्दोपजीवनाख्यस्य संविधानस्य (राजप्रभुत्वम्) अनुसरणं कुर्वन्ति स्म इति वदति ।
कुरुः | |
---|---|
१६ जनपदान् दर्शयत् मानचित्रम् | |
Etymology: c. 1200 BCE–c. 500 BCE | |
देश | भरतः |
राजधानिका | असन्दिवत , हास्तिनपुर |
भाषा | संस्कृत |