अभियनाथः
अभियनाथः एम० ए०, काव्यतीर्थोपाधिविभूषितः राजकीयमहाविद्यालये अध्यापयति स्म । हुगलीनर्गय्यां तेन संस्कृतपरिषत् स्थापिता । १९७० ई० वर्षे स दिवंगतः । हरिनामामृतप्रस्तावनायां सूत्रधारः अभियनाथं परिचाययति -
अभियनाथः | |
---|---|
जननम् | विंशतिशताब्दी |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्यकारः |
विषयाः | पौराणिक-ऐतिहासिकनाटकानि |
प्रमुखकृतयः | हरिनामामृतम्, धर्मराज्यम् |
विषयैः प्रभावितः
भारतीयपुराणशास्त्रम्, भारतस्य इतिहासः
|
परिषदः स्वकीयेन सदस्येन परात्मना
दुर्गानाथात्मजेनैव सतीनाथानुजेन च।।
श्रीमतामियनाथेन रचितं चक्रवर्तिना
सुबोधसंस्कृतैर्नाट्यं प्रतिवर्ष प्रदर्श्यते।।
हरिनामामृतम्
सम्पादयतुअत्र चैतन्यस्य संसार त्यागपर्यन्तं चरितं रूपकायितम् । नित्यानन्दः कृष्णमन्विष्यन् नवद्वीपे नन्दनाचार्यगृहमाप । आत्मानं स परिचाययति -
पथि पथि परिगच्छन् प्रेमयाच्ञां करोमि
प्रियजनसखिभावं दर्शयन् मां गृहाण।
भजन-निरत-बन्धो वङ्गदेशे सुभाग्ये
यदुपतिसुतजन्म प्राप्य धन्योऽसि भक्तः।।
नन्दनस्तमाह - 'चरणप्रासादेन धन्यं कुरु मम कुटीरम्' इति।
हरिदासः यवनमन्त्रिणा विष्णुविरोधिना कशाघातैः ताडितः । गौराङ्गस्य कीर्तनदलश्चतुष्पथे पतितं तं प्राप । नित्यानन्दोऽपि दण्डकमण्डलू प्रक्षिप्य कीर्तनदलेन मिलितः । कीर्तनयात्रायां चाण्डालद्वयं गौराङ्गम् आलिलिङ्ग । एतत् वङ्केश्वरभैरवानन्दौ नासहेताम् । तथापि गौराङ्गं परीक्षितुं वङ्केश्वरस्तस्य वक्षसः स्पर्शमात्रेण पुलकितोऽगायत - भज गौराङ्गं स्मर गौराङ्गमिति । राजपण्डितः सार्वभौमः चैतन्यलीलया। चमत्कृतः तं विष्णोरंशं व्यजानात्।
नाटकमिदं सुबोधं विद्यते । संवादेषु चटुलता विलसति । कीर्तननृत्य-गीतादीनां प्राचुर्याद् अस्याभिनयः रुचिकरः स्यात् ।
धर्मराज्यम्
सम्पादयतुअस्मिन् रूपके महाभारतीयं कथावस्तुराजते । अत्र द्युतनिर्जिताः। मपहृतालंकारां द्रौपदीं गान्धारी समागत्य वक्षसा आलिङ्गति । दुःशासनादीन् अपि सा निर्भत्सयति । निर्वहणे दुर्योधनस्य अधर्मराज्ये समाप्ते धर्मराज्यस्य स्थापना भवति ।